1 of 12

समासप्रकरणम्

केवलसमास:

तत्पुरुषादिसंज्ञाविनिर्मुक्तः समाससंज्ञामात्रयुक्तः केवलसमास। अर्थात् यस्य समासस्य् नास्ति नाम कश्चित् सः समासः केवलसमासः इति अभिधीयते।

समासशव्दस्य अर्थः - संक्षेपः( समसनं समासः)

समासः द्विधा -

१. केवलसमसः।

२. विशेषसमसः।

2 of 12

विशेषसमासः

अव्ययीभावः समासः

विशेषसमासः चतुर्धा-

१. अव्ययीभावसमासः।

२. तत्पुरुषसमासः

३. बहुब्रीहिसमासः।

४.द्वन्द्वसमास:।

तत्पुरुषभेदः कर्मधारयसमासः, कर्मधारयभेदः दिगुसमासः

3 of 12

अव्ययीभावः समासः

अव्ययीभावः समासः- पूर्वपदार्थप्रधानः अव्ययीभावः।

यस्मिन् पूर्वपदस्य प्राधान्यं भवति सः अव्ययीभावसमासः इति अभिधीयते। अत्र एकः इतोपि अवधेयः। अव्ययीभावे प्रायः पूर्वपदस्य अर्थः प्रधानं भवति।यथा उपगंगम्। अत्र पूर्वपद उप इत्यस्य् प्राधान्यमेव। पुनश्च उप एकः अव्ययमपि अस्ति

नानार्थे अव्ययीभावसमासस्य उदाहरणम्-

१. सामीप्यार्थे(उप)- नद्याः समीपम्- उपनदि/उपनद्यम्

२. समृद्धि-अर्थे)- मद्राणाम् समृद्धिः- सुमद्रम्।विप्राणां समृद्धिः- सुविप्रम्।

३. अभावार्थे(निः, निर)- जलस्य अभावः- निर्जलम्, आमिषस्य अभावः- निरामिषः

३. वृद्धिःअर्थे- यवनानां वृद्धिः- दुर्यवनम्,

४. सादृश्यार्थे-हरेः सादृस्यम्- सहरि, विष्णोसादृशम्- सविष्णु।

4 of 12

अव्ययीभावसमासः

५. अत्ययार्थे- शीतस्य अत्ययः-अतिशितम्, धनस्य अत्ययः- अतिधनम्

६. प्रादुर्भावार्थे-हरि शव्दस्य पादुर्भावः- इतिहरिः

७. विप्सार्थे- ग्रामं ग्रामं- प्रतिग्रामम्, दिनं दिनं- प्रतिदिनम्।

८- योग्यतार्थे- रुपस्य योग्यम्- अनुरुपम्।कुलस्य योग्यम्- अनुकुलम्।

९. पश्चात् अर्थे- विष्णो पश्चात्- अनुविष्णु, हरे पश्चात्- अनुहरि।

१०. अनतिक्रम्यतार्थे-शक्तिम् अनतिक्रम्य- यथाशक्ति, उचितम् अनतिक्रम्य- यथोचितम्।

११. अनुपूर्वाथे- ज्येष्ठस्यानुपूवेर्ण- अनुज्येष्ठम्

१२. यौगपदार्थे- चक्रेण् युगपद- सचक्रम्, परिवारेण् युगपद- सपरिवारम्

१३. सम्पत्तिः अर्थे- क्षत्राणाम् सम्पत्ति- सक्षत्रम्,

१४. साकल्यार्थे- तृणामपि परित्यज्य- सतृणम्। पत्रम्अपि परित्यज्य- सपत्रम्

5 of 12

तत्पुरुषसमासः

द्वितीया तत्पुरुष्-

शरणम्-आगत- शरणागत, सुखं प्राप्त- सुखप्राप्त।

व्यधिकरणतत्पुरुषः

समानाधिकरणतत्पुरुष

द्विगुसमासः

विभक्ति तत्पुरुष

नञ तत्पुरुष

उत्तरपदार्थप्रधानः तत्पुरुषः

6 of 12

तत्पुरुषसमासः

तृतीय तत्पुरुषः-

धनेन हीन्- धनहीनः, शरेण विद्धः> शरविद्ध, अग्निना दग्धः>अग्निदग्धः

चतुर्थी तत्पुरुषः-

भुतय बलि- भुतबलि, युपाय दारु- युपदारु, तस्मै इदम्- तदर्थम्

पञ्चमी तत्पुरुष-

चौरत् भयम्- चौरभयम्, रोगात् मुक्तः-रोगमुक्तः, अश्वात् पतितः- अश्वपतितः

षष्ठीतत्पुरुषः-

देवानां पति- देवपति, देवस्य पूजा- देवपूजा, नराणां पति- नरपति

सप्तमी तत्पुरुषः-

युद्धे निपुणः- युद्धे निपुणः- युद्धनिपुणः, जले मग्नः- जलमग्नः, कार्ये कुशलः- कार्यकुशलः,

7 of 12

नञ् तत्पुरुषः

न धार्मिकः- अधार्मिकः,

न सुखम्- असुखम्,

न आदि- अनादि,

न सत्यम्- असत्यम्,

8 of 12

कर्मधारयसमासः

कर्मधारयसमसः(विशेषण-विशेष्य)-

नीलम्- उत्पलम्- नीलोत्पलम्, मधुरम् फलम्-मधुरफलम्, कुत्सितः राजा- कुराजा,सुन्दरः पुरुषः- सुपुरुषः।

कर्मधारयसमासः(उपमान्-उपमेय)-

घन इव श्यामः- घनश्यामः, चन्द्र इव मुखम्- चन्द्रमुखम्, नरः सिंहः इव- नरसिंहः।

कर्मधारयसमास(उभयपद-विशेषण)

शीतं च उष्णम्- शीतोष्णम्, रक्तश्च पीतः- रक्तपीतः

9 of 12

द्विगुसमासः

समासस्यास्य पूर्वपदः संख्यावाचकः भवति।

उदाहरणम्-सप्तानां दिनानां समाहारः- सप्तदिनम्

त्रयाणां भूवनानां समाहारः-- त्रिभूवनम्,

चतुर्णां युगानां समाहारः- चतुर्युगम्

त्रयाणां लोकानां समाहारः- त्रिलोकी

10 of 12

बहुब्रीहिसमासः

बहुब्रीहिसमासः(अन्यपदार्थप्रधानः बहुब्रीहिः)-

. सामान्यः बहुब्रीहिः- सामान्यः बहुब्रीहिः षट् विधा भवति-

१. द्वितीयार्थबहुब्रीहिः- प्राप्तम् उदकं यं सः- प्राप्तदकः

२. तृतीयार्थबहुब्रीहिः- पीतं क्षीरम् येन सः- पीतक्षीरः

३. चतुर्थ्यर्थबहुब्रीहिः- दत्तः पशुः यस्मै सः- दत्तपशुः

४. पंचम्यर्थबहुब्रीहिः- उद्धुतं जलं यस्मात् सः- उद्धुतजलम्

५. षष्ठ्यर्थबहुब्रीहिः- पीतम् अम्वरं यस्य सः- पीताम्वरम्

६. सप्त्म्यर्थबहुब्रीहिः- बहूनि फलानि यस्मिन् स बहुफलम्

11 of 12

बहुब्रीहिसमासः

२. विशेषबहुब्रीहिसमासः-

विशेषबहुब्रीहिः नवधा भवति।

१. व्यधिकरणः- चक्रं पाणौ यस्य सः - चक्रपाणिः

२.संखोत्तरपदः- विंशतेः समीपे ये ये सन्ति ते- उपविंशाः।

३.संखोभयपदः- द्वौ वा त्रयो वा - द्वित्राः

४. सहपूर्वपदः- शिष्येण सह वर्तते इति- सशिष्यः

५. व्यतिहार- केशेषु केशेषु गृहीत्वा इदम् युद्धम् प्रवृत्तम्- केशाकेशि

12 of 12

द्वन्द्वसमासः

उभयपदार्थप्रधानः द्वन्द्व। द्वन्द्वसमासः द्विधा भवति।

१. इतरेतरः द्वन्द्वः। . इतरेतरः द्वन्द्वः अपि द्विधा भवति।

१. द्विपदद्वन्द्वः- रामश्च कृष्णश्च- रामकृष्णौ

२. बहुपदद्वन्द्वः- हरिश्च हरश्च गुरुश्च- हरिहरगुरवः

समाहारः द्वन्द्वः। सोऽपि द्विधा भवति।

१. समाहारः- संज्ञा च परिभाषा च अनयोः समाहारः- संज्ञापरिभाषा

२. नित्यसमाहारः- पाणी च पादौ च एतेषाम् समाहारः- पाणिपादम्।

धन्यवादः