1 of 8

श्रीः �योगिनां केन्बरासंस्कृतवर्गः�०९.०९.२०२१

1

रामो राजमणिः सदा विजयते रामं रमेशं भजे

रामेणाभिहता निशाचरचमू रामाय तस्मै नमः।

रामान्नास्ति परायणं परतरं रामस्य दसोऽस्म्यहं

रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर॥

रामः रामम् रामेण रामाय रामात् रामस्य रामे हे राम।

षष्ठी बहुवचनम् – रामाणाम् देवानाम्।

2 of 8

गृहकार्यम् – ०२.०९.२०२१

सुबन्तपदानां विभक्तिं दर्शयतु।

Please identify the vibhakti of subanta padas.

अलसस्य (६.१) कुतो विद्या (१.१) अविद्यस्य (६.१) कुतो धनम् (१.१)

अधनस्य (६.१) कुतो मित्रममित्रस्य (६.१) कुतः सुखम् (१.१)

हस्तस्य (६.१) भूषणं दानं सत्यं (१.१) कण्ठस्य (६.१) भूषणम् (१.१)

श्रोत्रस्य (६.१) भूषणं शास्त्रं (१.१) भूषणैः (३.३) किं प्रयोजनम् (१.१)

कुतः (from where) – अव्ययम् indeclinable.

2

3 of 8

सारांशः – Summary so far

सुप्तिङन्तं पदम् (१.४.१४)

प्रकृतिः (raw form) + प्रत्ययः (suffix) = पदम् (word)

तिङन्तपदानि – पठति, खेलति, पठिष्यति, खेलिष्यति।

सुबन्तपदानि – रामः रामौ रामाः, देवम् देवौ देवान्, लता लते लता।

छन्दः – = लघुः वर्णः (।), आ अं अः = गुरुः वर्णः (ऽ)

दश (Ten) लकाराः - लँट्, लिँट्, लुँट्, लृँट्, लेँट्, लोँट्, लँङ्, लिँङ्, लुँङ्, लृँङ्

Presentवर्तमाने लँट् (३.२.१२३) Futureलृँट् शेषे च (३.३.१३)

स्वतन्त्रः कर्त्ता (१.४.५४) तिङ्समानाधिकरणे प्रथमा, अभिहिते प्रथमा।

कर्तुरीप्सिततमं कर्म (१.४.४९) कर्मणि द्वितीया (२.३.२) (अनभिहिते)।

4 of 8

श्लोकाः – द्वितीया विभक्तिः

अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम्। परिग्रहः स्वीकारे।

विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते॥ कृपुँ सामर्थ्ये ब्रह्मभूय ब्रह्मत्वम्

मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम्। लघिँ गतौ भोजननिवृतौ

यत्कृपा तमहं वन्दे परमानन्दमाधवम्॥ वदिँ अभिवादनस्तुत्योः

वसुदेवसुतं देवं कंसचाणूरमर्दनम्। वन्दे – उत्तमपुरुषः एकवचनम्

देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम्॥

शङ्खचक्रगदापद्मवनमालाविभूषितम्। भूषँ अलङ्कारे

पीताम्बरधरं देवं वन्दे विष्णुं चतुर्भुजम्॥ भुजोँ कौटिल्ये

4

5 of 8

करणकारकम् – तृतीया विभक्तिः

साधकतमं करणम् (१.४.४२) – क्रियासिद्धौ यत् प्रकृष्टोपकारकं विवक्षितं तत् साधकतमं कारकं करणसंज्ञं भवति। The thing most useful in accomplishing the action is karana karaka.

कर्तृकरणयोस्तृतीया (२.३.१८) – कर्तरि करणे च कारके तृतीया विभक्तिर्भवति। To give the meaning of kartaa (subject) or karana (instrumental) the third triplet is used.

अहं मुखेन खादामि। अहं नेत्राभ्यां पश्यामि। अहं कण्ठेन गायामि। अहं कर्णाभ्यां शृणोमि। अहं पादाभ्यां चलामि। सः मुखेन खादति।

5

6 of 8

पठँ व्यक्तायां वाचि भ्वादिः परस्मैपदी सकर्मकः सेट् (to read)

एक॰

द्वि॰

ब॰

प्र॰

शप् तिप्

शप् तस्

शप् झि

म॰

शप् सिप्

शप् थस्

शप्

उ॰

शप् मिप्

शप् वस्

शप् मस्

लृट्

एक॰

द्वि॰

ब॰

प्र॰

पठिष्यति

पठिष्यतः

पठिष्यन्ति

म॰

पठिष्यसि

पठिष्यथः

पठिष्यथ

उ॰

पठिष्यामि

पठिष्यावः

पठिष्यामः

लोट्

एक॰

द्वि॰

ब॰

प्र॰

पठतु

पठताम्

पठन्तु

म॰

पठ

पठतम्

पठत

उ॰

पठानि

पठाव

पठाम

लङ्

एक॰

द्वि॰

ब॰

प्र॰

अपठत्

अपठताम्

अपठन्

म॰

अपठः

अपठतम्

अपठत

उ॰

अपठम्

अपठाव

अपठाम

लिङ्

एक॰

द्वि॰

ब॰

प्र॰

पठेत्

पठेताम्

पठेयुः

म॰

पठेः

पठेतम्

पठेत

उ॰

पठेयम्

पठेव

पठेम

लट्

एक॰

द्वि॰

ब॰

प्र॰

पठति

पठतः

पठन्ति

म॰

पठसि

पठथः

पठथ

उ॰

पठामि

पठावः

पठामः

7 of 8

फल (न॰ – अकारान्तः) Fruit

एकवचनम्

द्विवचनम्

बहुवचनम्

प्रथमा

फलम्

फले

फलानि

द्वितीया

फलम्

फले

फलानि

तृतीया

फलेन

फलाभ्याम्

फलैः

चतुर्थी

फलाय

फलाभ्याम्

फलेभ्यः

पञ्चमी

फलात्

फलाभ्याम्

फलेभ्यः

षष्ठी

फलस्य

फलयोः

फलानाम्

सप्तमी

फले

फलयोः

फलेषु

सम्बोधनम्

फल

फले

फलानि

8 of 8

गृहकार्यम् – ०९.०९.२०२१

सुबन्तपदानां विभक्तिं दर्शयतु।

Please identify the vibhakti of subanta padas.

उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः।

न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः॥

यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम्।

लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति॥

8