1 of 20

॥श्री:॥�केन्बरासंस्कृतवर्गः�२०.०७.२०२२�महाकविभासप्रणीतं स्वप्नवासवदत्तम्

1

2 of 20

॥ स्वप्नवासवदत्तम् ततः इति॥

ब्रह्मचारी – ततस्तस्मिन् मृगयानिष्क्रान्ते राजनि ग्रामदाहेन सा दग्धा।

वासवदत्ता – (आत्मगतम्) अलीकमलीकं खल्वेतत्। जीवामि मन्दभागा।

यौगन्धरायणः – ततस्ततः?

ब्रह्मचारी – ततस्तामभ्यवपत्तुकामो यौगन्धरायणो नाम सचिवस्तस्मिन्नेवाग्नौ पतितः। अभ्यवपत्तुकामः परिरक्षितुकामः।

यौगन्धरायणः – सत्यं पतति इति। ततस्ततः?

ब्रह्मचारी – ततः प्रतिनिवृत्तो राजा तद्वृत्तान्तं श्रुत्वा तयोर्वियोगजनितसंतापस्तस्मिन्नेवाग्नौ प्राणान् परित्यक्तुकामोऽमात्यैर्महता यत्नेन वारितः।

3 of 20

वासवदत्ता - (आत्मगतम्) जानामि जानाम्यार्यपुत्रस्य मयि सानुक्रोशत्वम् ।

यौगन्धरायणः - ततस्ततः । (सानुक्रोशत्वम् अनुकम्पा तया सहितः। )

ब्रह्मचारी - ततस्तस्याः शरीरोपभुक्तानि दग्धशेषाण्याभरणानि परिष्वज्य राजा मोहमुपगतः ।

सर्वे - हा ।

वासवदत्ता - (स्वगतम्) सकाम इदानीमार्ययौगान्धरायणो भवतु।

चेटी - भर्तृदारिके! रोदिति खल्वियमार्या ।

पद्मावती - सानुक्रोशया भवितव्यम्।

यौगन्धरायणः - अथ किमथ किम्। प्रकृत्या सानुक्रोशा मे भगिनी। ततस्ततः।

4 of 20

ब्रह्मचारी - ततः शनैः प्रतिलब्धसंज्ञः संवृत्तः ।

पद्मावती - दिष्ट्या ध्रियते । मोहं गत इति श्रुत्वा शून्यमिव मे हृदयम्।

यौगन्धरायण: - ततस्ततः । (ध्रियते अवतिष्ठते धृङ् अवस्थाने तुदादिः)

ब्रह्मचारी - ततः स राजा महीतलपरिसर्पणपांसुपाटलशरीरः सहसोत्थाय हा वासवदत्ते ! हा अवन्तिराजपुत्रि! हा प्रिये! हा प्रियशिष्ये! इति किमपि बहु प्रलपितवान् । कि बहुना,

नैवेदानीं तादृशाश्चक्रवाका

नैवाप्यन्ये स्त्रीविशेषैर्वियुक्ताः ।

धन्या सा स्त्री यां तथा वेत्ति भर्ता

भर्तृस्नेहात् सा हि दग्धाप्यदग्धा॥१३॥

5 of 20

यौगन्धरायणः - अथ भोः ! तं तु पर्यवस्थापयितुं न कश्चिद्यत्नवानमात्यः।

ब्रह्मचारी - अस्ति रुमण्वान्नामामात्यो दृढं प्रयत्नवांस्तत्रभवन्तं पर्यवस्थापयितुम्। स हि, (पर्यवस्थापयितुं प्रकृतौ स्थापयितुम्)

अनाहारे तुल्य: प्रततरुदितक्षामवदनः

शरीरे संस्कारं नृपतिसमदुःखं परिवहन् ।

दिवा वा रात्रौ वा परिचरति यत्नैर्नरपतिं

नृपः प्राणान् सद्यस्त्यजति यदि तस्याप्युपरमः॥१४॥

वासवदत्ता - (स्वगतम्) दिष्ट्या सुनिक्षिप्त इदानीमार्यपुत्रः।

यौगन्धरायणः - (आत्मगतम्) अहो महद्भारमुद्वहति रुमण्वान्। कुतः

6 of 20

सविश्रमो ह्ययं भारः प्रसक्तस्तस्य तु श्रमः ।

तस्मिन् सर्वमधीनं हि यत्राधीनो नराधिपः॥१५॥

(प्रकाशम्) अथ भोः ! पर्यवस्थापित इदानीं स राजा ।

ब्रह्मचारी - तदिदानीं न जाने। इह तया सह हसितम्, इह तया सह कथितम्, इह तया सह पर्युषितम्, इह तया सह कुपितम्, इह तया सह शयितम्, इत्येवं तं विलपन्तं राजानममात्यैर्महता यत्नेन तस्माद् ग्रामाद् गृहीत्वापक्रान्तम्। ततो निष्क्रान्ते राजनि प्रोषितनक्षत्रचन्द्रमिव न भोऽरमणीयः संवृतः स ग्रामः। ततोऽहमपि निर्गतोऽस्मि।

तापसी - स खलु गुणवान् नाम राजा य आगन्तुकेनाप्यनेनैवं प्रशस्यते ।

चेटी - भर्तृंदारिके ! किं नु खल्वपरा स्त्री तस्य हस्तं गमिष्यति ।

पद्मावती - (आत्मगतम्) मम हृदयेनैव सह मन्त्रितम्।

7 of 20

ब्रह्मचारी - आपृच्छामि भवन्तौ । गच्छामस्तावत् ।�उभौ - गम्यतामर्थसिद्धये ।�ब्रह्मचारी - तथास्तु । (निष्क्रान्तः)�यौगन्धरायण: - साधु, अहमपि तत्रभवत्याभ्यनुज्ञातो गन्तुमिच्छामि ।�काञ्चुकीयः - तत्रभवत्याभ्यनुज्ञातो गन्तुमिच्छति किल ।�पद्मावती - आर्यस्य भगिनी आर्येण विनोत्कण्ठिष्यते।�यौगन्धरायणः - साधुजनहस्तगतैषा नोत्कण्ठिष्यति । (काञ्चुकीयमवलोक्य) गच्छामस्तावत् ।�काञ्चुकीय: - गच्छतु भवान् पुनर्दर्शनाय ।�यौगन्धरायणः - तथास्तु । (निष्क्रान्तः)�काञ्चुकीयः - समय इदानीमभ्यन्तरं प्रवेष्टुम् ।

8 of 20

पद्मावती - आर्ये! वन्दे ।�तापसी - जाते! तव सदृशं भर्तारं लभस्व।�वासवदत्ता - आर्ये ! वन्दे तावदहम्।

तापसी - त्वमप्यचिरेण भर्तारं समासादय।�वासवदत्ता - अनुगृहीतास्मि।�काञ्चुकीय: - तदागम्यताम्। इत इतो भवति ! संप्रति हि – खगा वासोपेता: सलिलमवगाढो मुनिजनः� प्रदीप्तोऽग्निर्भाति प्रविचरति धूमो मुनिवनम्।�परिभ्रष्टो दूराद्रविरपि च संक्षिप्तकिरणो� रथं व्यावर्त्यासौ प्रविशति शनैरस्तशिखरम्॥१६॥�(निष्क्रान्ताः सर्वे) इति प्रथमोऽङ्कः।

9 of 20

॥गृहकार्यम् ०४-०५-२०२२॥

अधो लिखितः प्रत्येकं धातुः अद्यतनस्य पाठस्य केषु केषु शब्देषु अस्ति इति लिखतु।

टुनदिँ समृद्धौ, विश् प्रवेशने, डुधाञ् धारणपोषणयोः, उत् इण् गतौ, षुञ् अभिषवे, बलँ प्राणने, तॄ प्लवनतरणयोः, पूरीँ आप्यायने, कमुँ कान्तौ, भुजोँ कौटिल्ये, पा रक्षणे, ज्ञा अवबोधने, श्रु श्रवणे, सृ गतौ, डुभृञ् धारणपोषणयोः, ष्णिहँ प्रीतौ, धृषँ प्रसहने, धृष् ञिधृषाँ प्रागल्भ्ये स्वादिः,  गमॢँ गतौ, तपँ सन्तापे, जनीँ प्रादुर्भावे।

10 of 20

॥११-०५-२०२२॥

व्रजँ गतौ, विषॢँ व्याप्तौ, धृञ् धारणे, डुदाञ् दाने, धीङ् आधारे आदाने अनादरे च, श्रमुँ तपसि खेदे च, श्रिञ् सेवायाम्, वसँ निवासे, तुषँ प्रीतौ, वनँ सम्भक्तौ, फलँ निष्पत्तौ, मा माने, मनुँ अवबोधने, अर्हँ पूजायाम्, जनीँ प्रादुर्भावे, वलँ संवरणे सञ्चरणे च, त्रसीँ उद्वेगे, पदँ गतौ, षिचँ क्षरणे, णीञ् प्रापणे, इण् गतौ, भजँ सेवायाम् भ्वादिः, भजँ विश्राणने चुरादिः, चलँ कम्पने, ष्मिङ् ईषद्धसने, भृ डुभृञ् धारणपोषणयोः

11 of 20

॥१८-०५-२०२२॥

12 of 20

॥२५-०५-२०२२॥

13 of 20

॥०१-०६-२०२२॥

14 of 20

॥१५-०६-२०२२॥

15 of 20

॥२२-०६-२०२२॥

16 of 20

॥०६-०७-२०२२॥

17 of 20

॥०६-०७-२०२२॥

स्रम्भ् विश्वासे, स्रम्भ् प्रमादे, चर् गतौ भक्षणे च, चकँ तृप्तौ प्रतीघाते च भ्वादिः, आत्मनेपदी, कुलँ संस्त्याने बन्धुषु च भ्वादिः, क्षि निवासगत्योः, दिह् उपचये, रुध् कामे दिवादिः, रुध् आवरणे, लोक् दर्शने भ्वादिः, लोक् भाषायां चुरादिः, दुष् वैकृत्यै दिवादिः, धृञ् धारणे, चमुँ अदने भ्वादिः, शिष् विशेषणे, सो अन्तकर्मणि, दॄ भये, दॄ विदारणे, दह् भस्मीकरणे, वॄ वॄञ् वरणे क्र्यादिः।

18 of 20

॥१३-०७-२०२२॥

स्रम्भ् विश्वासे, स्रम्भ् प्रमादे, चर् गतौ भक्षणे च, चकँ तृप्तौ प्रतीघाते च भ्वादिः, आत्मनेपदी, कुलँ संस्त्याने बन्धुषु च भ्वादिः, क्षि निवासगत्योः, दिह् उपचये, रुध् कामे दिवादिः, रुध् आवरणे, लोक् दर्शने भ्वादिः, लोक् भाषायां चुरादिः, दुष् वैकृत्यै दिवादिः, धृञ् धारणे, चमुँ अदने भ्वादिः, शिष् विशेषणे, सो अन्तकर्मणि, दॄ भये, दॄ विदारणे, दह् भस्मीकरणे, वॄ वॄञ् वरणे क्र्यादिः।

19 of 20

॥१३-०७-२०२२॥

रुध् कामे रुध् आवरणे, पा रक्षणे, अस् क्षेपणे, अस् भुवि, ग्रह् उपादाने, वृत् वर्तने, वस् निवासे, कॄत् कॄतँ संशब्दने चुरादिः, विद् ज्ञाने, दॄ भये, दॄ विदारणे, यत् प्रयत्ने, क्रुश् आह्वाने रोदने च, भुजँ पालनाभ्यवहारयोः रुधादिः, मुहँ वैचित्त्ये दिवादिः, रुद् अश्रुविमोचने, लभ् प्राप्तौ, धृङ् अवस्थाने, लप् व्यक्तायां वाचि, शिष् विशेषणे, ष्णिहँ प्रीतौ, ष्णिहँ स्नेहने, हृ हरणे, क्षै क्षये, वह् प्रापणे, रमुँ क्रीडायाम्, क्षिप् प्रेरणे, सञ्ज् सङ्गे, शंस् स्तुतौ।

20 of 20

॥२०-०७-२०२२॥

प्रच्छ् प्रछँ ज्ञीप्सायाम्, सिध् संराद्धौ, कण्ठ् कठिँ शोके चुरादिः, लभ् डुलभँष् प्राप्तौ भ्वादिः, सद् षदॢँ विशरणगत्यवसादनेषु भ्वादिः, गाह् विलोडने, भा दीप्तौ, भ्रंश् भ्रन्शुँ अवस्रंसने, वृत् वर्तने।