1 of 20

श्रीः �केन्बरासंस्कृतवर्गः�१८.०८.२०२१

1

अजरामरवत्प्राज्ञो विद्यामर्थं च चिन्तयेत्।�गृहीत इव केशेषु मृत्युना धर्ममाचरेत्॥

ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते।

श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः॥गीता १२.२०॥

अश्रद्धया हुतं दत्तं तपस्तप्तं कृतम् च यत्।

असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह॥गीता १७.२८॥

2 of 20

॥श्रीरामोदन्तम् – किष्किन्धाकाण्डः १८

समयातिक्रमात् तत्र चक्रुः प्रायोपवेशनम्।

तेऽत्र सम्पातिना प्रोक्तां सीतावार्तां च शुश्रुवुः॥४.१८॥

प्रायोपवेशनम् - प्रायेण मृत्युनिमित्तकानशनेन उपवेशः स्थितिः। अशनम् भोजनम्। प्रायेण प्रायः।

अतिक्रान्तः क्रमः नियमः, अति क्रमुँ पादविक्षेपे + भावे घञ्

श्रु श्रवणे + झि = शुश्रुवुः लिट् प्र॰ बहु॰

एङः पदान्तादति (६.१.१०९) – एकः पूर्वपरयोः पूर्वः।

3 of 20

॥श्रीरामोदन्तम् – किष्किन्धाकाण्डः १९

ततः प्रापुरुदन्वन्तम् अङ्गदाद्याः प्लवङ्गमाः।

तं विलङ्घयितुं तेषां न कश्चिदभवत् क्षमः॥४.१९॥

प्रा आपॢँ व्याप्तौ + झि = प्रापुः लिट् प्र॰ बहुवचनम्।

उदन्वत् - सागरः, उदधिः, पारावारः, अपाम्पतिः, रत्नाकरः, सरस्वान्, उदन्वान्, अकूपारः, यादःपतिः, अर्णवः, सिन्धुः, सरित्पतिः, अब्धिः, जलनिधिः, समुद्रः।

लघिँ गतौ भोजननिवृत्तौ च भ्वादिः। लघिँ भाषायाम् चुरादिः

क्षमुँ सहने + अच् + सुँ = क्षमः युक्तः।

4 of 20

॥श्रीरामोदन्तम् – किष्किन्धाकाण्डः २०

स्वप्रभावप्रशंसाभिः तदा जाम्बवदुक्तिभिः।

संवर्धितो महेन्द्राद्रिम् आरुरोहानिलात्मजः॥४.२०॥

आरुरोह रुहँ बीजजन्मनि प्रादुर्भावे च – लिट् प्र॰ एक॰

गिरिः, पर्वतः, क्षमाभृत्, अचलः, गोत्रः, धरः, शिखरी, शिलोच्चयः, ग्रावा, अद्रिः, अहार्यः, शैलः, महीध्रः।

सम् वृधुँ वृद्धौ + क्त + सुँ = संवर्धितः।

॥ इति श्रीरामोदन्ते किष्किन्धाकाण्डः समाप्तः॥

5 of 20

गृहकार्यम् – ०४.०८.२०२१

अत्र गुण, वृद्धिः, इडागमः इति एतेषु किं किं कार्यम् अभवत्।

१. डुकृञ् + ण्वुल् (वु → अक) – कारकः – वृद्धिः

२. डुकृञ् + तृच् (तृन्) (तृ) – कर्तृ + सुँ = कर्ता पु॰ – गुणः

३. डुकृञ् + स्य + शतृँ (अत्) – करिष्यन् – गुणः, इडागमः

४. डुकृञ् + णिच् (इ) + शतृँ (अत्) – कारयन् - – वृद्धिः

५. डुकृञ् + णिच् (इ) + शानच् (आन) कारयमाणः - – वृद्धिः

६. डुकृञ् + यक् (य) + शानच् (आन) – क्रियमाणः रिङ् शयग्लिङ्क्षु (७.४.२८)

७. डुकृञ् + क्त (त) – कृतम्

८. डुकृञ् + क्तवतुँ (तवत्) – कृतवत् सुँ = कृतवान् पु॰

९. डुकृञ् + तव्यत् (तव्य) कर्तव्यम् गुणः

सार्वधातुकार्द्धधातुकयोः (७.३.८४) पुगन्तलघूपधस्य च (७.३.८६) आर्धधातुकस्येड् वलादेः (७.२.३५) क्ङिति च (१.१.५)

5

6 of 20

गृहकार्यम् – ११.०८.२०२१

अत्र गुण, वृद्धिः, इडागमः इति एतेषु किं किं कार्यम् अभवत्। �१०. डुकृञ् करणे + अनीयर् (अनीय) – करणीयम् - गुणः

११. डुकृञ् करणे + ण्यत्/यत् (य) – कार्यम् - वृद्धिः

१२. डुकृञ् करणे + घञ्/अच् (अ) कारः - वृद्धिः

१३. डुकृञ् करणे + क्तिन् (ति) – कृतिः

१४. डुकृञ् करणे + सन् (स) + अ – चिकीर्षा

१५. डुकृञ् करणे + ल्युट् (यु → अन) (भावे) – करणम् - गुणः

१६. डुकृञ् करणे + तुमुँन् (तुम्) कर्तुम् - गुणः

१७. डुकृञ् करणे + क्त्वा (त्वा) – कृत्वा

१८. डुकृञ् करणे + ल्यप् (य) – उपकृत्य

१९. डुकृञ् करणे + णमुँल् (अम्) – कारम् कारम् - वृद्धिः

सार्वधातुकार्द्धधातुकयोः (७.३.८४) पुगन्तलघूपधस्य च (७.३.८६) आर्धधातुकस्येड् वलादेः (७.२.३५) क्ङिति च (१.१.५)

6

7 of 20

नामप्रकरणम् - ३

  1. मम नाम । तव/भवतः/भवत्याः/तस्य/तस्याः किन्नामास्ति?
  2. मम भ्रातुः/भगिन्याः/पितुः/मातुः/पुत्रस्य/कन्यायाः नाम –।
  3. अहम्/आवाम्/वयम्/त्वम्/युवाम्/यूयम्/सः/तौ/ते/सा/ते/ताः/भवान्/भवन्तौ/भवन्तः/भवती/भवत्यौ/भवत्यः केन्बरानगरे – (वसँ निवासे – वसति इत्यादीनि रूपाणि) ।
  4. अहं नामधेया /नामधेयः।
  5. अहं नगरवासी/नगरवासिनी।

7

8 of 20

नामप्रकरणम् - ४

  1. कोऽभिजनस्तव वर्तते? तव जन्मदेशः को विद्यते?
  2. भवन्तः कुत्रत्याः? वयं स्मः। तत्र का पुर् वा?
  3. इमे क्व निवसन्ति?
  4. अयं किमधीते?
  5. हरिणा किमधितम्?
  6. अयं भवदीयः पुत्रः किं प्रचर्चयति?
  7. त्वं कस्माद् अधीषे?

8

9 of 20

सार्वधातुकम् - आर्द्धधातुकम्

तिङः – तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् (३.४.७८)

तिप् तस् झि सिप् थस् थ मिप् वस् मस् त आताम् झ थास् आथाम् ध्वम् इट् वहि महिङ्

शित् – शप्, श्यन्, शतृ, शानच् इत्यादयः।

णिच्, उ, क्त, क्तवतु, इत्यादयः।

  • लिट् च (३.४.११५)

लिट्-लकारस्य तिङ्-प्रत्ययाः साक्षात् आर्द्धधातुकाः।

  • लिङाशिषि (३.४.११६)

आहीर्लिङ्-लकारस्य तिङ्-प्रत्ययाः साक्षात् आर्द्धधातुकाः।

Sowmya Krishnapur for Vyoma-samskrta-pathashala, ©2014

10 of 20

इडागमः

  • आर्धधातुकस्येड् वलादेः (७.२.३५)
  • आर्धधातुकस्य ६.१
  • अनुवृत्तिः
  • अधिकारः – अङ्गस्य ६.१
  • परिभाषया
  • सम्पूर्णसूत्रम् – वलादेः आर्धधातुकस्य इट्
  • सूत्रार्थः – वलादि-आर्धधातुक-प्रत्ययस्य इट्-आगमः भवति।
  • यथा – पठ् + स्य + तिप् = पठिष्यति। पठ् + क्त = पठित। अर्च् + तृच्अर्चिता। लिख् + स्य + तिप् → लेखिष्यति।
  • अ इ उ ण्। ऋ ऌ क्। ए ओ ङ्। ऐ औ च्। ह य व र ट्। ण्। ञ म ङ ण न म्। झ भ ञ्। घ ढ ध ष्। ज ब ग ड द श्। ख फ छ ठ थ च ट त व्। क प य्। श ष स र्। ल्।

Sowmya Krishnapur for Vyoma-samskrta-pathashala, ©2014

11 of 20

अङ्गकार्यम् - गुणः

Sowmya Krishnapur for Vyoma-samskrta-pathashala, ©2014

12 of 20

अङ्गकार्यम् - गुणः

  • पुगन्तलघूपधस्य च (७.३.८६)
  • पुगन्त-लघूपधस्य ६.१, च
  • अनुवृत्तिः – सार्वधातुक-आर्द्धधातुकयोः ७.२, गुणः १.१
  • अधिकारः – अङ्गस्य ६.१
  • परिभाषया – इकः ६.१ (इको गुणवृद्धी १.१.३)
  • सूत्रार्थः – पुगन्तस्य लघूपधस्य च अङ्गस्य इकः गुणः स्यात् सार्वधातुक-आर्द्धधातुकयोः परयोः
  • यथा – विद् + घञ् (अ) = वेद, लिख् + घञ् = लेख, क्षिप् + घञ् = क्षेप, दिश् + घञ् = देश, कृष् + शप् + तिप् = कर्षति।
  • ह्री लज्जायाम् + पुक् + णिच् + शप् + तिप् = ह्रे प् इ + अ + ति = ह्रेपयति। अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ (७.३.३६)।

Sowmya Krishnapur for Vyoma-samskrta-pathashala, ©2014

13 of 20

गुणवृद्ध्योः निषेधः

  • क्ङिति च (१.१.५)
  • सूत्रच्छेदः –  क्ङिति सप्तमी-एकवचनम् , च अव्ययम्
  • अनुवृत्तिः  –  इकः१.१.३ , गुण-वृद्धी१.१.३ , न१.१.४
  • अधिकारः  –
  • सम्पूर्णसूत्रम्  –  क्ङिति इकः गुणवृद्धी न
  • सूत्रार्थः  –  कित्, गित्, ङित् प्रत्ययस्य उपस्थितौ इक्-वर्णस्य गुणवृद्धी प्रतिषिध्येते ।
  • यदि कस्मिंश्चित् प्रत्यये ककारः/गकारः/ङकारः इत्संज्ञकः अस्ति, तर्हि तस्य प्रत्ययस्य उपस्थितौ अङ्गस्य अन्तिम इक्-वर्णस्य यद्यपि केनापि सूत्रेण गुणः वृद्धिः वा भवितुमर्हतः, तथापि तौ न भवतः।
  • यथा – लिख् (लिखँ अक्षरविन्यासे) + क्त्वा = लिखित्वा।

Sowmya Krishnapur for Vyoma-samskrta-pathashala, ©2014

14 of 20

डुकृञ् करणे तनादिः उभयपदी सकर्मकः अनिट् (to do)

एक॰

द्वि॰

ब॰

प्र॰

तिप्

तस्

झि

म॰

सिप्

थस्

उ॰

मिप्

वस्

मस्

लृट्

एक॰

द्वि॰

ब॰

प्र॰

करिष्यति

करिष्यतः

करिष्यन्ति

म॰

करिष्यसि

करिष्यथः

करिष्यथ

उ॰

करिष्यामि

करिष्यावः

करिष्यामः

लोट्

एक॰

द्वि॰

ब॰

प्र॰

करोतु

कुरुताम्

कुर्वन्तु

म॰

कुरु

कुरुतम्

कुरुत

उ॰

कर्वाणि

करवाव

करवाम

लङ्

एक॰

द्वि॰

ब॰

प्र॰

अकरोत्

अकुरुताम्

अकुर्वन्

म॰

अकुरोः

अकुरुतम्

अकुरुत

उ॰

अकरवम्

अकुर्व

अकुर्म

लिङ्

एक॰

द्वि॰

ब॰

प्र॰

कुर्यात्

कुर्याताम्

कुर्युः

म॰

कुर्याः

कुर्यातम्

कुर्यात

उ॰

कुर्याम्

कुर्याव

कुर्याम

लट्

एक॰

द्वि॰

ब॰

प्र॰

करोति

कुरुतः

कुर्वन्ति

म॰

करोषि

कुरुथः

कुरुथ

उ॰

करोमि

कुर्वः

कुर्मः

15 of 20

डुलभँष् प्राप्तौ भ्वादिः आत्मनेपदी सकर्मकः अनिट् (to get)

एक॰

द्वि॰

ब॰

प्र॰

शप्

शप् आताम्

शप्

म॰

शप् थास्

शप् आथाम्

शप् ध्वम्

उ॰

शप् इट्

शप् वहि

शप् महिङ्

लृट्

एक॰

द्वि॰

ब॰

प्र॰

लप्स्यते

लप्स्येते

लप्स्यन्ते

म॰

लप्स्यसे

लप्स्येथे

लप्स्यध्वे

उ॰

लप्स्ये

लप्स्यावहे

लप्स्यामहे

लोट्

एक॰

द्वि॰

ब॰

प्र॰

लभताम्

लभेताम्

लभन्ताम्

म॰

लभस्व

लभेथाम्

लभध्वम्

उ॰

लभै

लभावहै

लभामहै

लङ्

एक॰

द्वि॰

ब॰

प्र॰

अलभत

अलभेताम्

अलभन्त

म॰

अलभथाः

अलभेथाम्

अलभध्वम्

उ॰

अलभे

अलभावहि

अलभामहि

लिङ्

एक॰

द्वि॰

ब॰

प्र॰

लभेत

लभेयाताम्

लभेरन्

म॰

लभेथाः

लभेयाथाम्

लभेध्वम्

उ॰

लभेय

लभेवहि

लभेमहि

लट्

एक॰

द्वि॰

ब॰

प्र॰

लभते

लभेते

लभन्ते

म॰

लभसे

लभेथे

लभध्वे

उ॰

लभे

लभावहे

लभामहे

16 of 20

शकॢँ शक्तौ स्वादिः परस्मैपदी अकर्मकः अनिट् (to be able)

एक॰

द्वि॰

ब॰

प्र॰

श्नु तिप्

श्नु तस्

श्नु झि

म॰

श्नु सिप्

श्नु थस्

श्नु

उ॰

श्नु मिप्

श्नु वस्

श्नु मस्

लृट्

एक॰

द्वि॰

ब॰

प्र॰

शक्ष्यति

शक्ष्यतः

शक्ष्यन्ति

म॰

शक्ष्यसि

शक्ष्यथः

शक्ष्यथ

उ॰

शक्ष्यामि

शक्ष्यावः

शक्ष्यामः

लोट्

एक॰

द्वि॰

ब॰

प्र॰

शक्नोतु

शक्नुताम्

शक्नुवन्तु

म॰

शक्नुहि

शक्नुतम्

शक्नुत

उ॰

शक्नवानि

शक्नवाव

शक्नवाम

लङ्

एक॰

द्वि॰

ब॰

प्र॰

अशक्नोत्

अशक्नुताम्

अशक्नुवन्

म॰

अशक्नोः

अशक्नुतम्

अशक्नुत

उ॰

अशक्नवम्

अशक्नुव

अशक्नुम

लिङ्

एक॰

द्वि॰

ब॰

प्र॰

शक्यात्

शक्यास्ताम्

शक्यासुः

म॰

शक्याः

शक्यास्तम्

शक्यास्त

उ॰

शक्यासम्

शक्यास्व

शक्यास्म

लट्

एक॰

द्वि॰

ब॰

प्र॰

शक्नोति

शक्नुतः

शक्नुवन्ति

म॰

शक्नोषि

शक्नुथः

शक्नुथ

उ॰

शक्नोमि

शक्नुवः

शक्नुमः

17 of 20

कृदन्तप्रत्ययाः – डुदाञ् दाने जुहोत्यादिः उभयपदी सकर्मकः अनिट्

१. ण्वुल् (वु → अक) – दायकः

२. तृच् (तृन्) (तृ) – दाता

३. शतृँ/शानच् (अत्/आन) ददत् ददानः

४. स्य + शतृँ/शानच् (अत्/आन) – दास्यन्

५क. णिच् (इ) + शतृँ (अत्) दापयन्

५ख. णिच् (इ) + शानच् (आन) दापयमानः

६. यक् (य) + शानच् (आन) – दीयमानः

७. क्त (त) – दत्तः

८. क्तवतुँ (तवत्) – दत्तवान् दत्तवती

९. तव्यत् (तव्य) दातव्यम्

17

१०. अनीयर् (अनीय) – दानीयम्

११. ण्यत्/यत् (य) – देयम्

१२. घञ्/अच् (अ) दायः

१३. क्तिन् (ति) – दत्ति

१४. सन् (स) + अ – दित्सा

१५. ल्युट् (यु → अन) (भावे) – दानम्

१६. तुमुँन् (तुम्) दातुम्

१७. क्त्वा (त्वा) – दत्त्वा

१८. ल्यप् (य) – प्रदाय

१९. णमुँल् (अम्) दायम् दायम्

18 of 20

नदी – ईकारान्त स्त्रीलिङ्गः (River)

अश्रद्धया हुतं दत्तं तपस्तप्तं कृतम् च यत्। असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह॥गीता १७.२८॥

एकवचनम्

द्विवचनम्

बहुवचनम्

प्रथमा

नदी

नद्यौ

नद्यः

द्वितीया

नदीम्

नद्यौ

नदीः

तृतीया

नद्या

नदीभ्याम्

नदीभिः

चतुर्थी

नद्यै

नदीभ्याम्

नदीभ्यः

पञ्चमी

नद्याः

नदीभ्याम्

नदीभ्यः

षष्ठी

नद्याः

नद्योः

नदीनाम्

सप्तमी

नद्याम्

नद्योः

नदीषु

सम्बोधनम्

हे नदि

हे नद्यौ

हे नद्यः

19 of 20

मित्रलाभः – प्रथमा कथा – १९

अपरं च – पश्य यदि नित्यम् अनित्येन निर्मलं मलवाहिना।

यशः कायेन लभ्येत तन्न लब्धं भवेन्नु किम्॥४८॥

यतः शरीरस्य गुणानां च दूरम् अत्यन्तम् अन्तरम् ।

शरीरं क्षणविध्वंसि कल्पान्तस्थायिनो गुणाः॥४९॥

इत्य् आकर्ण्य हिरण्यकः प्रहृष्टमनाः पुलकितः सन् अब्रवीत्साधु मित्र ! साधु। अनेनाश्रितवात्सल्येन त्रैलोक्यस्यापि प्रभुत्वं त्वयि युज्यते। एवम् उक्त्वा तेन सर्वेषां कपोतानां बन्धनानि छिन्नानि। ततो हिरण्यकः सर्वान् सादरं सम्पूज्य आह सखे चित्रग्रीव! सर्वथात्र जालबन्धनविधौ सति

दोषम् आशङ्क्य आत्मनि अवज्ञा न कर्तव्या। यतः –

योऽधिकाद् योजनशतात्पश्यतीहामिषं खगः।

स एव प्राप्तकालस्तु पाशबन्धं न पश्यति॥५०॥

19

20 of 20

गृहकार्यम् – १८.०८.२०२१

अद्यतनस्य गृहकार्यं स्मरणं कारयति।

https://chitrapurmath.net/site/activities-girvanaprathistha-cards - अस्मात् जालपत्रात् फलनामानि स्मरतु।

अस्मिन् १८.०८.२०२१ इति सर्पपत्रे यानि यानि तिङन्तरूपाणि सुबन्तरूपाणि सन्ति तानि स्मरतु।

20