श्रीः योगिनां केन्बरासंस्कृतवर्गः�०२.१२.२०२१
1
अथ मार्जनमन्त्रः
ॐ भूः पुनातु शिरसि। ॐ भुवः पुनातु नेत्रयोः। ॐ स्वः पुनातु कण्ठे। ॐ महः पुनातु हृदये। ॐ जनः पुनातु नाभ्याम्। ॐ तपः पुनातु पादयोः। ॐ सत्यं पुनातु पुनः शिरसि। ॐ खं ब्रह्म पुनातु सर्वत्र।
अथ प्राणायाममन्त्राः
ॐ भूः। ॐ भुवः। ॐ स्वः। ॐ महः। ॐ जनः। ॐ तपः। ॐ सत्यम्।
पूञ् पवने – पुनातु लोट्लकारः प्रथमपुरुषः एकवचनम्।
परितो दुरितानि यः पुनीते शिव तस्मै पवनात्मने नमस्ते।
भूर्भुवः सुवः महः - तैत्तिरीयोपनिषत्
2
भूः | अयं लोकः | अग्निः | ऋचः | प्राण: |
भूवः | अन्तरिक्षम् | वायुः | सामानि | अपानः |
सुवः | असौ लोकः | आदित्यः | यजूँषि | व्यानः |
महः | आदित्यः | चन्द्रमाः | ब्रह्म | अन्नम् |
ॐ भूः पुनातु शिरसि। ॐ भुवः पुनातु नेत्रयोः। ॐ स्वः पुनातु कण्ठे। ॐ महः पुनातु हृदये। ॐ जनः पुनातु नाभ्याम्। ॐ तपः पुनातु पादयोः। ॐ सत्यं पुनातु पुनः शिरसि। ॐ खं ब्रह्म पुनातु सर्वत्र।
अथ अघमर्षणमन्त्राः
ऋतं च सत्यं चाभीद्धात्तपसोऽध्यजायत।
ततो रात्र्यजायत ततः समुद्रो अर्णवः॥१॥
तपसः (५.१) अभीद्धात् (५.१) अधि सत्यं (१.१) च ऋतं च अजायत। ततः रात्री अजायत। ततः समुद्रः अर्णवः (अजायत)।
इद्धं, क्ली, (इन्ध् दीप्तौ + क्तः) आतपः दीप्तिः।
जनीँ प्रादुर्भावे अजायत लङ्॰ प्रथम॰ एक॰ (ज्ञाजनोर्जा (७.३.७९))।
सागरः उदधिः पारावारः अपांपतिः रत्नाकरः सरस्वान् उदन्वान् अकूपारः यादःपतिः अर्णवः सिन्धुः सरित्पतिः अब्धिः जलनिधिः समुद्रः।
अभि – अभितः। अधि – प्रधानः मुख्यः अधिदेवता अधिराजः अधिपतिः।
3
अथ अघमर्षणमन्त्राः
मण्डलम् १०, सूक्तम् १९०, ऋक् १
संहिता
ऋ॒तं च॑ स॒त्यं चा॒भी॑द्धा॒त्तप॒सोऽध्य॑जायत ।
ततो॒ रात्र्य॑जायत॒ ततः॑ समु॒द्रो अ॑र्ण॒वः ॥
पदपाठः
ऋ॒तम् । च॒ । स॒त्यम् । च॒ । अ॒भी॑द्धात् । तप॑सः । अधि॑ । अ॒जा॒य॒त॒ ।
ततः॑ । रात्री॑ । अ॒जा॒य॒त॒ । ततः॑ । स॒मु॒द्रः । अ॒र्ण॒वः ॥
4
गायत्रीमन्त्रः आचमनमन्त्रः
संहिता
तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो नः॑ प्रचो॒दया॑त् ॥
मण्डलम् १०, सूक्तम् ९, ऋक् ४ – अथ आचमनमन्त्रः
संहिता
शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑ ।�शं योर॒भि स्र॑वन्तु नः ॥
5
गृहकार्यम् – २५.११.२०२१
इमं श्लोकं स्मृतिं करोतु –
ऋतं च सत्यं चाभीद्धात्तपसोऽध्यजायत।
ततो रात्र्यजायत ततः समुद्रो अर्णवः॥
6
सारांशः – Summary so far
सुप्तिङन्तं पदम् (१.४.१४)॥ रामः रामौ रामाः पठति खेलति। छन्दः।
दश (Ten) लकाराः - लँट्, लिँट्, लुँट्, लृँट्, लेँट्, लोँट्, लँङ्, लिँङ्, लुँङ्, लृँङ्
Present – वर्तमाने लँट् (३.२.१२३) Future – लृँट् शेषे च (३.३.१३)
स्वतन्त्रः कर्त्ता (१.४.५४) तिङ्समानाधिकरणे प्रथमा, अभिहिते प्रथमा।
कर्तुरीप्सिततमं कर्म (१.४.४९) कर्मणि द्वितीया (२.३.२) (अनभिहिते)।
साधकतमं करणम् (१.४.४२) कर्तृकरणयोस्तृतीया (२.३.१८)। कर्मणा यमभिप्रैतिः स सम्प्रदानम् (१.४.३२) चतुर्थी सम्प्रदाने (२.३.१३) ध्रुवमपायेऽपादानम् (१.४.२४) अपादाने पञ्चमी (२.३.२८) वृक्षात् पतति। षष्ठी शेषे (२.३.५०) रामस्य गृहम्। आधारोऽधिकरणम् (१.४.४५) सप्तम्यधिकरणे च (२.३.३६) कटे आस्ते। अकः सवर्णे दीर्घः (६.१.१०१) इको यण् अचि (६.१.७७) एचोऽयवायावः (६.१.७८)
सन्धिप्रकरणम्
देव इन्द्र = देवेन्द्र
नर इन्द्र = नरेन्द्र
पर उपकार = परोपकार
महा उत्सव = महोत्सव
गण ईश = गणेश
नर उत्तम = नरोत्तम
प्रश्न उत्तर = प्रश्नोत्तर
8
अद्य एव = अद्यैव
सदा एव = सदैव
दिव्य ऐश्वर्य = दिव्यैश्वर्य
महा औषध = महौषध �तव ओष्ठ = तवौष्ठ
मम एव = ममैव
दिव्य ऐश्वर्य = दिव्यैश्वर्य
विसर्गसन्धिः
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतम् च यत्। असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह॥गीता १७.२८॥
9
अः + अ = ओऽ
रामः अगच्छत् = रामोऽगच्छत्
अः + आ = अ + आ
रामः आगच्छति = राम आगच्छति
अः + इच् = अ + इच्
रामः उपविशति = राम उपविशति
अः + हश् = ओ + हश्
रामः वदति = रामो वदति
आः + अश् = आ + अश्
देवाः आगच्छति = देवा आगच्छति
विसर्गसन्धिः
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतम् च यत्। असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह॥गीता १७.२८॥
10
इच् + : + अच् = इच् + र् + अच्
इच् + : + झश् = इच् + र् + झश्
अच् + : + च् = अच् + श् + च्
अच् + : + त् = अच् + स् + त्
पाण्डवाश्चैव = पाण्डवाः च एव
दुर्योधनस्तदा = दुर्योधनः तदा
विराटश्च द्रुपदश्च = विराटः च द्रुपदः च
शब्दस्तुमुलोऽभवत् = शब्दः तुमुलः अभवत्
श्वेतैर्हयैर्युक्ते = श्वेतैः हयैः युक्ते
सेनयोरुभयोर्मध्ये = सेनयोः उभयोः मध्ये
विसर्गसन्धिः
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतम् च यत्। असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह॥गीता १७.२८॥
11
इच् + : + अश् = इच् + र् + अश्
अच् + : + ट् = अच् + ष् + ट्
अच् + : + श्/ष्/स् = अच् + श्/ष्/स् + श्/ष्/स्
सः/एषः + हल् = स/एष + हल्
श्वेतैर्हयैर्युक्ते = श्वेतैः हयैः युक्ते
गोपालः टङ्कयति = गोपालष्टङ्कयति
अलसाः स्वपन्ति = अलसास्स्वपन्ति
अलसाः शेरते = अलसाश्शेरते
पुरुषाः षट् = पुरुषाष्षट्
सः पठति = स पठति, एषः कः = एष क।
मति – इकारान्त स्त्रीलिङ्गः (Mind)
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतम् च यत्। असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह॥गीता १७.२८॥
| एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमा | मतिः | मती | मतयः |
द्वितीया | मतिम् | मती | मतीः |
तृतीया | मत्या | मतिभ्याम् | मतिभिः |
चतुर्थी | मतये, मत्यै | मतिभ्याम् | मतिभ्यः |
पञ्चमी | मतेः, मत्याः | मतिभ्याम् | मतिभ्यः |
षष्ठी | मतेः, मत्याः | मत्योः | मतीनाम् |
सप्तमी | मतौ, मत्याम् | मत्योः | मतिषु |
सम्बोधनम् | हे मते | हे मती | हे मतयः |
गृहकार्यम् – २.११.२०२१
इमं श्लोकं स्मृतिं करोतु –
मण्डलम् १०, सूक्तम् १९०, ऋक् २
संहिता
स॒मु॒द्राद॑र्ण॒वादधि॑ संवत्स॒रो अ॑जायत ।
अ॒हो॒रा॒त्राणि॑ वि॒दध॒द्विश्व॑स्य मिष॒तो व॒शी ॥
13