श्रीः �केन्बरासंस्कृतवर्गः�०९.०२.२०२२
1
॥श्रीरामोदन्तम् – युद्धकाण्डः २५-२६॥
दुरात्मना कृता माया राक्षसेन्द्रसुतेन वै।
निकुम्भिलायां होमं तु कर्तुं तेनाधुना किल॥६.२५॥
होमं कर्तुं माया कृता। हु दानादानयोः आदाने प्रीणने च।
लक्ष्मणं प्रेषयाद्यैव मया सह समन्त्रिणा।
कृते होमे तत्र रिपुः अजेयो भवति ध्रुवम्॥६.२६॥
जि अभिभवे, भू सत्तायाम्, प्रेषृँ गतौ + णिच् + सिप् = प्रेषय (लोट्लकारः), ध्रु गतिस्थैर्ययोः। (ध्रु गतिस्थैर्य्ये+बाहुलकात् कः) सन्ततम् शाश्वतम् स्थिरम् निश्चितम्।
॥श्रीरामोदन्तम् – युद्धकाण्डः २७-२८॥
उवाच रामः सौमित्रिं राक्षसेन्द्रसुतं जहि।
गच्छेति शीघ्रं सुहृदा रावणस्यानुजेन सह॥६.२७॥
हनँ हिंसागत्योः त्वं जहि (लोट्लकार)। हन्तेर्जः६.४.३६
लक्ष्मणस्तु तदा रामं आमन्त्र्य सविभीषणः।
निकुम्भिलां प्राप तूर्णम् इन्द्रजिद्यत्र वर्तते॥६.२८॥
इन्द्रजित् यत्र।
मन्त्र् गुप्तपरिभाषणे। आप् व्याप्तौ। वृत् वर्तने।
॥श्रीरामोदन्तम् – युद्धकाण्डः २९-३०॥
अदर्शयद्भ्रातृपुत्रं धर्मात्मा स विभीषणः।
लक्ष्मणो भेदयामास राक्षसाञ्छरसञ्चयैः॥६.२९॥
भिदिँर् विदारणे। चिञ् चयने + घञ् + भिस् = चयैः।
कृत्वा चिरं तत्र युद्धम् ऐन्द्रेणास्त्रेण वै रुषा।
शिरश्चिच्छेद सौमित्रिः दशाननसुतस्य हि॥६.३०॥
प्रतिघः, रुट्, क्रुध्, क्रोधः, अमर्षः, रोषः, कोपः। रुट् इत्यस्य रुषा तृतीयाविभक्तिः एकवचनम्। चिच्छेद = छिदिँर् द्वैधीकरणे लिट्लकारः प्रथमपुरुषः एकवचनम्।
॥श्रीरामोदन्तम् – युद्धकाण्डः ३१॥
स सुतस्य वधं श्रुत्वा रावणः शोककर्शितः।
नष्टधैर्यो विह्वलाङ्गो विललापाकुलेन्द्रियः॥६.३१॥
कृशँ तनूकरणे+ क्तः = कर्शितः।
विह्वल (वि + ह्वलँ चलने + अच् ) भयादिनाभिभूतः।
विललापः (वि + लपँ व्यक्तायां वाचि लिट्॰ प्र॰ एक॰)
विलापः अनुशोचनोक्तिः परिदेवनम् क्रन्दनादौ दुःखजं वचः।
कुलँ संस्त्याने बन्धुषु च (स्त्यै शब्दसङ्घातयोः)। यस्य इन्द्रियाणि न समाहितानि सः आकुलेन्द्रियः।
॥श्रीरामोदन्तम् – युद्धकाण्डः ३२॥
निरर्थकं तु मज्जन्म जल्पितं च निरर्थकम्।
ये नाहमद्य पश्यामि हतमिन्द्रजितं रणे॥६.३२॥
निरर्थक, त्रि, (निर्गतोऽर्थो यस्मात् कप् ) निष्फलम् तत्पर्य्यायः मोघम् विफलम्।
उरःप्रभृतिभ्यः कप् (५.४.१५१) – उरःप्रभृत्यन्तात् बहुव्रीहेः कप्प्रत्ययो भवति। व्यूढमुरः अस्य व्यूढोरस्कः। प्रियसर्पिष्कः। अवमुक्तोपानत्कः। पुमाननड्वान् पयः नौः लक्ष्मीः इति विभक्त्यन्ताः पठ्यन्ते, न प्रातिपदिकानि। तत्र इदं प्रयोजनम् एकवचनान्तानाम् एव ग्रहणम् इह विज्ञायेत, द्विवचनबहुवचनान्तानां मा भूतिति। तत्र शेषद् विभाषा ( ५.४.१५४ ) इति विकल्प एव भवतीति। द्विपुमान्, द्विपुंस्कः। बहुपुमान्, बहुपुंस्कः। उरस्। सर्पिस्। उपानः। पुमान्। अनड्वान्। नौः। पयः। लक्ष्मीः। दधि। मधु। शालि। अर्थान् नञः अनर्थकः।
॥श्रीरामोदन्तम् – युद्धकाण्डः ३३॥
क्व गतोऽसि हतः शूर ! मानुषेण पदातिना।
राज्याद् भ्रष्टेन दीनेन त्यक्त्वा मां पुत्र ! जीवितम्॥६.३३॥
भ्रंश् अवस्रंसने + क्तः = भ्रष्टः। त्यज् हानौ + क्त्वा = त्यक्त्वा।
पदाभ्याम् अतति यः सः पदातिन् अतँ सातत्यगमने।
ओँदीङ् क्षये + क्तः = दीनः (ओदितश्च ८.२.४५)।
मानुषः पुं (मनोर्जातः मनु + मनोर्जाता-वञ् यतौ षुक् च) मनुष्यः।
अकृत्वा मानुषं कर्म्म यो दैवमनुवर्त्तते।
वृथा श्राम्यति संप्राप्य पतिं क्लीवमिवाङ्गना॥महाभारते १३.६.२०॥
॥श्रीरामोदन्तम् – युद्धकाण्डः ३४॥
इन्द्रं जित्वा तु तं बद्ध्वा लङ्कामानीय वै बलात्।
अकरोस्त्वं प्रतापेन कारागृहनिवासिनम्॥६.३४॥
बल् प्राणने।
प्रतापः, पुं, (प्र + तप् + घञ् ) कोषो धनं दण्डो दमः तद्धेतुत्वात् सैन्यमपि दण्डः ताभ्यां यत्तेजो जायते सः, प्रभावः तापः तेजः अर्कवृक्षः।
तपँ सन्तापे भ्वादिः, परस्मैपदी, तपँ ऐश्वर्ये दिवादिः, आत्मनेपदी, तप् तपँ दाहे चुरादिः, उभयपदी।