1 of 9

श्रीः �केन्बरासंस्कृतवर्गः०२.०२.२०२२

1

2 of 9

॥श्रीरामोदन्तम् – युद्धकाण्डः १९-२०

नगरान्निर्ययौ तूर्णम् इन्द्रजित् समितिञ्जयः।

मायासीतां विनिक्षिप्य सर्वेषां मोहनाय वै॥६.१९॥

वि नि क्षिपँ प्रेरणे + ल्यप् = विनिक्षिप्य, मुहँ वैचित्त्ये दिवादिः + ल्युट् + ङे = मोहनाय। समितिः युद्धम्।

वानरेष्वपि पश्यत्सु हनूमत्प्रमुखेषु च।

जघान सीतां खङ्गेन शितेन समितिञ्जयः॥६.२०॥

शो तनूकरणे + क्तः = शितः, शाच्छोरन्यतरस्याम् (७.४.४१) इति इकारादेशः। यस्य च भावेन भावलक्षणम् (२.३.३७)

3 of 9

॥श्रीरामोदन्तम् – युद्धकाण्डः २१-२२

युद्धं त्यक्त्वा ततः सर्वैः वानरैः स परीवृतः ।

दुःखितो हनुमांस्तत्र यत्र रामोऽव्रजल्लघु॥६.२१॥

युधँ सम्प्रहारे घञ्, परि वृञ् आवरणे+ क्तः = परिवृतः, परिसर्व्वतोभावेन वृतः आवृतः वेष्टितः, व्रजँ गतौ

उपगम्याब्रवीद्रामं हनूमान् निखिलं तदा।

श्रुत्वा वृत्तान्तमखिलं रामो मोहमवाप सः॥६.२२॥

ब्रूञ् व्याक्तायां वाचि, निखिलम् अखिलं सर्वम्, श्रु श्रवणे, वृत् वर्तने क्त अन्तम् संवादः वार्त्ता प्रवृत्तिः उदन्तः श्रुतिः उदन्तकः, मुहँ वैचित्त्ये।

4 of 9

॥श्रीरामोदन्तम् – युद्धकाण्डः २३

विभीषणोऽथ संप्राप्य दृष्ट्वा रामं च मूर्छितम्।

विषण्णान् वानरान् वाचा सान्त्वयन्निदमब्रवीत्॥६.२३॥

आपॢँ व्याप्तौ, दृशिँर् प्रेक्षणे , मुर्छाँ मोहसमुच्छ्राययोः (समुच्छ्रयः = सम् + उत् + श्रि + घञ् + सुँ ) उच्छ्रयः उच्चता, षान्त्वँ सामप्रयोगे + णिच् + शतृँ + सुँ = सान्त्वयन् । वाच् स्त्री॰ तृतीया विभक्तिः एकवचनम् – वाचा।

दॢँ विशरणगत्यवसादनेषु क्त = सद् + क्त (धात्वादेः षः सः ६.१.६४)

= सन्न रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.२.४२))

वि + सन्न = विषन्न आदेशप्रत्यययोः (८.३.५९),

= विषण्ण रषाभ्यां नो णः समानपदे (८.४.१), अट्कुप्वाङ्नुम्व्यवायेऽपि (८.४.२)

5 of 9

॥श्रीरामोदन्तम् – युद्धकाण्डः २४

मिथ्या विषादं संत्यज्य जगन्नायक हे प्रभो।

शृणु मेऽभिहितं वाक्यं ज्ञात्वा रावणिमानसम्॥६.२४॥

मिथ्या मिथ्या, व्य, (मथते इति . मथविलोडने . मेथतेहिनस्ति वेति . मथ वा मेथ + क्यप् . निपा-तनात् साधु ) असत्यम्, मृषा, वितथः, अनृतम् इति शब्दरत्नावली, सम् + त्यज् हानौ + ल्यप् = संत्यज्य ,

अभि डुधाञ् धारणपोषणयोः क्त अम् = अभिहितम्

मनँ ज्ञाने दिवादिः, मानसं, क्ली, (मन एव मनस् “प्रज्ञादिभ्यश्च ” ५ . ४ . ३८ . इति स्वार्थे अण् .) मनः मनोभवे।

6 of 9

॥श्रीरामोदन्तम् – युद्धकाण्डः २५-२६

दुरात्मना कृता माया राक्षसेन्द्रसुतेन वै।

निकुम्भिलायां होमं तु कर्तुं तेनाधुना किल॥६.२५॥

होमं कर्तुं माया कृता। हु दानादानयोः आदाने प्रीणने च।

लक्ष्मणं प्रेषयाद्यैव मया सह समन्त्रिणा।

कृते होमे तत्र रिपुः अजेयो भवति ध्रुवम्॥६.२६॥

जि अभिभवे, भू सत्तायाम्, प्रेषृँ गतौ + णिच् + सिप् = प्रेषय (लोट्लकारः), ध्रु गतिस्थैर्ययोः। (ध्रु गतिस्थैर्य्ये+बाहुलकात् कः) सन्ततम् शाश्वतम् स्थिरम् निश्चितम्।

7 of 9

॥श्रीरामोदन्तम् – युद्धकाण्डः २७-२८

उवाच रामः सौमित्रिं राक्षसेन्द्रसुतं जहि।

गच्छेति शीघ्रं सुहृदा रावणस्यानुजेन सह॥६.२७॥

हनँ हिंसागत्योः त्वं जहि (लोट्लकार)। हन्तेर्जः६.४.३६

लक्ष्मणस्तु तदा रामं आमन्त्र्य सविभीषणः।

निकुम्भिलां प्राप तूर्णम् इन्द्रजिद्यत्र वर्तते॥६.२८॥

मन्त्र् गुप्तपरिभाषणे। आप् व्याप्तौ। वृत् वर्तने। इन्द्रजित् यत्र।

8 of 9

॥श्रीरामोदन्तम् – युद्धकाण्डः २९-३०

अदर्शयद्भ्रातृपुत्रं धर्मात्मा स विभीषणः।

लक्ष्मणो भेदयामास राक्षसाञ्छरसञ्चयैः॥६.२९॥

भिदिँर् विदारणेचिञ् चयने + घञ् = चय।

कृत्वा चिरं तत्र युद्धम् ऐन्द्रेणास्त्रेण वै रुषा।

शिरश्चिच्छेद सौमित्रिः दशाननसुतस्य हि॥६.३०॥

प्रतिघः, रुट्, क्रुध्, क्रोधः, अमर्षः, रोषः, कोपः। रुट् इत्यस्य रुषा तृतीयाविभक्तिः एकवचनम्। चिच्छेद = छिदिँर् द्वैधीकरणे लिट्लकारः प्रथमपुरुषः एकवचनम्।

9 of 9

॥श्रीरामोदन्तम् – युद्धकाण्डः ३१

स सुतस्य वधं श्रुत्वा रावणः शोककर्शितः।

नष्टधैर्यो विह्वलाङ्गो विललापाकुलेन्द्रियः॥६.३१॥

कृशँ तनूकरणे+ क्तः = कर्शितः।

विह्वल (वि + ह्वलँ चलने + अच् ) भयादिनाभिभूतः।

विलापः (वि + लपँ व्यक्तायां वाचि + घञ् ) अनुशोचनोक्तिः, परिदेवनम् क्रन्दनादौ दुःखजं वचः।

कुलँ संस्त्याने बन्धुषु च (स्त्यै शब्दसङ्घातयोः)। यस्य इन्द्रियाणि न समाहितानि सः आकुलेन्द्रियः।