�श्रीः योगिनां केन्बरासंस्कृतवर्गः�०७.०७.२०२२�यजुर्वेदः अध्यायः ३ मन्त्रः ९ �अ॒ग्निर्ज्योति॒र्ज्योति॑र॒ग्निः स्वाहा॒ सूर्यो॒ ज्योति॒र्ज्योतिः॒ सूर्यः॒ स्वाहा॑। अ॒ग्निर्वर्चो॒ ज्योति॒र्वर्चः॒ स्वाहा॒ सूर्यो॒ वर्चो॒ ज्योति॒र्वर्चः॒ स्वाहा॑। ज्योतिः॒ सूर्यः॒ सूर्यो॒ ज्योतिः॒ स्वाहा॑॥३.९॥�
1
त्रिं॒शद्धाम॒ वि रा॑जति॒ वाक्प॑त॒ङ्गाय॑ धीयते । प्रति॒ वस्तो॒रह॒ द्युभिः॑ ॥३.८॥
वाक् धीयते इति स्तूयते (कर्मणि)। प्रति वस्तोरह इति दिनं दिनम्।
(सूर्यः अग्निः वा) द्युभिः वस्तोरहनि त्रिंशद्धामानि विराजयति। वाक् पतङ्गाय (सूर्याय अग्नये वा) प्रति धीयते (डुधाञ् धारणपोषणयोः कर्मणि)। इति सायणाचार्यः। सायणाचार्यः न कथयति केन स्तूयते।
वाक् त्रिंशद्धामानि विराजयति। द्युभिः प्रति वस्तोरह पतङ्गाय वाक् धीयते (कर्मणि)। इति स्वामिदयानन्दः।
वाक् त्रिंशत्सु धामसु विराजति। यागपारायणाद्युत्सवभूतैः (द्युभिः) प्रति वस्तोरह पतङ्गाय वाक् धीयते (कर्मणि)। इति उवटः महिधरः च।
2
त्रिं॒शद्धाम॒ वि रा॑जति॒ वाक्प॑त॒ङ्गाय॑ धीयते । प्रति॒ वस्तो॒रह॒ द्युभिः॑ ॥३.८॥
त्रिं॒शत् । धाम॑ । वि । रा॒ज॒ति॒ । वाक् । प॒त॒ङ्गाय॑ । धी॒य॒ते॒ ।
प्रति॑ । वस्तोः॑ । अह॑ । द्युऽभिः॑ ॥८॥
पदार्थः - (त्रिंशत्) पृथिव्यादीनि त्रयस्त्रिंशतो वस्वादीनां देवानां मध्ये पठितानि। अन्तरिक्षमादित्यमग्निं च विहाय त्रिंशत्संख्याकानि (धाम) दधति येषु तानि धामानि। अत्र सुपां सुलुग्॰ [अष्टा॰७.१.३९] इति शसो लुक्। (वि) विशेषार्थे (राजति) प्रकाशयति, अत्रान्तर्गतो ण्यर्थः। (वाक्) उच्यते यया सा। वागिति वाङ्नामसु पठितम्। (निघं॰१.११) (पतङ्गाय) पतति गच्छतीति पतङ्गस्तस्मा अग्नये (धीयते) धार्यताम् (प्रति) वीप्सायाम् (वस्तोः) दिनं दिनम्। वस्तोरित्यहर्नामसु पठितम्। (निघं॰१.९) (अह) विनिग्रहार्थे। अह इति विनिग्रहार्थीयः। (निरु॰१.५) (द्युभिः) प्रकाशादिगुणविशेषैः। दिवो द्योतनकर्मणामादित्यरश्मीनाम्। (निरु॰१३.२५)॥८॥
3
त्रिं॒शद्धाम॒ वि रा॑जति॒ वाक्प॑त॒ङ्गाय॑ धीयते । प्रति॒ वस्तो॒रह॒ द्युभिः॑ ॥३.८॥
त्रिं॒शत् । धाम॑ । वि । रा॒ज॒ति॒ । वाक् । प॒त॒ङ्गाय॑ । धी॒य॒ते॒ ।
प्रति॑ । वस्तोः॑ । अह॑ । द्युऽभिः॑ ॥८॥
भावार्थः - या वाणी प्राणयुक्तेन शरीरस्थेन विद्युदाख्येनाग्निना नित्यं प्रकाश्यते, सा तद् गुणप्रकाशाय विद्वद्भिर्नित्यमुपदेष्टव्या श्रोतव्या चेति॥८॥
4
त्रिं॒शद्धाम॒ वि रा॑जति॒ वाक्प॑त॒ङ्गाय॑ धीयते । प्रति॒ वस्तो॒रह॒ द्युभिः॑ ॥३.८॥
उ० त्रिंशद्धाम । त्रिंशत्सु धामस्विति विभक्तिव्यत्ययः। 'धामानि त्रयाणि भवन्ति स्थानानि नामानि जन्मानि' इति स्थानान्यत्राभिप्रेतानि । त्रिंशच्चाहोरात्रे मुहूर्तास्त इह गृह्यन्ते । त्रिंशत्सु स्थानेषु मुहूर्ताख्येषु स्तुतिभिरग्निरयं स्तूयते । यज्ञे या वाग्विराजति शोभते स्तूयमाना सा वाक् । पतङ्गाय पतन्गच्छतीति पतङ्गोऽग्निः स ह्यरण्याः पतन् गार्हपत्यभावं गच्छति गार्हपत्यादाहवनीयमित्यादिना तादर्थ्ये चतुर्थी । पतङ्गार्थं धीयते अग्न्यर्थमुच्चार्यत इत्यर्थः । एतदुक्तं भवति । सर्वदेवतासंबन्धिनीभिः स्तुतिभिरग्निरेव स्तूयते। स हि सर्वात्मा।
5
त्रिं॒शद्धाम॒ वि रा॑जति॒ वाक्प॑त॒ङ्गाय॑ धीयते । प्रति॒ वस्तो॒रह॒ द्युभिः॑ ॥३.८॥
उ० प्रतिवस्तोरह द्युभिः। वस्तोः द्युःभानुः इत्यहर्नामसु पठितम् । अह इति निपातो विनिग्रहार्थीयः । न केवलं या त्रिᳪशत्सु धामसु वाग्विराजति सा पतङ्गाय धीयते किं तर्हि प्रतिवस्तोः प्रत्यहं च या स्तुतिलक्षणा वाक् सा च द्युभिः अहोभिरुत्सवभूतैः । उत्सवाः यागपारायणादयः । स्तुतिलक्षणा वाक् सा च पतङ्गाय धीयते नान्यस्यै देवतायै ॥८॥
6
त्रिं॒शद्धाम॒ वि रा॑जति॒ वाक्प॑त॒ङ्गाय॑ धीयते । प्रति॒ वस्तो॒रह॒ द्युभिः॑ ॥३.८॥
म० 'सुपां सुलुक्' (पा० ७ । १ । ३२ ) इत्यादिना त्रिंशच्छब्दाद्धामशब्दाच्च सुपो लुक् । 'धामानि त्रयाणि भवन्ति स्थानानि नामानि जन्मानीति' (निरु० ९ । २८ । २९ )। अत्र धामशब्देन स्थानमुच्यते । अहोरात्रस्य त्रिंशन्मुहूर्ता धामशब्देनाभिप्रेताः । त्रिंशत्सु धामसु मुहूर्ताख्येषु स्थानेषु या वाक् विराजति शोभते स्तूयमाना सा वाक् पतङ्गाय धीयते अग्न्यर्थमुच्चार्यते । पतन् गच्छतीति पतङ्गः अग्निः । स ह्यरण्योः पतन् गार्हपत्यभावं गच्छति गार्हपत्यात्पतन्नाहवनीयतामित्यादि ।
7
त्रिं॒शद्धाम॒ वि रा॑जति॒ वाक्प॑त॒ङ्गाय॑ धीयते । प्रति॒ वस्तो॒रह॒ द्युभिः॑ ॥३.८॥
म० सर्वदेवसंबन्धिनीभिः स्तुतिभिरग्निरेव सर्वात्मत्वात्स्तूयत इत्यर्थः । न केवलं त्रिंशत्सु धामसु या वाग्विराजति सैव पतङ्गाय धीयते । किं तर्हि प्रतिवस्तोः प्रत्यहं या स्तुतिलक्षणा वाक् या च द्युभिः अहोभिः यागपारायणाद्युत्सवभूतैः स्तुतिलक्षणा वाग्विराजति सा पतङ्गायैव धीयते नान्यस्यै देवतायै । 'वस्तोः द्युः भानुः' (निघ० १।९।१) - इत्यहर्नामसु पठितम् । अहेति निपातो विनिग्रहे । सर्वकालं सर्वा स्तुतिवागग्न्यर्थेवेत्यर्थः । यद्वास्या ऋचोऽयमर्थः । धाम स्थानं तच्च त्रिंशत् त्रिंशत्संख्याकं मासगतदिनभेदेन । तद्विराजति विशेषेण दीप्यते।
8
त्रिं॒शद्धाम॒ वि रा॑जति॒ वाक्प॑त॒ङ्गाय॑ धीयते । प्रति॒ वस्तो॒रह॒ द्युभिः॑ ॥३.८॥
म० आलस्यरहितानां यजमानानामनुष्ठानेनाहवनीयाद्यग्नीनां स्थानं मासगतेषु त्रिंशत्संख्याकेषु दिनेषु विशेषेण शोभत इत्यर्थः । वाक् स्तुतिरूपा पतङ्गायाग्नये धीयते उच्चार्यते । पतङ्गः पक्षी । तत्सदृशत्वादग्निः पतङ्गः। यथा कश्चित्पक्षी एकस्मात्स्थानात्स्थानान्तरं गच्छति तद्वदग्निरपि गार्हपत्यस्थानादाहवनीयस्थानं गच्छतीत्यग्नेः पक्षिसादृश्यम् । | अहेति निपातः पूर्वोक्तनिषेधार्थः । अस्या ऋचः पूर्वार्धेऽग्निमाहात्म्यज्ञापकं वाक्यद्वयेनार्थद्वयं यदुक्तं तावदेव न भवति | किंत्वन्यदप्युच्यत इत्यर्थः । वस्तोरित्यहर्नामसु पठितम् । प्रतिवस्तोः प्रत्यहं द्युभिः द्योतनैरयमग्निः स्तूयत इत्यध्याहारः । | द्युर्द्योतनं दीप्यतेः प्रयोगः ॥ ८ ॥इत्यग्न्याधेयमन्त्राः ॥
9
त्रिं॒शद्धाम॒ वि रा॑जति॒ वाक्प॑त॒ङ्गाय॑ धीयते। प्रति॒ वस्तो॒रह॒ द्युभिः॑॥ सायणभाष्यम् – त्रिंशद्धाम धामानि स्थानानि। वचनव्यत्ययः। वस्तोर्वासरस्याहोरात्रस्यावयवभुतानि। अहशब्दोऽवधारणे। द्युभिः सूर्यस्य दीप्तिभिरेव वि राजति। व्राजन्ते। विशेषेण दीप्यन्ते। व्यत्ययेनैकवचनम्। मुहूर्तान्यत्र धामान्युच्यन्ते। पञ्चदश रात्रेः पञ्चदशाह्नः। पतङ्गाय। पतति गच्छतीति पतङ्गः सूर्यः। तस्मै श्रुतिरूपा वाक् प्रति धीयते। प्रतिमुखं स्तोतृभ्यः क्रियते। यद्वा। वस्तोरहनित्रिंशद्धामानि। घटिकाभिप्रायमेतत्। त्रिंशद्घटिकाः।
10
त्रिं॒शद्धाम॒ वि रा॑जति॒ वाक्प॑त॒ङ्गाय॑ धीयते। प्रति॒ वस्तो॒रह॒ द्युभिः॑॥
सायणभाष्यम् – अत्यन्तसंयोगे द्वितीया। एतावन्तं कालं द्युभिर्दीप्तिभिरसौ सूर्यो वि राजति। विशेषेन दीप्यते। तस्मिंश्च समये वाक् त्रयीरूपा तस्मै सूर्यरुपाय पतङ्गाय प्रति धीयते। प्रतिमुखं धार्यते। स्तूयते सूर्यः सर्वत इत्यर्थः। श्रूयते हि। ऋग्भिः पूर्वाह्णे दिवि देव ईयते यजुर्वेदे तिष्ठति मध्ये अह्न इत्यादि। तै. ब्रा. ३-१२-९-१। यदा त्विदं सूक्तं सार्पराज्ञ्या आत्मस्तुतिः तदा सूर्यात्मना स्तूयत इत्यवगन्तव्यम्॥३॥
11
अ॒न्तश्च॑रति रोच॒नास्य प्रा॒णाद॑पान॒ती। व्य॑ख्यन् महि॒षो दिव॑म्॥३.७॥
उ० एवमादित्यरूपेणाग्निं स्तुत्वा अथेदानीं वायुरूपेण स्तौति । अन्तश्चरति रोचनास्य । द्यावापृथिव्योरन्तरं चरति अग्नेर्वाय्वाख्या शक्तिः। 'अन्तरिक्षेऽयं तिर्यङ् वायुः पवते' इति श्रुतेः । रोचना । 'रुच दीप्तौ' । दीपना अस्य अग्नेः । किं कुर्वाणा चरति । प्राणादपानती । 'अन प्राणने' । सर्वप्राणिषु प्राणादनन्तरम् अपानती चरति अपानादनन्तरं प्राणती चरतीति सामर्थ्यादयमर्थो लभ्यते । एवं वाय्वादित्याभ्यां स्वशक्तिभ्यामिदं जगदनुगृह्याथ य एनामेवमुपतिष्ठति तस्य किं करोतीत्याह । व्यख्यन्महिषो दिवम् । विविधं तस्य पुरुषस्योपभोगार्थमवलोकयति पश्यति भोग्यत्वेन दिवं द्युलोकम् । महिषः । 'अग्निर्वै महिषः स हीदं जातो महान्' इति श्रुतिः ॥७॥
12
अ॒न्तश्च॑रति रोच॒नास्य प्रा॒णाद॑पान॒ती। व्य॑ख्यन् महि॒षो दिव॑म्॥३.७॥
म० एवमादित्यरूपेणाग्निं स्तुत्वा वायुरूपेण स्तौति । अस्याग्ने रोचना । 'रुच दीप्तौ' दीप्तिः काचिच्छक्तिः वाय्वाख्या। अन्तश्चरति द्यावापृथिव्योर्मध्ये शरीरमध्ये चरति । 'अन्तरिक्षेऽयं तिर्यङ्वायुः पवते' इति श्रुतिः । किं कुर्वती । प्राणादपानती सर्वशरीरेषु प्राणव्यापारादनन्तरमपानव्यापारं कुर्वती। अपानादनन्तरं प्राणतीत्यप्यर्थो लभ्यते सामर्थ्यात् प्राणापानयोर्वायुविशेषयोः प्रेरिकेत्यर्थः । सति हि जठराग्नौ जीवनहेतोरौष्ण्यस्य शरीरे सद्भावात्प्राणापानौ प्रवर्तते । तस्मादग्निः प्राणापानरूप इत्यर्थः । एवं वाय्वादित्याभ्यां स्वशक्तिभूताभ्यामिदं जगदनुगृह्य य एनमुपतिष्ठते तस्य किं करोतीत्याह । व्यख्यदिति । महिषोऽग्निः दिवं व्यख्यत्।
13
अ॒न्तश्च॑रति रोच॒नास्य प्रा॒णाद॑पान॒ती। व्य॑ख्यन् महि॒षो दिव॑म्॥३.७॥
म० द्युलोकं भोगस्थानमनुष्ठातृभ्यो विशेषेण प्रकाशितवान् प्रकाशयति च। महि माहात्म्यं यागकर्तृस्वरूपं सनोति ददाति स महिषः। 'अग्निर्वै महिषः स इदं जातो महान्' इति श्रुतेः। व्यख्यत् विपूर्वस्य ख्या प्रकथन इत्यस्य 'अस्यतिवक्तिख्यातिभ्योऽङ् (पा० ३.१.५२ ) इति च्लेरङ् । आलोपः । 'छन्दसि लुङ्लङ्लिटः' (पा० ३.४.६) इति सर्वकालेषु लङ् । अपान इवाचरतीत्यपानती । क्विबन्तादपानशब्दाच्छतृप्रत्ययः । 'उगितश्च' (पा० ४ .१.६) इति ङीप् ॥ ७ ॥
14
अ॒न्तश्च॑रति रोच॒नास्य प्रा॒णाद॑पान॒ती । व्य॑ख्यन्महि॒षो दिव॑म् ॥
अ॒न्तरिति॑ । च॒र॒ति॒ । रो॒च॒ना । अ॒स्य । प्रा॒णात् । अ॒प॒ऽअ॒न॒ती । वि । अ॒ख्य॒त् । म॒हि॒षः । दिव॑म् ॥
सायणभाष्यम् – अस्य सूर्यस्य रोचना रोचमाना दीप्तिरन्तः शरीरमध्ये मुख्यप्राणात्मना चरति। वर्तते। किं कुर्वती। प्राणादपानती। मुख्यप्राणस्य प्राणाद्याः पञ्चवृत्तयः। तत्र प्राणनं नाडीभिरुर्ध्वं वायो: निर्गमनम्। तथाविधात्प्राणात्प्राणनादनन्तरमपानती। अपाननं नाडीभिरवाङ्मुखं वायोर्नयनम्। तत्कुर्वती। अपपूर्वादनितेर्लटः शतृ। अदादित्वाच्छपो लुक्। उगितश्चेति ङीप्। शतुरनुम इति नद्या उदात्तत्वम्।
15
अ॒न्तश्च॑रति रोच॒नास्य प्रा॒णाद॑पान॒ती । व्य॑ख्यन्महि॒षो दिव॑म् ॥
सायणभाष्यम् – यद्वा। अन्तर्द्यावापृथिव्योर्मध्येऽस्य सूर्यस्य रोचना रोचमाना दीप्तिश्चरति। गच्छति। रुच दीप्तौ। अनुदात्तेतश्च हलादेरिति यच्। किं कुर्वती। प्राणात्प्राणनादुदयानन्तरमपानती सायं समयेऽस्तं गच्छन्ती। ईदृश्या दीप्त्या युक्तः। अत एव महिषो महान्सूर्यो दिवमन्तरिक्षमुदयास्तमययोर्मध्ये व्यख्यत्। विचष्टे। प्रकाशयति। महेरविमह्योष्टषच्। उ. १-४६। इत्यौणादिकष्टिषच् प्रत्ययः। चक्षिङः ख्याञ्। छान्दसे लुङ्यस्यतिवक्तीत्यादिना च्लेरङादेशः॥२॥
16
आयं गौः पृश्नि॑रक्रमी॒दस॑दन्मा॒तरं॑ पु॒रः। पि॒तरं॑ च प्र॒यन्त्स्व॑:॥
आ । अ॒यम् । गौः । पृश्निः॑ । अ॒क्र॒मी॒त् । अस॑दत् । मा॒तर॑म् । पु॒रः । पि॒तर॑म् । च॒ । प्र॒ऽयन् । स्व१रिति॑ स्वः॑ ॥
सायणभाष्यम् – आयं गौरिति तृचमष्टात्रिंशं सूक्तं गायत्रम्। सार्पराज्ञी नामर्षिका। सैव देवता सूर्यो वेति। तथा चानुक्रान्तम्। आयं गौः सार्पराज्ञ्यात्मदैवतं सौर्यं वेति। अविवाक्येऽहनि मानसग्रह एतत्सूक्तं शम्सनीयम्। सूत्रितं च। आयं गौः पृश्निरक्रमीदित्युपांशु तिस्रः पराचीः शस्त्वा। आ. ८-१३। इति॥
17
आयं गौः पृश्नि॑रक्रमी॒दस॑दन्मा॒तरं॑ पु॒रः ।�पि॒तरं॑ च प्र॒यन्त्स्व॑: ॥
गौर्गमनशीलः पृश्निः प्राष्टवर्णः प्राप्ततेजसा अयं सूर्य आक्रमीत्। अक्रान्तवान्। उदयाचलं प्राप्तवानित्यर्थः। आक्रम्य च पुरः पुरस्तात्पूर्वस्यां दिशि मातरं सर्वभूतजातस्य निर्मात्रीं पृथिवीमसदत्। आसीदति। प्राप्नोति। सदेश्छान्दसो लुङ्। लृदित्त्वाच्च्लेरङादेशः। ततः पितरं पालकं द्युलोकम्। चशब्दादन्तरिक्षं च प्रयन् प्रकर्षेन शीघ्रं गच्छन् स्वः स्वरणः शोभनगमनो भवति। यद्वा। पितरं स्वर्गलोकं प्रयन्वर्तते॥१॥
18
स॒मिधा॒ग्निं दु॑वस्यत घृ॒तैर्बो॑धय॒ताति॑थिम्। आस्मि॑न् ह॒व्या जु॑होतन॥३.१॥
सुस॑मिद्धाय शो॒चिषे॑ घृ॒तं ती॒व्रं जु॑होतन। अ॒ग्नये॑ जा॒तवे॑दसे॥३.२॥
तं त्वा॑ स॒मिद्भि॑रङ्गिरो घृ॒तेन॑ वर्द्धयामसि। बृ॒हच्छो॑चा यविष्ठ्य॥३.३॥
उप॑ त्वाग्ने ह॒विष्म॑तीर्घृ॒ताची॑र्यन्तु हर्यत। जु॒षस्व॑ स॒मिधो॒ मम॑॥३.४॥
भूर्भुवः॒ स्वर्द्यौरि॑व भू॒म्ना पृ॑थि॒वीव॑ वरि॒म्णा। तस्या॑स्ते पृथिवि देवयजनि पृ॒ष्ठेऽग्निम॑न्ना॒दम॒न्नाद्या॒याद॑धे॥३.५॥
19
आयं गौः पृश्नि॑रक्रमी॒दस॑दन्मा॒तरं॑ पु॒रः । पि॒तरं॑ च प्र॒यन्त्स्वः॑॥३.६॥
अ॒न्तश्च॑रति रोच॒नास्य प्रा॒णाद॑पान॒ती। व्य॑ख्यन् महि॒षो दिव॑म्॥३.७॥
त्रिं॒शद्धाम॒ वि रा॑जति॒ वाक् प॑त॒ङ्गाय॑ धीयते ।�प्रति॒ वस्तो॒रह॒ द्युभिः॑ ॥३.८॥
अ॒ग्निर्ज्योति॒र्ज्योति॑र॒ग्निः स्वाहा॒ सूर्यो॒ ज्योति॒र्ज्योतिः॒ सूर्यः॒ स्वाहा॑। अ॒ग्निर्वर्चो॒ ज्योति॒र्वर्चः॒ स्वाहा॒ सूर्यो॒ वर्चो॒ ज्योति॒र्वर्चः॒ स्वाहा॑। ज्योतिः॒ सूर्यः॒ सूर्यो॒ ज्योतिः॒ स्वाहा॑॥३.९॥����
20