1 of 11

�श्रीः योगिनां केन्बरासंस्कृतवर्गः�१६.०६.२०२२�यजुर्वेदः अध्यायः ३ मन्त्रः ६ आयं गौः पृश्नि॑रक्रमी॒दस॑दन्मा॒तरं॑ पु॒रः ।�पि॒तरं॑ च प्र॒यन्त्स्वः॑॥३.६॥�मण्डलम् १०, सूक्तम् १८९, ऋक् १

1

2 of 11

आयं गौः पृश्नि॑रक्रमी॒दस॑दन्मा॒तरं॑ पु॒रः । पि॒तरं॑ च प्र॒यन्त्स्वः॑॥३.६पदार्थः - (आ) अभ्यर्थे (अयम्) प्रत्यक्षः (गौः) यो गच्छति स भूगोलः। गौरिति पृथिवीनामसु पठितम्। (निघं॰१.१) गौरिति पृथिव्या नामधेयम्। यद् दूरं गता भवति। यच्चास्यां भूतानि गच्छन्ति (निरु॰२.५) (पृश्निः) अन्तरिक्षे। अत्र सुपां सुलुग्॰ [अष्टा॰७.१.३९] इति सप्तम्येकवचने प्रथमैकवचनम्। पृश्निरिति साधारणनामसु पठितम्। (निघं॰१.४) (अक्रमीत्) क्राम्यति, अत्र लडर्थे लुङ्। (असदत्) स्वकक्ष्यायां भ्रमति। अत्रापि लडर्थे लुङ् (मातरम्) स्वयोनिमपः। जलनिमित्तेन पृथिव्युत्पत्तेः (पुरः) पूर्वं पूर्वम् (पितरम्) पालकम् (प्रयन्) प्रकृष्टतया गच्छन् (स्वः) आदित्यम्। स्वरादित्यो भवति। (निरु॰२.१४)। अयं मन्त्रः (शत॰२.१.४.२९ निगदव्याख्यातः॥६॥

2

3 of 11

आयं गौः पृश्नि॑रक्रमी॒दस॑दन्मा॒तरं॑ पु॒रः । पि॒तरं॑ च प्र॒यन्त्स्वः॑॥३.६भावार्थः - मनुष्यैर्यस्माज्जलाग्निनिमित्तोत्पन्नोऽयं भूगोलोऽन्तरिक्षे स्वकक्ष्यायामाकर्षणेन रक्षकस्य सूर्यस्याभितः प्रतिक्षणं भ्रमति, तस्मादहोरात्रशुक्लकृष्णपक्षर्त्वयनादीनि कालविभागाः क्रमशः सम्भवन्तीति वेद्यम्॥६॥

3

4 of 11

आयं गौः पृश्नि॑रक्रमी॒दस॑दन्मा॒तरं॑ पु॒रः । पि॒तरं॑ च प्र॒यन्त्स्वः॑॥३.६उ० आयं गौः पृश्निः । सार्पराज्ञ्य आर्षम् । गायत्रस्तृचः आहवनीयाग्न्युपस्थाने विनियुक्तः। अग्निः परापररूपेण स्तूयते। आयं गौः पृश्निरक्रमीत् । आक्रमीत् आक्रमते ऐश्वर्यरूपेणायमग्निः गौः गन्ता। सर्वासु तासु तासु क्रियासु पृश्निर्नानारूपः असदन्मातरं पुरः इमं लोकमग्निरूपेणानुगृह्य ततः प्रातरादित्यात्मना सीदति मातरं पृथिवीं पुरः पुरस्तात्प्राच्यां दिशि । किंच पितरं च प्रयन्त्स्वः पितरं द्युलोकं च प्रयन् गच्छन् सीदतीत्यनुवर्तते । स्वः स्वर्गे आदित्यः॥ ६ ॥

4

5 of 11

आयं गौः पृश्नि॑रक्रमी॒दस॑दन्मा॒तरं॑ पु॒रः । पि॒तरं॑ च प्र॒यन्त्स्वः॑॥३.६म० 'आयं गौरिति चोपतिष्ठते सार्पराज्ञीभिर्दक्षिणाग्निमादधातीति' (का० ४ । ९ । १८-१९) । आयं गौरित्यादीनां तिसृणामृचां सार्पराज्ञीति नामधेयम्। सर्पराज्ञी कद्रूः पृथिव्यभिमानिनी। तया दृष्टत्वात् ताभिः ऋग्भिः हवनीयमुपतिष्ठते। ततो दक्षिणाग्निमादध्यादिति सूत्रार्थः। गायत्रस्तृचः। अग्निः परावररूपेण स्तूयते। अयं दृश्यमानोऽग्निः आ अक्रमीत् सर्वत आहवनीयगार्हपत्यदक्षिणाग्निस्थानेषु सर्वतः क्रमणं पादविक्षेपं कृतवान्। किंभूतोऽग्निः। गच्छतीति गौः यज्ञनिष्पत्तये तत्तद्यजमानगृहेषु गन्ता। 'गमेर्डोप्रत्ययः' (उ० २ । ६६)। तथा पृश्निः चित्रवर्णः। लोहितशुक्लादिबहुविधज्वालोपेतः।

5

6 of 11

आयं गौः पृश्नि॑रक्रमी॒दस॑दन्मा॒तरं॑ पु॒रः । पि॒तरं॑ च प्र॒यन्त्स्वः॑॥३.६आक्रमणमेवाह । पुरः प्राच्यां दिशि मातरं पृथिवीमसदत् आसीदत् आहवनीयरूपेण प्राप्तवान् । तथा स्वः प्रयन् आदित्यरूपेण स्वर्गे संचरन् पितरं च द्युलोकमपि असदत्प्राप्तवान् । स्वःशब्देन सूर्यः (निघ० १ । ४ । १)। द्युलोकभूलोकयोर्मातापितृत्वमन्यत्रापि श्रूयते । 'द्यौः पिता पृथिवी माता' इति ॥ ६ ॥

6

7 of 11

आयं गौः पृश्नि॑रक्रमी॒दस॑दन्मा॒तरं॑ पु॒रः। पि॒तरं॑ च प्र॒यन्त्स्व॑:॥

आ । अ॒यम् । गौः । पृश्निः॑ । अ॒क्र॒मी॒त् । अस॑दत् । मा॒तर॑म् । पु॒रः । पि॒तर॑म् । च॒ । प्र॒ऽयन् । स्व१रिति॑ स्वः॑ ॥

सायणभाष्यम्आयं गौरिति तृचमष्टात्रिंशं सूक्तं गायत्रम्। सार्पराज्ञी नामर्षिका। सैव देवता सूर्यो वेति। तथा चानुक्रान्तम्। आयं गौः सार्पराज्ञ्यात्मदैवतं सौर्यं वेति। अविवाक्येऽहनि मानसग्रह एतत्सूक्तं शम्सनीयम्। सूत्रितं च। आयं गौः पृश्निरक्रमीदित्युपांशु तिस्रः पराचीः शस्त्वा। आ. ८-१३। इति॥

7

8 of 11

आयं गौः पृश्नि॑रक्रमी॒दस॑दन्मा॒तरं॑ पु॒रः ।�पि॒तरं॑ च प्र॒यन्त्स्व॑: ॥

गौर्गमनशीलः पृश्निः प्राष्टवर्णः प्राप्ततेजसा अयं सूर्य आक्रमीत्। अक्रान्तवान्। उदयाचलं प्राप्तवानित्यर्थः। आक्रम्य च पुरः पुरस्तात्पूर्वस्यां दिशि मातरं सर्वभूतजातस्य निर्मात्रीं पृथिवीमसदत्। आसीदति। प्राप्नोति। सदेश्छान्दसो लुङ्। लृदित्त्वाच्च्लेरङादेशः। ततः पितरं पालकं द्युलोकम्। चशब्दादन्तरिक्षं च प्रयन् प्रकर्षेन शीघ्रं गच्छन् स्वः स्वरणः शोभनगमनो भवति। यद्वा। पितरं स्वर्गलोकं प्रयन्वर्तते॥१॥

8

9 of 11

भूर्भुवः॒ स्वर्द्यौरि॑व भू॒म्ना पृ॑थि॒वीव॑ वरि॒म्णा। तस्या॑स्ते पृथिवि देवयजनि पृ॒ष्ठेऽग्निम॑न्ना॒दम॒न्नाद्या॒याद॑धे॥३.५उ० भूर्भुवःस्वः। महाव्याहृतयः। प्रजापतेरार्षम्। गार्हपत्याहवनीययो: धानमन्त्राः। पृथिव्यन्तरिक्षद्युलोका अभिधेयाः, ब्रह्मक्षत्रविशो वा वर्णाः, अन्नप्रजापशवो वा। श्रुतितो व्याख्यातमेतत्। इध्मपूर्वार्धं गृहीत्वा यजमानो जपति। द्यौरिव भूम्ना। उपरिष्टात् आरभ्य एतद् यजुर्व्याख्येयं तथाहि सुबोधं भवति। तस्याः ते तव हे पृथिवि देवयजनि देवा यस्यामिज्यन्ते इति देवयजनी तस्याः संबोधनं क्रियते। हे देवयजनि, ते पृष्ठे उपरि। अग्निमन्नादम् अन्नस्यात्तारम्। अन्नाद्याय अन्नादनाय अन्नभक्षणाय। आदधे स्थापयामि। तस्याः पृथिव्याः पृष्ठेऽग्निमाधाय। द्यौरिव भूम्ना। यथा द्यौर्भूम्ना नक्षत्रबहुत्वेन बह्वी एवं पुत्रादिभिर्बहुभिर्भूयासम्। पृथिवीव वरिम्णा। यथा पृथिवी वरिम्णा उरुत्वेन सता सर्वप्राणिनामाश्रयभूता एवमहं महत्त्वेन सता सर्वप्राणिनामाश्रयभूतो भूयासम्। अथवा यथाक्रममेव व्याख्यायते। द्यौरिव भूम्ना भूयासम् पृथिवीव वरिम्णा भूयासम्। हे अग्ने, त्वत्प्रसादात्। पृथिव्युच्यते। तस्याः ते तव पृथिवि देवयजनि, पृष्ठे उपरि अग्निमन्नादमन्नभक्षणाय आदधे। यस्यास्तव मन्वादयोऽपि अन्नाद्याय संवृताः संजाताः॥३.५

9

10 of 11

भूर्भुवः॒ स्वर्द्यौरि॑व भू॒म्ना पृ॑थि॒वीव॑ वरि॒म्णा।

तस्या॑स्ते पृथिवि देवयजनि पृ॒ष्ठेऽग्निम॑न्ना॒दम॒न्नाद्या॒याद॑धे॥३.५म० 'दारुभिर्ज्वलन्तमादधाति भूर्भुव इति संभारेषु' (का० ४।९।१) इति । भूर्भुवःस्वरिति पूर्ववदिति च' (४।९।१६) अस्यार्थः । आपो हिरण्यमूषाखूत्करः शर्करेति पञ्च संभारान्संपाद्य स्फ्येनोल्लिखितायां शुद्धायां भूमौ तान्संभारानवस्थाप्य तेषु शुष्ककाष्ठैर्ज्वलन्तमग्निं भूर्भुवःस्वरिति पञ्चाक्षराण्युच्चारयन्नादध्यात्। इदमाहवनीयाधानम्। एवमष्टाक्षरत्वादग्नेर्गायत्रत्वं श्रुत्योक्तम्। गायत्रीसहितस्याग्नेः प्रजापतिमुखादुत्पन्नत्वात्। अथ मन्त्रार्थः। एतेष्वाधानमन्त्रेषु भूरिति प्रथमा व्याहृतिः। भुव इति द्वितीया। स्वः इति तृतीया। एतास्तिस्रो व्याहृतयः पृथिव्यादिलोकत्रयनामानि। एतदुच्चारणपूर्वकं प्रजापतिना लोकत्रयस्य सृष्टत्वात्। अत एवाभिः स्थापयन् लोकत्रयमनेन स्मरेत्। एतासां व्याहृतीनां महिमा भूयादिति। भूर्भुवःस्वःशब्देन ब्रह्मक्षत्रविशो वा आत्मप्रजापशवो वा। सर्वे मद्वशगा भूयासुरिति प्रार्थयन् अग्नीन् आदध्यात् इत्यर्थः

10

11 of 11

स॒मिधा॒ग्निं दु॑वस्यत घृ॒तैर्बो॑धय॒ताति॑थिम्। आस्मि॑न् ह॒व्या जु॑होतन॥३.१

सुस॑मिद्धाय शो॒चिषे॑ घृ॒तं ती॒व्रं जु॑होतन। अ॒ग्नये॑ जा॒तवे॑दसे॥३.२

तं त्वा॑ स॒मिद्भि॑रङ्गिरो घृ॒तेन॑ वर्द्धयामसि। बृ॒हच्छो॑चा यविष्ठ्य॥३.३

उप॑ त्वाग्ने ह॒विष्म॑तीर्घृ॒ताची॑र्यन्तु हर्यत। जु॒षस्व॑ स॒मिधो॒ मम॑॥३.४

भूर्भुवः॒ स्वर्द्यौरि॑व भू॒म्ना पृ॑थि॒वीव॑ वरि॒म्णा। तस्या॑स्ते पृथिवि देवयजनि पृ॒ष्ठेऽग्निम॑न्ना॒दम॒न्नाद्या॒याद॑धे॥३.५

11