1 of 8

॥श्री:॥�केन्बरासंस्कृतवर्गः�२.११.२०२२�महाकविभासप्रणीतं स्वप्नवासवदत्तम्॥�॥चतुर्थोऽङ्कः॥

1

2 of 8

कामेनोज्जयिनीं गते मयि तदा कामप्यवस्थां गते

दृष्ट्वा स्वैरमवन्तिराजतनयां पञ्चेषवः पातिताः ।

तैरद्यापि सशल्यमेव हृदयं भूयश्च विद्धा वयं

पञ्चेषुर्मदनो यदा कथमयं षष्ठः शरः पातितः॥१॥

विदूषकः - कुत्र नु खलु गता तत्रभवती पद्मावती। लतामण्डपं गता भवेद्। उताहो असनकुसुमसंचितं व्याघ्रचर्मावगुण्ठितमिव पर्वततिलकं नाम शिलापट्टकं गता भवेत्। अथवा अधिककटुकगन्धसप्तच्छदवनं प्रविष्टा भवेद्, अथवाऽऽलिखितमृगपक्षिसंकुलं दारुपर्वतकं गता भवेत्। (ऊध्र्वमवलोक्य) ही ही शरत्कालनिर्मलेऽन्तरिक्षे प्रसादितबलदेवबाहुदर्शनीयां सारसपङ्क्तिं यावत् समाहितं गच्छन्तीं प्रेक्षतां तावद् भवान्।

3 of 8

राजा – वयस्य ! पश्याम्येनाम्।

ऋज्वायतां च विरलां च नतोन्नतां च

सप्तर्षिवंशकुटिलां च निवर्तनेषु।

निर्मुच्यमानभुजगोदरनिर्मलस्य

सीमामिवाम्बरतलस्य विभज्यमानाम्॥२॥

चेटी - प्रेक्षतां प्रेक्षतां भर्तृदारिका एतां कोकनदमालापाण्डुररमणीयां सारसपङ्क्तिं यावत् समाहितं गच्छन्तीम्। अहो भर्ता।

पद्मावती - हम्, आर्यपुत्रः । आर्ये! तव कारणादार्यपुत्रदर्शनं परिहरामि। तदिमं तावन्माधवीलतामण्डपं प्रविशामः।

वासवदत्ता - एवं भवतु। (तथा कुर्वन्ति)

4 of 8

विदूषकः - तत्रभवती पद्मावतीहागत्य निर्गता भवेत्।

राजा - कथं भवान् जानाति।

विदूषकः - इमानपचितकुसुमान् शेफालिकागुच्छकान् प्रेक्षतां तावद् भवान्।

राजा - अहो विचित्रता कुसुमस्य, वसन्तक।

वासवदत्ता - (आत्मगतम्) वसन्तकसंकीर्तनेनाहं पुनर्जानामि उज्जयिन्यां वर्त इति।

राजा - वसन्तक! अस्मिन्नेवासीनौ शिलातले पद्मावतीं प्रतीक्षिष्यावहे।

विदूषकः - भोस्तथा। (उपविश्योत्थाय) ही ही शरत्कालतीक्ष्णो दुःसह आतपः। तदिमं तावन्माधवीमण्डपं प्रविशावः।

राजा - बाढम्। गच्छाग्रतः। विदूषकः एवं भवतु। (उभौ परिक्रामतः)

पद्मावती - सर्वमाकुलं कर्तुकाम आर्यवसन्तकः। किमिदानीं कुर्मः।

5 of 8

चेटी - भर्तृदारिके! एतां मधुकरपरिनिलीनामवलम्बलतामवधूय भर्तारं वारयिष्यामि।

पद्मावती - एवं कुरु। (चेटी तथा करोति)

विदूषकः - अविधा अविधा, तिष्ठतु तावद् भवान्।

राजा - किमर्थम्।

विदूषकः - दास्याः पुत्रैर्मधुकरैः पीडितोऽस्मि।

राजा - मा मा भवानेवम्। मधुकरसंत्रासः परिहार्यः। पश्य,

मधुमदकला मधुकरा मदनार्ताभिः प्रियाभिरुपगूढाः।

पादन्यासविषण्णा वयमिव कान्तावियुक्ताः स्युः॥३॥ तस्मादिहैवासिष्यावहे। विदूषकः - एवं भवतु। (उभावुपविशतः)

6 of 8

चेटी - भर्तृदारिके! रुद्धाः खलु स्मो वयम्।

पद्मावती - दिष्ट्योपविष्ट आर्यपुत्रः।

वासवदत्ता - (आत्मगतम्) दिष्ट्या प्रकृतिस्थशरीर आर्यपुत्रः।

चेटी - भर्तृदारिके! साश्रुपाता खल्वार्याया दृष्टिः।

वासवदत्ता - एषा खलु मधुकराणामविनयात् काशकुसुमरेणुना पतितेन सोदका मे दृष्टिः।

पद्मावती - युज्यते।

विदूषकः - भोः! भोः! शून्यं खल्विदं प्रमदवनम्। प्रष्टव्यं किंचिदस्ति। पृच्छामि भवन्तम्।

राजा - छन्दतः।

विदूषकः - का भवतः प्रिया। तदानीं तत्रभवती वासवदत्ता इदानीं पद्मावती वा।

7 of 8

राजा - किमिदानीं भवान् महति बहुमानसङ्कटे मां न्यस्यति।

पद्मावती - हला! ईद्दशे सङ्कटे निक्षिप्त आर्यपुत्रः।

वासवदत्ता - (आत्मगतम्) अहं च मन्दभागा।

विदूषकः - स्वैरं स्वैरं भणतु भवान्। एकोपरता, अपरासंनिहिता।

राजा - वयस्य! न खलु न खलु ब्रूयाम्। भवांस्तु मुखरः।

पद्मावती - एतावता भणितमार्यपुत्रेण।

विदूषकः - भोः! सत्येन शपामि, कस्मा अपि नाख्यास्यामि! एषा संदष्टा मे जिह्वा। राजा - नोत्सहे, सखे! वक्तुम्।

पद्मावती - अहो अस्य पुरोभागिता। एतावता हृदयं न जानाति।

8 of 8

विदूषकः - किं न भणति मह्यम्। अनाख्यायास्माच्छिलापट्टकान्न शक्यमेकपदमपि गन्तुम्। एष रुद्धोऽत्रभवान्।

राजा - किं बलात्कारेण।

विदूषकः - आम् बलात्कारेण।

राजा - तेन हि पश्यामस्तावत्।

विदूषकः - प्रसीदतु प्रसीदतु भवान्। वयस्यभावेन शापितोऽसि, यदि सत्यं न भणसि।

राजा - का गतिः। श्रूयताम्।

पद्मावती बहुमता मम यद्यपि रूपशीलमाधुर्यैः।

वासवदत्ताबद्धं न तु तावन्मे मनो हरति॥४॥