1 of 22

श्रीः योगिनां केन्बरासंस्कृतवर्गः�१५.१२.२०२२�अष्टाज्याहुतिमन्त्राः॥त्वं नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान्दे॒वस्य॒ हेळोऽव॑ यासिसीष्ठाः।�यजि॑ष्ठो॒ वह्नि॑तमः॒ शोशु॑चानो॒ विश्वा॒ द्वेषां॑सि॒ प्र मु॑मुग्ध्य॒स्मत्॥ऋ॰ ४.१.४�स त्वं नो॑ अग्नेऽव॒मो भ॑वो॒ती नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॑ष्टौ ।�अव॑ यक्ष्व नो॒ वरु॑णं॒ ररा॑णो वी॒हि मृ॑ळी॒कं सु॒हवो॑ न एधि॥ ऋ॰ ४.१.५॥�इ॒मं मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृळय ।�त्वाम॑व॒स्युरा च॑के ॥ऋ॰ १.२५.१९॥��

1

2 of 22

अष्टाज्याहुतिमन्त्राः॥तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदा शा॑स्ते॒ यज॑मानो ह॒विर्भिः॑ ।�अहे॑ळमानो वरुणे॒ह बो॒ध्युरु॑शंस॒ मा न॒ आयुः॒ प्र मो॑षीः॥ऋ॰ १.२४.११॥�ॐ ये ते शतं वरुण ये सहस्रं यज्ञियाः पाशा वितता महान्तः। तेभिर्नो अद्य सवितोत् विष्णुर्विश्वे मुञ्चन्तु मरुतः स्वर्काः स्वाहा। इदं वरुणाय सवित्रे विष्णवे विश्वेभ्यो देवेभ्यो मरुद्भ्यः स्वर्केभ्यः इदन्न मम॥कात्या॰ श्रौ॰ सूत्रम् २५.१.११॥ �ॐ अयाश्चाग्नेऽस्यनभिश्तिपाश्च सत्यमित्त्वमयासि अया नो यज्ञं वहास्यया नो धेहि भेषज स्वाहा। इदमग्नये अयसे इदन्न मम॥कात्या॰ श्रौ॰ सूत्रम् २५.१.१२॥�ॐ उदु॑त्त॒मं व॑रुण॒ पाश॑म॒स्मदवा॑ध॒मं वि म॑ध्य॒मं श्र॑थाय ।�अथा॑ व॒यमा॑दित्य व्र॒ते तवाना॑गसो॒ अदि॑तये स्याम॥ऋ॰ १.२४.१५॥�भव॑तं नः॒ सम॑नसौ॒ सचे॑तसावरे॒पसौ॑। मा य॒ज्ञ हि॑ सिष्टं॒ मा य॒ज्ञप॑तिं जातवेदसौ शि॒वौ भ॑वतम॒द्य नः॑ स्वाहा। इदमग्नये अयसे इदन्न मम ॥५.३��

2

3 of 22

अष्टाज्याहुतिमन्त्राः॥

संहिता

इ॒मं मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृळय ।�त्वाम॑व॒स्युरा च॑के ॥ऋ॰ १.२५.१९॥�पदपाठः

इ॒मम् । मे॒ । व॒रु॒ण॒ । श्रु॒धि॒ । हव॑म् । अ॒द्य । च॒ । मृ॒ळ॒य॒ ।

त्वाम् । अ॒व॒स्युः । आ । च॒के॒ ॥

3

4 of 22

अष्टाज्याहुतिमन्त्राः॥

इ॒मं मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृळय । त्वाम॑व॒स्युरा च॑के ॥

सायणभाष्यम् - वरुणप्रघासेष्टिमं मे वरुणेति वारुणस्य हविषोऽनुवाक्या । पंचम्यां पौर्णमास्यामिति खंडे सूत्रितं । इमं मे वरुण श्रुधि तत्त्वा यामि ब्रह्मणा वंदमानः। आ २-१७। इति॥ हे वरुण मे मदीयमिमं हवमाह्वानं श्रुधि । शृणु । किञ्च अद्यास्मिन्दिने मृळय । अस्मान्सुखय । अवस्युः । रक्षणेच्छुरहं त्वां वरुणमाभिमुख्येन चके । शब्दयामि । स्तौमीत्यर्थः ॥ श्रुधि । श्रु श्रवणे । लोटो हिः । श्रुशृणुपृकृवृभ्यश्छंदसीति हेर्धिरादेशः । बहुलं छंदसीति विकरणस्य लुक् । अन्येषामपि दृश्यत इति संहितायां दीर्घः । अवस्युः । अवस् शब्दात्सुप आत्मनः क्यच् । क्याच्छंदसीत्युप्रत्ययः । आ चके । कै गै शब्दे। अस्माल्लिट्यादेचः। पा ६-१-४५ । इत्यात्वम् । द्विर्भावचुत्वे । आतो लोप इट च । पा ६-४-६४ । इत्याकारलोपः । तिङ्ङतिङ इति निघातः॥१९॥

4

5 of 22

अष्टाज्याहुतिमन्त्राः॥

संहिता

तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदा शा॑स्ते॒ यज॑मानो ह॒विर्भिः॑ ।�अहे॑ळमानो वरुणे॒ह बो॒ध्युरु॑शंस॒ मा न॒ आयुः॒ प्र मो॑षीः॥ऋ॰ १.२४.११पदपाठः

तत् । त्वा॒ । या॒मि॒ । ब्रह्म॑णा । वन्द॑मानः । तत् । आ । शा॒स्ते॒ । यज॑मानः । ह॒विःऽभिः॑ ।

अहे॑ळमानः । व॒रु॒ण॒ । इ॒ह । बो॒धि॒ । उरु॑ऽशंस। मा। नः॒। आयुः॑ । प्र । मो॒षीः॒॥

5

6 of 22

अष्टाज्याहुतिमन्त्राः॥

तत् । त्वा॒ । या॒मि॒ । ब्रह्म॑णा । वन्द॑मानः। तत् । आ । शा॒स्ते॒ । यज॑मानः । ह॒विःऽभिः॑ ।अहे॑ळमानः । व॒रु॒ण॒ । इ॒ह । बो॒धि॒ । उरु॑ऽशंस। मा। नः॒। आयुः॑। प्र। मो॒षीः॒॥

सायणभाष्यम् - एकादशिनस्य वारुणस्य पशोर्वपापुरोडाशयोस्तत्त्वा यामीति द्वे ऋचौ याज्ये । सूत्रितं च । तत्त्वा यामि ब्रह्मणा वंदमान इति द्वे अस्तभ्नाद्यां । आ ३-७ । इति ॥

वरुणप्रघासेषु वारुणस्य हविषो याज्या तत्त्वा यामीत्येषा पंचम्यां पौर्णमास्यामित्यत्र सूत्रितं । इमं मे वरुण श्रुधि तत्त्वा यामि ब्रह्मणा वन्दमानः । अ २-१७ । इति ॥

हे वरुण मुमूर्षुरहं त्वां प्रति तदायुर्यामि । याचे । कीदृशः। ब्रह्मणा प्रौढेन स्तोत्रेण वन्दमानः स्तुवन्। सर्वत्र यजमानोऽपि हविर्भिस्तदायुरा शास्ते। प्रार्थयते। त्वं चेह कर्मण्यहेलमानोऽनादरमकुर्वन्बोधि। अस्मदपेक्षितं बुध्यस्व । हे उरुशंस बहुभिः स्तुत्य नोऽस्मदीयमायुर्मा प्रमोषीः । प्रमुषितं मा कुरु । सप्तदशसंख्याकेषु यज्ञाकर्मस्वीमहे यामीति पठितम्।

6

7 of 22

अष्टाज्याहुतिमन्त्राः॥

तत् । त्वा॒ । या॒मि॒ । ब्रह्म॑णा । वन्द॑मानः । तत् । आ । शा॒स्ते॒ । यज॑मानः । ह॒विःऽभिः॑ ।अहे॑ळमानः । व॒रु॒ण॒ । इ॒ह । बो॒धि॒ । उरु॑ऽशंस। मा। नः॒। आयुः॑। प्र। मो॒षीः॒॥

सायणभाष्यम् - चाशब्दलोपश्छांदसः॥ हेडृ अनादरे । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे शपश्च पित्त्वादनुदात्तत्वे सति धातुस्वरः शिष्यते । ततो नञ् समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम्। बोधि । बुध अवगमने लोटः सेर्हिः । बहुलं छंदसीति विकरणस्य लुक् । वा छंदसि । पा ३-४-८८ । इत्यपित्त्वाभावेन ङित्त्वाभावाल्लघूपधगुणः । हुझल्भ्यो हेर्धिरितिदेशः । धातोरंत्यलोपश्छांदसः । मोषीः । मुष स्तेये । लोडर्थे छांदसो लुङ् । वदव्रजेति प्राप्ताया वृद्धेर्नेट । पा ७-२-३,४। इति प्रतिषेधे सति लघूपधगुणः। बहुलं छन्दस्यमाङ्योगेऽपीत्यडभावः॥११॥

7

8 of 22

अष्टाज्याहुतिमन्त्राः॥

तत् । त्वा॒ । या॒मि॒ । ब्रह्म॑णा । वन्द॑मानः । तत् । आ । शा॒स्ते॒ । यज॑मानः । ह॒विःऽभिः॑ ।अहे॑ळमानः । व॒रु॒ण॒ । इ॒ह । बो॒धि॒ । उरु॑ऽशंस। मा। नः॒। आयुः॑। प्र। मो॒षीः॒॥

स्वामिदयानन्दभाष्यम् -

पदार्थः - (तत्) सुखम् (त्वा) त्वां वरुणं प्राप्तुं तं सूर्यं वा (यामि) प्राप्नोमि (ब्रह्मणा) वेदेन (वन्दमानः) स्तुवन्नभिगायन् (तत्) सुखम् (आ) अभितः (शास्ते) इच्छति (यजमानः) त्रिविधस्य यज्ञस्यानुष्ठाता (हविर्भिः) हवनादिभिः साधनैः (अहेळमानः) अनादरमकुर्वाणः (वरुण) जगदीश्वर ! वायुर्वा। (इह) अस्मिन् संसारे (बोधि) विदितो भव विदितगुणो वा भवति। अत्र लोडर्थे लडर्थे च लुङडभावश्च। (उरुशंस) बहुभिः शस्यते यस्तत्सम्बुद्धौ पक्षे सूर्यो वा (मा) निषेधार्थे (नः) अस्माकम् (आयुः) वयः (प्र) प्रकृष्टार्थे (मोषीः) नाशय विनाशयेद्वा। अत्र लोडर्थे लिङर्थे च लुङडभावोऽन्तर्गतो ण्यर्थश्च॥११॥

भावार्थः - मनुष्यैर्वेदोक्तरीत्या परमेश्वरं सूर्यं च विज्ञाय सुखं प्राप्तव्यम्। नैव केनचित् परमेश्वरोऽनादरणीयः सूर्यविद्या च सर्वदेश्वराज्ञापालनं तत्सृष्टपदार्थानां गुणान् विदित्वोपस्कृत्य चायुषो वृद्धिर्नित्यं कर्तव्येति॥२॥११॥

8

9 of 22

अष्टाज्याहुतिमन्त्राः॥

संहिता

त्वं नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान्दे॒वस्य॒ हेळोऽव॑ यासिसीष्ठाः।

यजि॑ष्ठो॒ वह्नि॑तमः॒ शोशु॑चानो॒ विश्वा॒ द्वेषां॑सि॒ प्र मु॑मुग्ध्य॒स्मत्॥ऋ॰ ४.१.४

पदपाठः

त्वम् । नः॒ । अ॒ग्ने॒ । वरु॑णस्य । वि॒द्वान् । दे॒वस्य॑ । हेळः॑ । अव॑ । या॒सि॒सी॒ष्ठाः॒ ।

यजि॑ष्ठः । वह्नि॑ऽतमः । शोशु॑चानः । विश्वा॑ । द्वेषां॑सि । प्र । मु॒मु॒ग्धि॒ । अ॒स्मत् ॥

Do thou, O Fire, for thou knowest, labour away from us the wrath of divine Varuna; flaming into lustre, strongest to sacrifice, mightiest to bear, unloose from us all hostile powers. Sri Aurobindo.

9

10 of 22

अष्टाज्याहुतिमन्त्राः॥

सायणभाष्यम्

त्वन्नो अग्ने इत्येतदारभ्येदं सूक्तमुत्तराणि सूक्तानि च प्रातरनुवाक अग्नेये क्रतौ त्रैष्टुभे छन्दस्याश्विनशस्त्रे च विनियुक्तानि । सूत्रितं च । त्वं नो अग्ने वरुणस्य विद्वानित्येतत्प्रभृतीनि चत्वारि । आ. ४-१३ । इति । अवभृथेष्ट्यां स्विष्टकृदर्थेऽग्नीवरुणौ यष्टव्यौ । तत्र त्वं नो अग्न इति द्वे याज्यानुवाक्ये । सूत्रितं च । अग्नीवरुणौ स्विष्टकृदर्थे त्वन्नो अग्ने वरुणस्य विद्वानिति द्वे । आ. ६-१३ । इति । अस्नातो यद्यग्निहोत्रं जुहुतात्तदाग्निवारुणीष्टिः । तस्यामेते एव याज्यानुवाक्ये । तदाहुर्य आहिताग्निरित्युपक्रम्याम्नातम्। तस्य याज्यानुवाक्ये त्वं नो अग्ने वरुणस्य विद्वान्त्स त्वं नो अग्नेऽवमो भवोती । ऐ. ब्रा. ७-९ । इति ॥

10

11 of 22

अष्टाज्याहुतिमन्त्राः॥

त्वं नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान्दे॒वस्य॒ हेळोऽव॑ यासिसीष्ठाः।

यजि॑ष्ठो॒ वह्नि॑तमः॒ शोशु॑चानो॒ विश्वा॒ द्वेषां॑सि॒ प्र मु॑मुग्ध्य॒स्मत्॥ऋ॰ ४.१.४

सायणभाष्यम् - हे अग्ने विद्वान् सर्वपुरुषार्थसाधनोपायज्ञस्त्वं देवस्य द्योतमानस्य वरुणस्य हेळः क्रोधान् नोऽस्मत्सम्बन्धिनो वरुणकर्तृकान्पाशग्रहणानव यासिसीष्ठाः। अपनय। किञ्च यजिष्ठो यष्टृतमो वह्नितमो हविषामतिशयेन वोढा शोशुचानोऽतिशयेन दीप्यमानस्त्वं विश्वा सर्वाणि द्वेषांसि पापानि द्वेष्टॄणि रजांसि वा अस्मदस्मत्तः प्र मुमुग्धि। प्रकर्षेण मोचय । हेळः। हेडृ अनादरे । क्विप् । शसि रूपं। शसः सुस्त्वादनुदात्तत्वे धातुस्वरः। यासिसीष्ठाः। यसेर्ण्यन्तादाशीर्लिङ्। थासि सीयुडागमः। छन्दस्युभयथेति लिङः सार्वधातुकत्वाण्णिलोपाभावः। अवपूर्वो यासिर्विनाशे वर्तते। मुमुग्धि। मुञ्चतेर्लोटि रूपं। बहुलं छन्दसीति शपः श्लुः ॥४॥

11

12 of 22

अष्टाज्याहुतिमन्त्राः॥

यासिसीष्ठाः – आशीर्लिङ्लकारः आत्मनेपदी मध्यमपुरुषः एकवचनम्

यस् यसुँ प्रयत्ने दिवादिः परस्मैपदी अकर्मकः सेट् पुषादिः

यसुँ (भूवादयो धातवः (१.३.१))

यस् (उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९))

यस्+लिँङ् (आशिषि लिङ्लोटौ (३.३.१७३))

यस्+ल् (लस्य (३.४.७७), हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९), उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९))

12

13 of 22

अष्टाज्याहुतिमन्त्राः॥

यासिसीष्ठाः – आशीर्लिङ्लकारः आत्मनेपदी मध्यमपुरुषः एकवचनम्

यस्+थास् (तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् (३.४.७८), तङानावात्मनेपदम् (१.४.१००), तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (१.४.१०१), तान्येकवचनद्विवचनबहुवचनान्येकशः (१.४.१०२), युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः (१.४.१०५), लिङाशिषि (३.४.११६))

यस्+णिच्+थास् (सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् (३.१.२५))

यास्+णिच्+थास् (अत उपधायाः (७.२.११६))

13

14 of 22

अष्टाज्याहुतिमन्त्राः॥

यास्+इ+थास् (हलन्त्यम् (१.३.३), चुटू (१.३.७), तस्य लोपः (१.३.९), न विभक्तौ तुस्माः (१.३.४))

यास्+इ+सीय्+थास् (लिङः सीयुट् (३.४.१०२))

यास्+इ+सीय्+स्थास् (सुट् तिथोः (३.४.१०७))

यास्+इ+सीस्थास् (लोपो व्योर्वलि (६.१.६६))

यासि+सीष्थारुँ (ससजुषो रुः (८.२.६६))

यासि+सीष्थार् (उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९))

यासि+सीष्थाः (खरवसानयोर्विसर्जनीयः (८.३.१५))

यासिसीष्ठाः (ष्टुना ष्टुः (८.४.४१))

14

15 of 22

अष्टाज्याहुतिमन्त्राः॥

संहिता

स त्वं नो॑ अग्नेऽव॒मो भ॑वो॒ती नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॑ष्टौ ।

अव॑ यक्ष्व नो॒ वरु॑णं॒ ररा॑णो वी॒हि मृ॑ळी॒कं सु॒हवो॑ न एधि॥ऋ॰ ४.१.५

पदपाठः

सः । त्वम् । नः॒ । अ॒ग्ने॒ । अ॒व॒मः । भ॒व॒। ऊ॒ती। नेदि॑ष्ठः। अ॒स्याः। उ॒षसः॑ । विऽउ॑ष्टौ ।

अव॑ । य॒क्ष्व॒ । नः॒। वरु॑णम्। ररा॑णः। वी॒हि। मृ॒ळी॒कम्। सु॒ऽहवः॑। नः॒। ए॒धि॒ ॥

Do thou, O Fire, be most close to us with thy protection, be most near in the dawning of this dawn: rejoicing in us put away from us Varuna by the sacrifice; reach the bliss, be ready to our call. Sri Aurobindo.

15

16 of 22

अष्टाज्याहुतिमन्त्राः॥

स त्वं नो॑ अग्नेऽव॒मो भ॑वो॒ती नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॑ष्टौ ।

अव॑ यक्ष्व नो॒ वरु॑णं॒ ररा॑णो वी॒हि मृ॑ळी॒कं सु॒हवो॑ न एधि॥ऋ॰ ४.१.५

सायणभाष्यम् - हे अग्ने स तादृशस्त्वमूती ऊत्या रक्षणेन नोऽस्माकमवमोऽर्वाचीनः प्रत्यासन्नः सन् अस्या उषसो व्युष्टौ व्युच्छने प्रातः कालेऽग्निहोत्रादिकर्मसिद्ध्यर्थं नेदिष्ठो भव । अतिशयेनस्मदन्तिकस्थो भव । यद्वा । ऊत्या गमनेनास्माकमवमो रक्षको भव । किञ्च नोऽस्माकं वरुणं वरुणकृतं जलोदरादिरोगं आवारकं पापं वा अव यक्ष्व । अवयज । विनाशयेत्यर्थः । रराणोऽस्मदत्ते हविषि रममाणः । यद्वा । यजमानेभ्योऽत्यन्तमीप्सितफलप्रदस्त्वं मृळिकं सुखकरमिदं हविः वीहि। भक्षय । किञ्च नोऽस्माकं सुहवः शोभनाह्वानोपेत एधि । भव ।

16

17 of 22

अष्टाज्याहुतिमन्त्राः॥

स त्वं नो॑ अग्नेऽव॒मो भ॑वो॒ती नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॑ष्टौ ।

अव॑ यक्ष्व नो॒ वरु॑णं॒ ररा॑णो वी॒हि मृ॑ळी॒कं सु॒हवो॑ न एधि॥ऋ॰ ४.१.५

सायणभाष्यम् - नेदिष्ठः । अन्तिकशब्दादिष्ठन्यन्तिकवाढयोर्नेदसाधाविति नेद इत्यादेशः । नित्त्वादाद्युदात्तः । रराणः । रमतेः कानचि मकारलोपश्छान्दसः । यद्वा । रातेर्यङ् लुकि व्यत्ययेन कानच् । अभ्यस्तानामादिः । एधि । अस्तेर्लोटि ध्वसोरेद्धावभ्यासलोपश्चेति ए इत्यादेशः । तस्यासिद्धत्वाद्धुझल्भ्यो हेर्धिः । निघातः ॥ ५ ॥

17

18 of 22

कारकप्रकरणम्।

(१.४.३२) कर्मणा यमभिप्रैति स सम्प्रदानम् (२.३.१३) चतुर्थी सम्प्रदाने चतुर्थीविधाने तादर्थ्य उपसङ्ख्यानम्। यूपाय दारु। कुण्डलाय हिरण्यम्।

(१.४.४२) साधकतमं करणम् (२.३.१८) कर्तृकरणयोस्तृतीया

(१.४.४९) कर्तुरीप्सिततमं कर्म (२.३.२) कर्मणि द्वितीया १.४.४५) आधारोऽधिकरणम् २.३.३६) सप्तम्यधिकरणे च

����

18

19 of 22

व्योमसंस्कृतपाठशाला - २०११ - संस्कृत एम् ए व्याकरणम् - वर्षं १

  1. अ इ उ ण्
  2. ऋ ऌ क्
  3. ए ओ ङ्
  4. ऐ औ च्
  5. ह य व र ट्
  6. ण्
  7. ञ म ङ ण न म्
  8. झ भ ञ्
  9. घ ढ ध ष्
  10. ज ब ग ड द श्
  11. ख फ छ ठ थ च ट त व्
  12. क प य्
  13. श ष स र्
  14. ल्

इको यण् अचि (६.१.७७)

इक् – इ उ ऋ लृ

यण् – य् व् र् ल्

अच् – अ इ उ ऋ लृ ए ओ ऐ औ

इकः – षष्ठी; यण् – प्रथमा;

अचि – सप्तमी

यदि + अपि = यद् य् अपि = यद्यपि

प्रति + एकम् = प्रत्येकम्

प्रति + उपकारः = प्रत्युपकारः

सु + आगतम् = स्वागतम्

पितृ + उपदेशः = पित्रुपदेशः

लृ + आकृतिः = लाकृतिः

20 of 22

विसर्गसन्धिः

अश्रद्धया हुतं दत्तं तपस्तप्तं कृतम् च यत्। असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह॥गीता १७.२८॥

20

  1. अ इ उ ण्
  2. ऋ ऌ क्
  3. ए ओ ङ्
  4. ऐ औ च्
  5. ह य व र ट्
  6. ण्
  7. ञ म ङ ण न म्
  8. झ भ ञ्
  9. घ ढ ध ष्
  10. ज ब ग ड द श्
  11. ख फ छ ठ थ च ट त व्
  12. क प य्
  13. श ष स र्
  14. ल्

अः + अ = ओऽ

रामः अगच्छत् = रामोऽगच्छत्

अः + आ = अ + आ

रामः आगच्छति = राम आगच्छति

अः + इच् = अ + इच्

रामः उपविशति = राम उपविशति

अः + हश् = ओ + हश्

रामः वदति = रामो वदति

आः + अश् = आ + अश्

देवाः आगच्छन्ति = देवा आगच्छन्ति

21 of 22

विसर्गसन्धिः

अश्रद्धया हुतं दत्तं तपस्तप्तं कृतम् च यत्। असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह॥गीता १७.२८॥

21

  1. अ इ उ ण्
  2. ऋ ऌ क्
  3. ए ओ ङ्
  4. ऐ औ च्
  5. ह य व र ट्
  6. ण्
  7. ञ म ङ ण न म्
  8. झ भ ञ्
  9. घ ढ ध ष्
  10. ज ब ग ड द श्
  11. ख फ छ ठ थ च ट त व्
  12. क प य्
  13. श ष स र्
  14. ल्

इच् + : + अच् = इच् + र् + अच्

इच् + : + झश् = इच् + र् + झश्

अच् + : + च् = अच् + श् + च्

अच् + : + त् = अच् + स् + त्

पाण्डवाश्चैव = पाण्डवाः च एव

दुर्योधनस्तदा = दुर्योधनः तदा

विराटश्च द्रुपदश्च = विराटः च द्रुपदः च

शब्दस्तुमुलोऽभवत् = शब्दः तुमुलः अभवत्

श्वेतैर्हयैर्युक्ते = श्वेतैः हयैः युक्ते

सेनयोरुभयोर्मध्ये = सेनयोः उभयोः मध्ये

22 of 22

विसर्गसन्धिः

अश्रद्धया हुतं दत्तं तपस्तप्तं कृतम् च यत्। असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह॥गीता १७.२८॥

22

  1. अ इ उ ण्
  2. ऋ ऌ क्
  3. ए ओ ङ्
  4. ऐ औ च्
  5. ह य व र ट्
  6. ण्
  7. ञ म ङ ण न म्
  8. झ भ ञ्
  9. घ ढ ध ष्
  10. ज ब ग ड द श्
  11. ख फ छ ठ थ च ट त व्
  12. क प य्
  13. श ष स र्
  14. ल्

इच् + : + अश् = इच् + र् + अश्

अच् + : + ट् = अच् + ष् + ट्

अच् + : + श्/ष्/स् = अच् + श्/ष्/स् + श्/ष्/स्

सः/एषः + हल् = स/एष + हल्

श्वेतैर्हयैर्युक्ते = श्वेतैः हयैः युक्ते

गोपालः टङ्कयति = गोपालष्टङ्कयति

अलसाः स्वपन्ति = अलसास्स्वपन्ति

अलसाः शेरते = अलसाश्शेरते

पुरुषाः षट् = पुरुषाष्षट्

सः पठति = स पठति, एषः कः = एष क।