1 of 7

श्रीः �केन्बरासंस्कृतवर्गः०९.०३.२०२२

1

2 of 7

॥श्रीरामोदन्तम् – युद्धकाण्डः ३९-४०

अनादृत्य तु तान् सर्वान् राक्षसान् प्रहृतानपि।

अवष्टभ्य बलं पुत्र सुखेनावस्थितं तव॥६.३९॥

अव + ष्टभिँ प्रतिबन्धे + ल्यप् = अवष्टम्भ्य।

इत्येवं बहुधा तत्र विलप्य स तु रावणः।

अन्तर्नियम्य दुःखानि कोपं चक्रे सुदारुणम्॥६.४०॥

सु दॄ विदारणे + णिच् + कॄवृदारिभ्य उनन् + अम् = सुदारुणम्। भीषणम्, प्रतिभयम्, भीष्मम्, घोरम्, भीमम्, भयानकम्, दारुणम्, भयङ्करम्, भैरवम्।

3 of 7

॥श्रीरामोदन्तम् – युद्धकाण्डः ४१-४२

रथं सूत ! ममाग्रे त्वं क्षिप्रं कुरु जयैषिणः।

रामं सलक्षमणं हन्तुं निर्गमिष्याम्यहं गृहात्॥६.४१॥

जि जये + घञ् + एषिन् (त्रि० इष--णिनि . इच्छौ अभिलाषुके, यौवनेविषयैषिणाम्) = जयैषिन्

इत्युक्त्वा रथमारुह्य शीघ्रं सारथिवाहितम्।

रामेण सह सङ्गम्य युद्धं चक्रे सुदारुणम्॥६.४२॥�वाहृँ प्रयत्ने (भ्वादिः आत्मनेपदी अकर्मकः सेट्) + क्त + अम् = वाहितम्।

4 of 7

॥श्रीरामोदन्तम् – युद्धकाण्डः ४३-४४

ततो मातलिनाऽनीतं रथमैन्द्रं समारुहन्।

रराज रामो धर्मात्मा ह्युदयस्थो यथा रविः॥६.४३॥

रुहँ बीजजन्मनि प्रादुर्भावे च (भ्वादिः परस्मैपदी अकर्मकः अनिट् ज्वलादिः)

चकार युद्धं तुमुलं देवबृन्दे च पश्यति।

सीताहरणजात् कोपाद्रामो धर्मभृताम् वरः॥६.४४॥यस्य च भावेन भावलक्षणम् (२.३.३७) – अग्निषु हूयमानेषु (शतृ/शानच्) गतः, अग्निषु हुतेषु (क्त/क्तवतु) आगतः।

5 of 7

॥श्रीरामोदन्तम् – युद्धकाण्डः ४५-४६

अथागस्त्यस्य वचनात् रावणं लोककण्टकम्।

जघान रामो लक्ष्मीवान् ब्राह्मेणास्त्रेण तं रणे॥६.४५॥

कण्टकः, पुं, (कटि + ण्वुल् .) सूच्यग्रम्, क्षुद्रशत्रुः, मत्स्याद्यस्थि, नैयायिकादि-दोषोक्तिः, रोमाञ्चः।

मन्दोदरी वधं श्रुत्वा भर्तुः प्रियतरस्य सा।

विललाप रणं गत्वा कुररीव भृशातुरा॥६.४६॥�कुररी, स्त्री, (कुरर + स्त्रियां जातित्वात् ङीष् .) मेषी . इति हेमचन्द्रः, कुररपक्षिस्त्री इत्यमरः। कुररः an osprey.

6 of 7

॥श्रीरामोदन्तम् – युद्धकाण्डः ४७-४८

विभीषणोऽथ रामेण सन्दिष्टः सह राक्षसैः।

चकार दहनं तस्य रावणस्य गतायुषः॥६.४७॥

दिशँ अतिसर्जने तुदादिः, उभयपदी, सकर्मकः, अनिट्। आयुषम्, (At the end of a few comps.) Life; e. g. पुरुषायुषजीविन्यः R.1.63.

अथाग्निवचनात् सीतां रामो वीक्ष्य सुनिर्मलाम्।

सन्दिष्टो देवबृन्दैश्च जग्राह पितृसन्निधौ॥६.४८॥�ग्रहँ उपादाने (क्र्यादिः उभयपदी सकर्मकः सेट्) – जग्राह (लिट्)

गृह्णाति, ग्रहणम्, ग्रहणीयः, ग्राहकः, ग्रहितुम्, गृहीत्वा, गृहीत।

7 of 7

॥श्रीरामोदन्तम् – युद्धकाण्डः ४९-५०

तवैव युक्तं कर्मैतत् सर्वलोकभयङ्करम्।

तद्वैदेह्याः कृते राम ! सा तु लक्ष्मीर्भवान् स्वभूः॥६.४९॥

कृते, कृतेन ind. (with gen. or in comp.) For, for the sake of, on account of; अमिषां प्राणानां कृते Bh.3.36.

इत्येवं देवसङ्घैश्च मुनिभिश्चाभिपूजितः।

लक्ष्मणश्च तुतोषाथ रामो विश्वासमाययौ॥६.५०॥�तुषँ प्रीतौ (दिवादिः परस्मैपदी अकर्मकः अनिट् पुषादिः)