श्रीः �योगिनां केन्बरासंस्कृतवर्गः�२८.१०.२०२१
1
संहिता
प्रा॒तर॒ग्निं प्रा॒तरिन्द्रं॑ हवामहे प्रा॒तर्मि॒त्रावरु॑णा प्रा॒तर॒श्विना॑ ।�प्रा॒तर्भगं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॑ प्रा॒तः सोम॑मु॒त रु॒द्रं हु॑वेम ॥
पदपाठः
प्रा॒तः। अ॒ग्निम्। प्रा॒तः । इन्द्र॑म्। ह॒वा॒म॒हे॒ । प्रा॒तः। मि॒त्रावरु॑णा। प्रा॒तः। अ॒श्विना॑ ।�प्रा॒तः । भग॑म्। पू॒षण॑म्। ब्रह्म॑णः। पति॑म्। प्रा॒तः । सोम॑म्। उ॒त। रु॒द्रम् । हु॒वे॒म॒ ॥
ह्वेञ् स्पर्धायां शब्दे च (भ्वादिः उभयपदी सकर्मकः अनिट् यजादिः)
हवामहे वयं स्तोतार आह्वयामः, हुवेम आह्वयामः। मित्रावरुणौ अहोरात्राभिमानिनौ देवौ, अश्विनौ देवानां भिषजौ।
गृहकार्यम् – ०७.१०.२०२१
देव + इन्द्र देवेन्द्र, मम + इच्छा ममेच्छा, अत्र + इदम् अत्रेदम्, न + इति नेति। रमा + ईश रमेश, का + इति केति, लङ्का + ईश लङ्केश, गुडाका + ईश गुडाकेश। नर + उत्तम नरोत्तम, पर + उपकार परोपकार, हित + उपदेश हितोपदेश, प्रश्न + उत्तर प्रश्नोत्तर। महा+ उत्सव महोत्सव, गङ्गा + उदक गङ्गोदक, मया+ उक्तम् मयोक्तम्। सदा+ एव सदैव, यदा + एव यदैव, अद्य + एव अद्यैव, उप + एति उपैति, महा + ऐश्वर्य महैश्वर्य। महा+ औषध महौषध, जल + ओघ जलौघ, तव + ओष्ठ तवौष्ठ। देव + ऋषि देवर्षि, ब्रह्म + ऋषि ब्रह्मर्षि, ग्रीष्म + ऋतु ग्रीष्मर्तु, उत्तम+ ऋण उत्तमर्ण।
2
सारांशः – Summary so far
सुप्तिङन्तं पदम् (१.४.१४)॥ रामः रामौ रामाः पठति खेलति। छन्दः।
दश (Ten) लकाराः - लँट्, लिँट्, लुँट्, लृँट्, लेँट्, लोँट्, लँङ्, लिँङ्, लुँङ्, लृँङ्
Present – वर्तमाने लँट् (३.२.१२३) Future – लृँट् शेषे च (३.३.१३)
स्वतन्त्रः कर्त्ता (१.४.५४) तिङ्समानाधिकरणे प्रथमा, अभिहिते प्रथमा।
कर्तुरीप्सिततमं कर्म (१.४.४९) कर्मणि द्वितीया (२.३.२) (अनभिहिते)।
साधकतमं करणम् (१.४.४२) कर्तृकरणयोस्तृतीया (२.३.१८)। कर्मणा यमभिप्रैतिः स सम्प्रदानम् (१.४.३२) चतुर्थी सम्प्रदाने (२.३.१३) ध्रुवमपायेऽपादानम् (१.४.२४) अपादाने पञ्चमी (२.३.२८) वृक्षात् पतति। षष्ठी शेषे (२.३.५०) रामस्य गृहम्। आधारोऽधिकरणम् (१.४.४५) सप्तम्यधिकरणे च (२.३.३६) कटे आस्ते। अकः सवर्णे दीर्घः (६.१.१०१) इको यण् अचि (६.१.७७) एचोऽयवायावः (६.१.७८)
पठँ व्यक्तायां वाचि भ्वादिः परस्मैपदी सकर्मकः सेट् (to read)
| एक॰ | द्वि॰ | ब॰ |
प्र॰ | शप् तिप् | शप् तस् | शप् झि |
म॰ | शप् सिप् | शप् थस् | शप् थ |
उ॰ | शप् मिप् | शप् वस् | शप् मस् |
लृट् | एक॰ | द्वि॰ | ब॰ |
प्र॰ | पठिष्यति | पठिष्यतः | पठिष्यन्ति |
म॰ | पठिष्यसि | पठिष्यथः | पठिष्यथ |
उ॰ | पठिष्यामि | पठिष्यावः | पठिष्यामः |
लोट् | एक॰ | द्वि॰ | ब॰ |
प्र॰ | पठतु | पठताम् | पठन्तु |
म॰ | पठ | पठतम् | पठत |
उ॰ | पठानि | पठाव | पठाम |
लङ् | एक॰ | द्वि॰ | ब॰ |
प्र॰ | अपठत् | अपठताम् | अपठन् |
म॰ | अपठः | अपठतम् | अपठत |
उ॰ | अपठम् | अपठाव | अपठाम |
लिङ् | एक॰ | द्वि॰ | ब॰ |
प्र॰ | पठेत् | पठेताम् | पठेयुः |
म॰ | पठेः | पठेतम् | पठेत |
उ॰ | पठेयम् | पठेव | पठेम |
लट् | एक॰ | द्वि॰ | ब॰ |
प्र॰ | पठति | पठतः | पठन्ति |
म॰ | पठसि | पठथः | पठथ |
उ॰ | पठामि | पठावः | पठामः |
षेवृँ सेवने भ्वादिः आत्मनेपदी सकर्मकः सेट् (to serve)
| एक॰ | द्वि॰ | ब॰ |
प्र॰ | शप् त | शप् आताम् | शप् झ |
म॰ | शप् थास् | शप् आथाम् | शप् ध्वम् |
उ॰ | शप् इट् | शप् वहि | शप् महिङ् |
लृट् | एक॰ | द्वि॰ | ब॰ |
प्र॰ | सेविष्यते | सेविष्येते | सेविष्यन्ते |
म॰ | सेविष्यसे | सेविष्येथे | सेविष्यध्वे |
उ॰ | सेविष्ये | सेविष्यावहे | सेविष्यामहे |
लोट् | एक॰ | द्वि॰ | ब॰ |
प्र॰ | सेवताम् | सेवेताम् | सेवन्ताम् |
म॰ | सेवस्व | सेवेथाम् | सेवध्वम् |
उ॰ | सेवै | सेवावहै | सेवामहै |
लङ् | एक॰ | द्वि॰ | ब॰ |
प्र॰ | असेवत | असेवेताम् | असेवन्त |
म॰ | असेवथाः | असेवेथाम् | असेवध्वम् |
उ॰ | असेवे | असेवावहि | असेवामहि |
लिङ् | एक॰ | द्वि॰ | ब॰ |
प्र॰ | सेवेत | सेवेयाताम् | सेवेरन् |
म॰ | सेवेथाः | सेवेयाथाम् | सेवेध्वम् |
उ॰ | सेवेय | सेवेवहि | सेवेमहि |
लट् | एक॰ | द्वि॰ | ब॰ |
प्र॰ | सेवते | सेवेते | सेवन्ते |
म॰ | सेवसे | सेवेथे | सेवध्वे |
उ॰ | सेवे | सेवावहे | सेवामहे |
गायत्रीमन्त्रः
संहिता
तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो नः॑ प्रचो॒दया॑त् ॥
पदपाठः
तत् । स॒वि॒तुः । वरे॑ण्यम् । भर्गः॑ । दे॒वस्य॑ । धी॒म॒हि॒ ।
धियः॑ । यः । नः॒ । प्र॒ऽचो॒दया॑त् ॥
तत् (२.१), सवितुः (सवितृ ६.१), वरेण्यम् (२.१), भर्गस् (२.१), देवस्य (६.१), धीमहि (धीङ् आधारे आदाने अनादरे च लिङ्॰ उ॰ बहु॰), धियः (२.२), यः (१.१), नः (अस्मत् ६.३), प्रचोदयात् (लेट्)
https://oursanskrit.com/2018/06/26/lesson-43-vedic-sanskrit-accents-1/
6
गायत्रीमन्त्रः – सायणभाष्यम्
यः सविता देवो नोऽस्माकं धियः कर्माणि धर्मादिविषया वा बुद्धिः प्रचोदयात् प्रेरयेत् तत्तस्य देवस्य सवितुः सर्वान्तर्यामितया प्रेरकस्य जगत्स्रष्टुः परमेश्वरस्य वरेण्यं सर्वैरुपास्यतया ज्ञेयतया च सम्भजनीयं भर्गोऽविद्यातत्कार्ययोर्भजनाद्भर्गः स्वयंज्योतिः परब्रह्मात्मकं तेजो धीमहि। वयं ध्यायामः। यद्वा। तदिति भर्गोविशेषणं। सवितुर्देवस्य तत्तादृशं भर्गो धीमहि। किं तदित्यपेक्षायामाह। य इति लिङ्गव्यत्ययः। यद्भर्गोधियः प्रचोदयात्। तद्द्यायेमेति समन्वयः। यद्वा। यः सविता सूर्यो धियः कर्माणि प्रचोदयात् प्रेरयति तस्य सवितुः सर्वस्य प्रसवितुर्देवस्य द्योतमानस्य सूर्यस्य तत्सर्वैर्दृश्यमानतया प्रसिद्धं वरेण्यं सर्वैः सम्भजनीयं भर्गः पापानां तापकं तेजोमण्डलं धीमहि। ध्येयतया मनसा धारयेम। यद्वा।भर्गः शब्देनान्नमभिधीयते।
7
गायत्रीमन्त्रः – सायणभाष्यम्
यः सविता देवो धियः प्रचोदयति तस्य प्रसादाद्भर्गोऽन्नादिलक्षणं फलं धीमहि। धारयामः। तस्याधारभूता भवेमेत्यर्थः। भर्गः शब्दस्यान्नपरत्वे धीशब्दस्य कर्मपरत्वे चाथर्वनम्। वेदांश्छन्दांसि सवितुर्वरेण्यं भर्गो देवस्य कवयोऽन्नमाहुः कर्मणि धियस्तदु ते प्रब्रवीमि प्रचोदयंत्सविता याभिरेतिति। तो. ब्रा. १-३२। भर्गः। भ्रस्ज पाके। असुन्। भ्रस्जो रोपधयो रमन्यतरस्यां।(भ्रस्जो रोपधयोः रमन्यतरस्याम् (६-४-४७))। इति रोपधयोर्लोपो रमागमः। न्यंक्वादिपाठात् कुत्वं। धीमहि। ध्यायतेर्लिङि बहुलं छन्दसीति संप्रसारणम्। व्यत्ययेनात्मने पदम्। यद्वा। धीङ् आधारे। लिङि बहुलं छन्दसीति विकरणस्य लुक्। प्रचोदयात्। चोदयतेर्लेट्याडागमः। यद्वृत्तयोगादनिघातः। आगमस्यानुदात्तत्वे णिचः स्वरः॥१० ॥
8
भूर्भुवः सुवः - तैत्तिरीयोपनिषत्
भूर्भुवः सुवरिति वा एतास्तिस्रो व्याहृतयः । तासामु ह स्मैतां चतुर्थीम् । माहाचमस्यः प्रवेदयते । मह इति । तद्ब्रह्म । स आत्मा । अङ्गान्यन्या देवताः । भूरिति वा अयं लोकः । भुव इत्यन्तरिक्षम् । सुवरित्यसौ लोकः॥ १ ॥
मह इत्यादित्यः । आदित्येन वाव सर्वे लोका महीयन्ते । भूरिति वा अग्निः । भुव इति वायुः । सुवरित्यादित्यः । मह इति चन्द्रमाः । चन्द्रमसा वाव सर्वाणि ज्योतींषि महीयन्ते । भूरिति वा ऋचः । भुव इति सामानि । सुवरिति यजूंषि॥२॥
मह इति ब्रह्म । ब्रह्मणा वाव सर्वे वेदा महीयन्ते । भूरिति वै प्राणः । भुव इत्यपानः । सुवरिति व्यानः । मह इत्यन्नम् । अन्नेन वाव सर्वे प्राणा महीयन्ते । ता वा एताश्चतस्रश्चतुर्धा । चतस्रश्चतस्रो व्याहृतयः । ता यो वेद । स वेद ब्रह्म । सर्वेऽस्मै देवा बलिमावहन्ति॥ ३ ॥
9
सन्धिप्रकरणम्
देव इन्द्र = देवेन्द्र
नर इन्द्र = नरेन्द्र
पर उपकार = परोपकार
महा उत्सव = महोत्सव
गण ईश = गणेश
नर उत्तम = नरोत्तम
प्रश्न उत्तर = प्रश्नोत्तर
10
अद्य एव = अद्यैव
सदा एव = सदैव
दिव्य ऐश्वर्य = दिव्यैश्वर्य
महा औषध = महौषध �तव ओष्ठ = तवौष्ठ
मम एव = ममैव
दिव्य ऐश्वर्य = दिव्यैश्वर्य
विसर्गसन्धिः
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतम् च यत्। असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह॥गीता १७.२८॥
11
अः + अ = ओऽ
रामः अगच्छत् = रामोऽगच्छत्
अः + आ = अ + आ
रामः आगच्छति = राम आगच्छति
अः + इच् = अ + इच्
रामः उपविशति = राम उपविशति
अः + हश् = ओ + हश्
रामः वदति = रामो वदति
आः + अश् = आ + अश्
देवाः आगच्छति = देवा आगच्छति
विसर्गसन्धिः
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतम् च यत्। असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह॥गीता १७.२८॥
12
इच् + : + अच् = इच् + र् + अच्
इच् + : + झश् = इच् + र् + झश्
अच् + : + च् = अच् + श् + च्
अच् + : + त् = अच् + स् + त्
पाण्डवाश्चैव = पाण्डवाः च एव
दुर्योधनस्तदा = दुर्योधनः तदा
विराटश्च द्रुपदश्च = विराटः च द्रुपदः च
शब्दस्तुमुलोऽभवत् = शब्दः तुमुलः अभवत्
श्वेतैर्हयैर्युक्ते = श्वेतैः हयैः युक्ते
सेनयोरुभयोर्मध्ये = सेनयोः उभयोः मध्ये
विसर्गसन्धिः
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतम् च यत्। असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह॥गीता १७.२८॥
13
इच् + : + अश् = इच् + र् + अश्
अच् + : + ट् = अच् + ष् + ट्
अच् + : + श्/ष्/स् = अच् + श्/ष्/स् + श्/ष्/स्
सः/एषः + हल् = स/एष + हल्
श्वेतैर्हयैर्युक्ते = श्वेतैः हयैः युक्ते
गोपालः टङ्कयति = गोपालष्टङ्कयति
अलसाः स्वपन्ति = अलसास्स्वपन्ति
अलसाः शेरते = अलसाश्शेरते
पुरुषाः षट् = पुरुषाष्षट्
सः पठति = स पठति, एषः कः = एष क।
मति – इकारान्त स्त्रीलिङ्गः (Mind)
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतम् च यत्। असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह॥गीता १७.२८॥
| एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमा | मतिः | मती | मतयः |
द्वितीया | मतिम् | मती | मतीः |
तृतीया | मत्या | मतिभ्याम् | मतिभिः |
चतुर्थी | मतये, मत्यै | मतिभ्याम् | मतिभ्यः |
पञ्चमी | मतेः, मत्याः | मतिभ्याम् | मतिभ्यः |
षष्ठी | मतेः, मत्याः | मत्योः | मतीनाम् |
सप्तमी | मतौ, मत्याम् | मत्योः | मतिषु |
सम्बोधनम् | हे मते | हे मती | हे मतयः |
गृहकार्यम् – २८.१०.२०२१
इमं श्लोकं स्मृतिं करोतु –
जाड्यं धियो हरति सिञ्चति वाचि सत्यं
मानोन्नतिं दिशति पापमपाकरोति।
चेतः प्रसादयति दिक्षु तनोति कीर्तिं
सत्सङ्गतिः कथय किं न करोति पुंसाम्॥
15