1 of 5

॥श्री:॥�केन्बरासंस्कृतवर्गः�०१.०३.२०२३�महाकविभासप्रणीतं स्वप्नवासवदत्तम्॥�॥षष्ठोऽङ्कः॥

1

2 of 5

धात्री - आह भट्टिनी – उपरता वासवदत्ता। मम वा महासेनस्य वा यादृशौ गोपालकपालकौ, तादृश एव त्वं प्रथममेवाभिप्रेतो जामातेति। एतन्निमित्तमुज्जयिनीमानीतः। अनग्निसाक्षिकं वीणाव्यपदेशेन दत्ता। आत्मनश्चपलतयानिर्वृत्तविवाहमङ्गल एव गतः। अथ चावाभ्यां तव च वासवदत्तायाश्च प्रतिकृतिं चित्रफलकायामालिख्य विवाहो निर्वृत्तः। एषा चित्रफलका तव सकाशं प्रेषिता। एतां प्रेक्ष्य निर्वृतो भव।

राजा - अहो अतिस्निग्धमनुरूपं चाभिहितं तत्रभवत्या।

वाक्यमेतत् प्रियतरं राज्यलाभशतादपि।

अपराद्धेष्वपि स्नेहो यदस्मासु न विस्मृतः॥१२॥

पद्मावती - आर्यपुत्र! चित्रगतं गुरुजनं प्रेक्ष्याभिवादयितुमिच्छामि।

धात्री - प्रेक्षतां प्रेक्षतां भर्तृदारिका। (चित्रफलकां दर्शयति)

पद्मावती - (दृष्ट्वा आत्मगतम्) हम् अतिसदृशी सल्वियमार्याया आवन्तिकायाः । (प्रकाशम्) आर्यपुत्र! सदृशी खल्वियमार्यायाः।

3 of 5

राजा - न सदृशी । सैवेति मन्ये। भोः कष्टम्,

अस्य स्निग्धस्य वर्णस्य विपत्तिर्दारुणा कथम्।

इदं च मुखमाधुर्यं कथं दूषितमग्निना ॥१३॥

पद्मावती - आर्यपुत्रस्य प्रतिकृतिं दृष्ट्वा जानामीयमार्यया सदृशी न वेति।

धात्री - प्रेक्षतां प्रेक्षतां भर्तृदारिका।

पद्मावती - (दृष्ट्वा) आर्यपुत्रस्य प्रतिकृतेः सदृशतया जानामीयमार्यया सदृशीति ।

राजा - देवि! चित्रदर्शनात् प्रभृति प्रहृष्टोद्विग्नामिव त्वां पश्यामि । किमिदम् ।

पद्मावती - आर्यपुत्र! अस्य प्रतिकृतेः सदृशीहैव प्रतिवसति ।

राजा - किं वासवदत्तायाः ।

पद्मावती - आम् ।

राजा - तेन हि शीघ्रमानीयताम् ।

4 of 5

पद्मावती - आर्यपुत्र! मम कन्याभावे केनापि ब्राह्मणेन मम भगिनिकेति न्यासो निक्षिप्तः । प्रोषितभर्तृका परपुरुषदर्शनं परिहरति। तदार्यां मया सहागतां प्रेक्ष्य जानात्वार्यपुत्रः ।

राजा –

यदि विप्रस्य भगिनी व्यक्तमन्या भविष्यति ।

परस्परगता लोके द्दश्यते रूपतुल्यता ॥१४॥

(प्रविश्य) प्रतीहारी - जयतु भर्ता । एष उज्जयिनीयो ब्राह्मणः, भट्टिन्या हस्ते मम भगिनिकेति न्यासो निक्षिप्तः, तं प्रतिग्रहीतुं प्रतिहारमुपस्थितः ।

राजा - पद्मावती ! किं नु स ब्राह्मणः ।

पद्मावती - भवितव्यम् ।

राजा - शीघ्रं प्रवेश्यतामभ्यन्तरसमुदाचारेण स ब्राह्मणः।

प्रतीहारी - यद् भर्ताज्ञापयति । (निष्क्रान्ता।)

राजा - पद्मावति! त्वमपि तामानय ।

5 of 5

पद्मावती - यदार्यपुत्र आज्ञापयति । (निष्क्रान्ता) ।

(ततः प्रविशति यौगन्धरायणः प्रतीहारी च)

यौगन्धरायणः - (आत्मगतम्) भोः!

प्रच्छाद्य राजमहिषीं नृपतेर्हितार्थं

कामं मया कृतमिदं हितमित्यवेक्ष्य ।

सिद्धेऽपि नाम मम कर्मणि पार्थिवोऽसौ

कि वक्ष्यतीति हृदयं परिशङ्कितं मे ॥१५॥

प्रतीहारी - एष भर्ता । उपसर्पत्वार्यः।

यौगन्धरायणः - (उपसृत्य) जयतु भवान् जयतु ।

राजा - श्रुतपूर्व इव स्वरः! भो ब्राह्मण! किं भवतः स्वसा पद्मावत्या हस्ते न्यास इति निक्षिप्ता । योगन्धरायणः - अथ किम् राजा - तेन हि त्वर्यतां त्वर्यतामस्य भगिनिका ।

प्रतीहारी - यद् भर्ताज्ञापयति। (निष्क्रान्ता)