1 of 20

श्रीः �केन्बरासंस्कृतवर्गः�०१.०९.२०२१

1

अजरामरवत्प्राज्ञो विद्यामर्थं च चिन्तयेत्।�गृहीत इव केशेषु मृत्युना धर्ममाचरेत्॥

ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते।

श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः॥गीता १२.२०॥

अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत्।

असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह॥गीता १७.२८॥

2 of 20

॥श्रीरामोदन्तम् – सुन्दरकाण्डः ३

लङ्काधिदेवतां जित्वा तां प्रविश्यानिलात्मजः।

सीतां विचिन्वन्नद्राक्षीत् निद्राणं निशि रावणम्॥५.३॥

लङ्काधिदेवता लङ्कादेशस्य ग्रामदेवता। निशि रात्रौ।

नि द्रा क्तः निद्राणः शयितः। संयोगादेरातो धातोर्यण्वतः (८.२.४३)

द्रा कुत्सायां गतौ, नि द्रा शयने – द्राति द्रातः द्रान्ति।

वि चिञ् चयने + शतृ + सुँ = विचिन्वन्

दृशिँर् प्रेक्षणे लुँङ् – अद्राक्षीत् अद्राष्टाम् अद्राक्षुः।

3 of 20

॥श्रीरामोदन्तम् – सुन्दरकाण्डः ४

अपश्यंस्तत्र वैदेहीं विचिन्वानस्ततस्ततः।

अशोकवनिकां गत्वा सीतां खिन्नां ददर्श सः॥५.४॥

अपश्यन् तत्र = अपश्यंस्तत्र। नश्छव्यप्रशान् (८.३.७)

चिञ् चयने शानच्+सुँ = चिन्वानः स्वादिभ्यः श्नुः (३.१.७३)

खिदँ दैन्ये दिवादि + क्त + टाप् = खिन्ना

रदाभ्यां निष्ठातो नः पूर्वस्य च दः नः (८.२.४२)

दृशिँर् प्रेक्षणे लिट् प्र॰ एक॰ – ददर्श ददृशतुः ददृशुः।

4 of 20

॥श्रीरामोदन्तम् – सुन्दरकाण्डः ५

पादपं कञ्चिदारुह्य तत्पलाशैः सुसंवृतः।

आस्ते स्म मारुतिस्तत्र सीतेयमिति तर्कयन्॥५.५॥

रुहँ बीजजन्मनि प्रादुर्भावे च + ल्यप् = आरुह्य।

पलाशम् पलं गतिं कम्पनमित्यर्थः अश्नुतेव्याप्नोतिति।

सम् + वृञ् आवरणे + क्तः = संवृतः।

आस् उपवेशने लट् प्र॰ एक॰ = आस्त्। आसाते आसते।

तर्क भाषायम् + शतृ + सुँ = तर्कयन्

5 of 20

॥श्रीरामोदन्तम् – सुन्दरकाण्डः ६

रावणस्तु तदाऽभ्येत्य मैथिलीं मदनार्दितः।

भार्या भव ममेत्येवं बहुधा समयाचत॥५.६॥

अभि आ + इण् गतौ + ल्यप् = अभ्येत्य

ह्रस्वस्य पिति कृति तुक् (६.१.७१)

मदीँ हर्षे ग्लेपने च + ल्युट् + सुँ = मदनम्।

अर्दँ हिंसायाम् + क्तः = अर्दितः

टुयाचृँ याच्ञायाम् लङ् प्र॰ एक॰ आत्मने॰ – अयाचत।

6 of 20

गृहकार्यम् – २५.०८.२०२१

https://chitrapurmath.net/site/activities-girvanaprathistha-cards - अस्मात् जालपत्रात् शाकनामानि स्मरतु।

जालपत्राणि अदृष्टम् अनुवादं करोतु। शब्दकोषे शब्दार्थाः विचेतुं शक्यन्ते।

प्रारभ्यते न खलु विघ्नभयेन नीचैः

प्रारभ्य विघ्ननिहता विरमन्ति मध्याः।

विघ्नैर्मुहुर्मुहुरपि प्रतिहन्यमानाः

प्रारब्धमुत्तमगुणा न परित्यजन्ति॥

6

7 of 20

नामप्रकरणम् - ३

  1. मम नाम । तव/भवतः/भवत्याः/तस्य/तस्याः किन्नामास्ति?
  2. मम भ्रातुः/भगिन्याः/पितुः/मातुः/पुत्रस्य/कन्यायाः नाम –।
  3. अहम्/आवाम्/वयम्/त्वम्/युवाम्/यूयम्/सः/तौ/ते/सा/ते/ताः/भवान्/भवन्तौ/भवन्तः/भवती/भवत्यौ/भवत्यः केन्बरानगरे – (वसँ निवासे – वसति इत्यादीनि रूपाणि) ।
  4. अहं नामधेया /नामधेयः।
  5. अहं नगरवासी/नगरवासिनी।

7

8 of 20

नामप्रकरणम् - ४

  1. कोऽभिजनस्तव वर्तते? तव जन्मदेशः को विद्यते?
  2. भवन्तः कुत्रत्याः? वयं स्मः। तत्र का पुर् वा?
  3. इमे क्व निवसन्ति?
  4. अयं किमधीते?
  5. हरिणा किमधितम्?
  6. अयं भवदीयः पुत्रः किं प्रचर्चयति?
  7. त्वं कस्माद् अधीषे?

8

9 of 20

सार्वधातुकम् - आर्द्धधातुकम्

तिङः – तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् (३.४.७८)

तिप् तस् झि सिप् थस् थ मिप् वस् मस् त आताम् झ थास् आथाम् ध्वम् इट् वहि महिङ्

शित् – शप्, श्यन्, शतृ, शानच् इत्यादयः।

णिच्, उ, क्त, क्तवतु, इत्यादयः।

  • लिट् च (३.४.११५)

लिट्-लकारस्य तिङ्-प्रत्ययाः साक्षात् आर्द्धधातुकाः।

  • लिङाशिषि (३.४.११६)

आहीर्लिङ्-लकारस्य तिङ्-प्रत्ययाः साक्षात् आर्द्धधातुकाः।

Sowmya Krishnapur for Vyoma-samskrta-pathashala, ©2014

10 of 20

इडागमः

  • आर्धधातुकस्येड् वलादेः (७.२.३५)
  • आर्धधातुकस्य ६.१
  • अनुवृत्तिः
  • अधिकारः – अङ्गस्य ६.१
  • परिभाषया
  • सम्पूर्णसूत्रम् – वलादेः आर्धधातुकस्य इट्
  • सूत्रार्थः – वलादि-आर्धधातुक-प्रत्ययस्य इट्-आगमः भवति।
  • यथा – पठ् + स्य + तिप् = पठिष्यति। पठ् + क्त = पठित। अर्च् + तृच्अर्चिता। लिख् + स्य + तिप् → लेखिष्यति।
  • अ इ उ ण्। ऋ ऌ क्। ए ओ ङ्। ऐ औ च्। ह य व र ट्। ण्। ञ म ङ ण न म्। झ भ ञ्। घ ढ ध ष्। ज ब ग ड द श्। ख फ छ ठ थ च ट त व्। क प य्। श ष स र्। ल्।

Sowmya Krishnapur for Vyoma-samskrta-pathashala, ©2014

11 of 20

अङ्गकार्यम् - गुणः

Sowmya Krishnapur for Vyoma-samskrta-pathashala, ©2014

12 of 20

अङ्गकार्यम् - गुणः

  • पुगन्तलघूपधस्य च (७.३.८६)
  • पुगन्त-लघूपधस्य ६.१, च
  • अनुवृत्तिः – सार्वधातुक-आर्द्धधातुकयोः ७.२, गुणः १.१
  • अधिकारः – अङ्गस्य ६.१
  • परिभाषया – इकः ६.१ (इको गुणवृद्धी १.१.३)
  • सूत्रार्थः – पुगन्तस्य लघूपधस्य च अङ्गस्य इकः गुणः स्यात् सार्वधातुक-आर्द्धधातुकयोः परयोः
  • यथा – विद् + घञ् (अ) = वेद, लिख् + घञ् = लेख, क्षिप् + घञ् = क्षेप, दिश् + घञ् = देश, कृष् + शप् + तिप् = कर्षति।
  • ह्री लज्जायाम् + पुक् + णिच् + शप् + तिप् = ह्रे प् इ + अ + ति = ह्रेपयति। अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ (७.३.३६)।

Sowmya Krishnapur for Vyoma-samskrta-pathashala, ©2014

13 of 20

गुणवृद्ध्योः निषेधः

  • क्ङिति च (१.१.५)
  • सूत्रच्छेदः –  क्ङिति सप्तमी-एकवचनम् , च अव्ययम्
  • अनुवृत्तिः  –  इकः१.१.३ , गुण-वृद्धी१.१.३ , न१.१.४
  • अधिकारः  –
  • सम्पूर्णसूत्रम्  –  क्ङिति इकः गुणवृद्धी न
  • सूत्रार्थः  –  कित्, गित्, ङित् प्रत्ययस्य उपस्थितौ इक्-वर्णस्य गुणवृद्धी प्रतिषिध्येते ।
  • यदि कस्मिंश्चित् प्रत्यये ककारः/गकारः/ङकारः इत्संज्ञकः अस्ति, तर्हि तस्य प्रत्ययस्य उपस्थितौ अङ्गस्य अन्तिम इक्-वर्णस्य यद्यपि केनापि सूत्रेण गुणः वृद्धिः वा भवितुमर्हतः, तथापि तौ न भवतः।
  • यथा – लिख् (लिखँ अक्षरविन्यासे) + क्त्वा = लिखित्वा।

Sowmya Krishnapur for Vyoma-samskrta-pathashala, ©2014

14 of 20

डुकृञ् करणे तनादिः उभयपदी सकर्मकः अनिट् (to do)

एक॰

द्वि॰

ब॰

प्र॰

तिप्

तस्

झि

म॰

सिप्

थस्

उ॰

मिप्

वस्

मस्

लृट्

एक॰

द्वि॰

ब॰

प्र॰

करिष्यति

करिष्यतः

करिष्यन्ति

म॰

करिष्यसि

करिष्यथः

करिष्यथ

उ॰

करिष्यामि

करिष्यावः

करिष्यामः

लोट्

एक॰

द्वि॰

ब॰

प्र॰

करोतु

कुरुताम्

कुर्वन्तु

म॰

कुरु

कुरुतम्

कुरुत

उ॰

कर्वाणि

करवाव

करवाम

लङ्

एक॰

द्वि॰

ब॰

प्र॰

अकरोत्

अकुरुताम्

अकुर्वन्

म॰

अकरोः

अकुरुतम्

अकुरुत

उ॰

अकरवम्

अकुर्व

अकुर्म

लिङ्

एक॰

द्वि॰

ब॰

प्र॰

कुर्यात्

कुर्याताम्

कुर्युः

म॰

कुर्याः

कुर्यातम्

कुर्यात

उ॰

कुर्याम्

कुर्याव

कुर्याम

लट्

एक॰

द्वि॰

ब॰

प्र॰

करोति

कुरुतः

कुर्वन्ति

म॰

करोषि

कुरुथः

कुरुथ

उ॰

करोमि

कुर्वः

कुर्मः

15 of 20

डुलभँष् प्राप्तौ भ्वादिः आत्मनेपदी सकर्मकः अनिट् (to get)

एक॰

द्वि॰

ब॰

प्र॰

शप्

शप् आताम्

शप्

म॰

शप् थास्

शप् आथाम्

शप् ध्वम्

उ॰

शप् इट्

शप् वहि

शप् महिङ्

लृट्

एक॰

द्वि॰

ब॰

प्र॰

लप्स्यते

लप्स्येते

लप्स्यन्ते

म॰

लप्स्यसे

लप्स्येथे

लप्स्यध्वे

उ॰

लप्स्ये

लप्स्यावहे

लप्स्यामहे

लोट्

एक॰

द्वि॰

ब॰

प्र॰

लभताम्

लभेताम्

लभन्ताम्

म॰

लभस्व

लभेथाम्

लभध्वम्

उ॰

लभै

लभावहै

लभामहै

लङ्

एक॰

द्वि॰

ब॰

प्र॰

अलभत

अलभेताम्

अलभन्त

म॰

अलभथाः

अलभेथाम्

अलभध्वम्

उ॰

अलभे

अलभावहि

अलभामहि

लिङ्

एक॰

द्वि॰

ब॰

प्र॰

लभेत

लभेयाताम्

लभेरन्

म॰

लभेथाः

लभेयाथाम्

लभेध्वम्

उ॰

लभेय

लभेवहि

लभेमहि

लट्

एक॰

द्वि॰

ब॰

प्र॰

लभते

लभेते

लभन्ते

म॰

लभसे

लभेथे

लभध्वे

उ॰

लभे

लभावहे

लभामहे

16 of 20

शकॢँ शक्तौ स्वादिः परस्मैपदी अकर्मकः अनिट् (to be able)

एक॰

द्वि॰

ब॰

प्र॰

श्नु तिप्

श्नु तस्

श्नु झि

म॰

श्नु सिप्

श्नु थस्

श्नु

उ॰

श्नु मिप्

श्नु वस्

श्नु मस्

लृट्

एक॰

द्वि॰

ब॰

प्र॰

शक्ष्यति

शक्ष्यतः

शक्ष्यन्ति

म॰

शक्ष्यसि

शक्ष्यथः

शक्ष्यथ

उ॰

शक्ष्यामि

शक्ष्यावः

शक्ष्यामः

लोट्

एक॰

द्वि॰

ब॰

प्र॰

शक्नोतु

शक्नुताम्

शक्नुवन्तु

म॰

शक्नुहि

शक्नुतम्

शक्नुत

उ॰

शक्नवानि

शक्नवाव

शक्नवाम

लङ्

एक॰

द्वि॰

ब॰

प्र॰

अशक्नोत्

अशक्नुताम्

अशक्नुवन्

म॰

अशक्नोः

अशक्नुतम्

अशक्नुत

उ॰

अशक्नवम्

अशक्नुव

अशक्नुम

लिङ्

एक॰

द्वि॰

ब॰

प्र॰

शक्यात्

शक्यास्ताम्

शक्यासुः

म॰

शक्याः

शक्यास्तम्

शक्यास्त

उ॰

शक्यासम्

शक्यास्व

शक्यास्म

लट्

एक॰

द्वि॰

ब॰

प्र॰

शक्नोति

शक्नुतः

शक्नुवन्ति

म॰

शक्नोषि

शक्नुथः

शक्नुथ

उ॰

शक्नोमि

शक्नुवः

शक्नुमः

17 of 20

कृदन्तप्रत्ययाः – डुदाञ् दाने जुहोत्यादिः उभयपदी सकर्मकः अनिट्

१. ण्वुल् (वु → अक) – दायकः

२. तृच् (तृन्) (तृ) – दाता

३. शतृँ/शानच् (अत्/आन) ददत् ददानः

४. स्य + शतृँ/शानच् (अत्/आन) – दास्यन्

५क. णिच् (इ) + शतृँ (अत्) दापयन्

५ख. णिच् (इ) + शानच् (आन) दापयमानः

६. यक् (य) + शानच् (आन) – दीयमानः

७. क्त (त) – दत्तः

८. क्तवतुँ (तवत्) – दत्तवान् दत्तवती

९. तव्यत् (तव्य) दातव्यम्

17

१०. अनीयर् (अनीय) – दानीयम्

११. ण्यत्/यत् (य) – देयम्

१२. घञ्/अच् (अ) दायः

१३. क्तिन् (ति) – दत्ति

१४. सन् (स) + अ – दित्सा

१५. ल्युट् (यु → अन) (भावे) – दानम्

१६. तुमुँन् (तुम्) दातुम्

१७. क्त्वा (त्वा) – दत्त्वा

१८. ल्यप् (य) – प्रदाय

१९. णमुँल् (अम्) दायम् दायम्

18 of 20

नदी – ईकारान्त स्त्रीलिङ्गः (River)

अश्रद्धया हुतं दत्तं तपस्तप्तं कृतम् च यत्। असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह॥गीता १७.२८॥

एकवचनम्

द्विवचनम्

बहुवचनम्

प्रथमा

नदी

नद्यौ

नद्यः

द्वितीया

नदीम्

नद्यौ

नदीः

तृतीया

नद्या

नदीभ्याम्

नदीभिः

चतुर्थी

नद्यै

नदीभ्याम्

नदीभ्यः

पञ्चमी

नद्याः

नदीभ्याम्

नदीभ्यः

षष्ठी

नद्याः

नद्योः

नदीनाम्

सप्तमी

नद्याम्

नद्योः

नदीषु

सम्बोधनम्

हे नदि

हे नद्यौ

हे नद्यः

19 of 20

मित्रलाभः – प्रथमा कथा – २०

अपरं च – शशिदिवाकरयोर्ग्रहपीडनं गजभुजङ्गमयोरपि बन्धनम्। मतिमतां च विलोक्य दरिद्रतां विधिरहो बलवान् इति मे मतिः॥५१॥

अन्यच्च – व्योमैकान्तविहारिणोऽपि विहगाः सम्प्राप्नुवन्त्यापदं

बध्यन्ते निपुणैरगाधसलिलान्मत्स्याः समुद्रादपि।

दुर्नीतं किमिहास्ति किं सुचरितं कः स्थानलाभे गुणः

कालो हि व्यसनप्रसारितकरो गृह्णाति दूरादपि॥५२॥

इति प्रबोध्य आतिथ्यं कृत्वा आलिङ्ग्य च तेन सम्प्रेषितश्चित्रग्रीवोऽपि सपरिवारो यथेष्टदेशान् ययौ, हिरण्यकोऽपि स्वविवरं प्रविष्टः।

यानि कानि च मित्राणि कर्तव्यानि शतानि च।

पश्य मूषिकमित्रेण कपोता मुक्तबन्धनाः॥५३॥

अथ लघुपतनकनामा काकः सर्ववृत्तान्तदर्शी साश्चर्यम् इदम् आह अहो हिरण्यक! श्लाघ्योऽसि, अतोऽहम् अपि त्वया सह मैत्रीं कर्तुमिच्छामि।

20 of 20

गृहकार्यम् – ०१.०९.२०२१

https://chitrapurmath.net/site/activities-girvanaprathistha-cards - अस्मात् जालपत्रात् पुष्पनामानि स्मरतु।

जालपत्राणि अदृष्टम् अनुवादं करोतु। शब्दकोषे शब्दार्थाः विचेतुं शक्यन्ते।

रात्रौ दीपशिखा भाति दिवा सूर्यकरस्तथा।

काये च कनकं भाति करुणा चित्तवृत्तिषु॥

20