1 of 7

॥श्री:॥�केन्बरासंस्कृतवर्गः�२५.०१.२०२३�महाकविभासप्रणीतं स्वप्नवासवदत्तम्॥�॥ षष्ठोऽङ्कः ॥

1

2 of 7

अथ षष्ठोऽङ्कः (ततः प्रविशति काञ्चुकीयः)

काञ्चुकीयः - क इह भो ! काञ्चनतोरणद्वारमशून्यं कुरुते ।

(प्रविश्य)

प्रतीहारी - आर्य! अहं विजया । किं क्रियताम् ।

काञ्चुकीयः - भवति! निवेद्यतां निवेद्यतां वत्सराज्यलाभप्रवृद्धोदयायोदयनाय "एष खलु महासेनस्य सकाशाद् रैभ्यसगोत्रः काञ्चुकीयः प्राप्तः, तत्रभवत्या चाङ्गारवत्या प्रेषितार्या वसुन्धरा नाम वासवदत्ताधात्री च प्रतीहारमुपस्थिताविति।

प्रतीहारी - आर्य! अदेशकालः प्रतीहारस्य ।

काञ्चुकीयः - कथमदेशकालो नाम।

प्रतीहारी - श्रुणोत्वार्यः । अद्य भर्तुः सूर्यामुखप्रासादगतेन केनापि वीणा वादिता । तां च श्रुत्वा भत्रा भणितं "घोषवत्याः शब्द इव श्रूयत" इति।

काञ्चुकीयः - ततस्ततः ।

3 of 7

प्रतीहारी - ततस्तत्र गत्वा पृष्टः "कुतोऽस्या वीणाया आगम" इति। तेन भणितं "अस्माभिर्नर्मदातीरे कूर्चगुल्मलग्ना दृष्टा। यदि प्रयोजनमनया, उपनीयतां भर्त्रा" इति। तां चोपनीतामङ्के कृत्वा मोहं गतो भर्ता। ततो मोहप्रत्यागतेन बाष्पपर्याकुलेन मुखेन भर्त्रा भणितं "दृष्टासि घोषवति! सा खलु न दृश्यते" इति । आर्य! ईदृशोऽनवसरः । कथं निवेदयामि।

काञ्चुकीयः - भवति! निवेद्यताम् । इदमपि तदाश्रयमेव ।

प्रतीहारी - आर्य! इयं निवेदयामि । एष भर्ता सूर्यामुखप्रासादादवतरति । तदिहैव निवेदयिष्यामि।

काञ्चुकीयः - भवति ! तथा । (उभौ निष्कान्तौ) इति मिश्रविष्कम्भकः।

(ततः प्रविशति राजा विदूषकश्च)

4 of 7

राजा - श्रुतिसुखनिनदे! कथं नु देव्याः स्तनयुगले जघनस्थले च सुप्ता ।

विहगगणरजोविकीर्णदण्डा प्रतिभयमध्युषितास्यरण्यवासम् ॥१॥

अपि च, अस्निग्धासि घोषवति! या तपस्विन्या न स्मरसि,

श्रोणीसमुद्वहनपार्श्र्वनिपीडितानि

खेदस्तनान्तरसुखान्युपगूहितानि।

उद्दिश्य मां च विरहे परिदेवितानि

वाद्यान्तरेषु कथितानि च सस्मितानि ॥२॥

विदूषकः - अलमिदानीं भवानतिमात्रं संतप्य ।

राजा - वयस्य! मा मैवं,

चिरप्रसुप्तः कामो मे वीणया प्रतिबोधितः।

तां तु देवीं न पश्यामि यस्या घोषवती प्रिया॥३॥

5 of 7

वसन्तक! शिल्पिजनसकाशान्नवयोगां घोषवतीं कृत्वा शीघ्रमानय ।

विदूषकः –यद् भवानाज्ञापयति (वीणां गृहीत्वा निष्कान्तः)

(प्रविश्य)

प्रतीहारी - जयतु भर्ता। एष खलु महासेनस्य सकाशाद् रैभ्यसगोत्रः काञ्चुकीयो देव्याङ्गारवत्या प्रेषितार्या वसुन्धरा नाम वासवदत्ताधात्री च प्रतिहारमुपस्थितौ!

राजा - तेन हि पद्मावती तावदाहूयताम्।

प्रतीहारी - यद् भर्ताज्ञापयति। (निष्क्रान्ता)

राजा - किं नु खलु शीघ्रमिदानीमयं वृत्तान्तो महासेनेन विदितः।

(ततः प्रविशति पद्मावती प्रतीहारी च)

प्रतीहारी - एत्वेतु भर्तृदारिका।

पद्मावती - जयत्वार्यपुत्रः।

6 of 7

राजा - पद्मावति! कि श्रुतं महासेनस्य सकाशाद् रैभ्यसगोत्रः काञ्चुकीयः प्राप्तः तत्रभवत्या चाङ्गारवत्या प्रेषितार्या वसुन्धरा नाम वासवदत्ताधात्री च प्रतिहारमुपस्थिताविति।

पद्मावती - आर्यपुत्र! प्रियं मे ज्ञातिकुलस्य कुशलवृत्तान्तं श्रोतुम्।

राजा - अनुरूपमेतद् भवत्याभिहितं "वासवदत्तास्वजनो मे स्वजन" इति । पद्मावति! आस्यताम्। किमिदानीं नास्यते।

पद्मावती - आर्यपुत्र! किं मया सहोपविष्ट एतं जनं प्रेक्षिष्यते।

राजा - कोऽत्र दोषः।

पद्मावती - आर्यपुत्रस्यापरः परिग्रह इत्युदासीनमिव भवति।

राजा - कलत्रदर्शनार्हं जनं कलत्रदर्शनात् परिहरतीति बहुदोषमुत्पादयति। तस्मादास्यताम्। पद्मावती - यदार्यपुत्र आज्ञापयति। (उपविश्य) आर्यपुत्र! तातो वाम्बा वा कि नु खलु भणिष्यतीत्याविग्नेव संवृत्ता।

7 of 7

राजा - पद्मावति! एवमेतत् ।

किं वक्ष्यतीति हृदयं परिशङ्कितं मे

कन्या मयाप्यपहृता न च रक्षिता सा।

भाग्यैश्चलैर्महदवाप्य गुणोपघातः

पुत्रः पितुर्जनितरोष इवास्मि भीतः॥४॥

पद्मावती - ननु किं शक्यं रक्षितुं प्राप्तकाले।

प्रतीहारी - एष काञ्चुकीयो धात्री च प्रतिहारमुपस्थितौ।

प्रतीहारी - एष काञ्चुकीयो धात्री च प्रतिहारमुपस्थितौ।

राजा - शीघ्रं प्रवेश्यताम्।

प्रतीहारी - यद् भर्ताज्ञापयति।

(निष्क्रान्ता)