श्रीः योगिनां केन्बरासंस्कृतवर्गः�२४.११.२०२२�अष्टाज्याहुतिमन्त्राः॥�त्वं नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान्दे॒वस्य॒ हेळोऽव॑ यासिसीष्ठाः।�यजि॑ष्ठो॒ वह्नि॑तमः॒ शोशु॑चानो॒ विश्वा॒ द्वेषां॑सि॒ प्र मु॑मुग्ध्य॒स्मत्॥ऋ॰ ४.१.४॥�स त्वं नो॑ अग्नेऽव॒मो भ॑वो॒ती नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॑ष्टौ ।�अव॑ यक्ष्व नो॒ वरु॑णं॒ ररा॑णो वी॒हि मृ॑ळी॒कं सु॒हवो॑ न एधि॥ ऋ॰ ४.१.५॥�इ॒मं मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृळय ।�त्वाम॑व॒स्युरा च॑के ॥ऋ॰ १.२५.१९॥��
1
अष्टाज्याहुतिमन्त्राः॥�तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदा शा॑स्ते॒ यज॑मानो ह॒विर्भिः॑ ।�अहे॑ळमानो वरुणे॒ह बो॒ध्युरु॑शंस॒ मा न॒ आयुः॒ प्र मो॑षीः॥ऋ॰ १.२४.११॥�ॐ ये ते शतं वरुण ये सहस्रं यज्ञियाः पाशा वितता महान्तः। तेभिर्नो अद्य सवितोत् विष्णुर्विश्वे मुञ्चन्तु मरुतः स्वर्काः स्वाहा। इदं वरुणाय सवित्रे विष्णवे विश्वेभ्यो देवेभ्यो मरुद्भ्यः स्वर्केभ्यः इदन्न मम॥कात्या॰ श्रौ॰ सूत्रम् २५.१.११॥ �ॐ अयाश्चाग्नेऽस्यनभिश्तिपाश्च सत्यमित्त्वमयासि अया नो यज्ञं वहास्यया नो धेहि भेषज स्वाहा। इदमग्नये अयसे इदन्न मम॥कात्या॰ श्रौ॰ सूत्रम् २५.१.१२॥�ॐ उदु॑त्त॒मं व॑रुण॒ पाश॑म॒स्मदवा॑ध॒मं वि म॑ध्य॒मं श्र॑थाय ।�अथा॑ व॒यमा॑दित्य व्र॒ते तवाना॑गसो॒ अदि॑तये स्याम॥ऋ॰ १.२४.१५॥�भव॑तं नः॒ सम॑नसौ॒ सचे॑तसावरे॒पसौ॑। मा य॒ज्ञ हि॑ सिष्टं॒ मा य॒ज्ञप॑तिं जातवेदसौ शि॒वौ भ॑वतम॒द्य नः॑ स्वाहा। इदमग्नये अयसे इदन्न मम ॥५.३॥��
2
अष्टाज्याहुतिमन्त्राः॥
संहिता
त्वं नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान्दे॒वस्य॒ हेळोऽव॑ यासिसीष्ठाः।
यजि॑ष्ठो॒ वह्नि॑तमः॒ शोशु॑चानो॒ विश्वा॒ द्वेषां॑सि॒ प्र मु॑मुग्ध्य॒स्मत्॥ऋ॰ ४.१.४॥
पदपाठः
त्वम् । नः॒ । अ॒ग्ने॒ । वरु॑णस्य । वि॒द्वान् । दे॒वस्य॑ । हेळः॑ । अव॑ । या॒सि॒सी॒ष्ठाः॒ ।
यजि॑ष्ठः । वह्नि॑ऽतमः । शोशु॑चानः । विश्वा॑ । द्वेषां॑सि । प्र । मु॒मु॒ग्धि॒ । अ॒स्मत् ॥
3
अष्टाज्याहुतिमन्त्राः॥
सायणभाष्यम्
त्वन्नो अग्ने इत्येतदारभ्येदं सूक्तमुत्तराणि सूक्तानि च प्रातरनुवाक अग्नेये क्रतौ त्रैष्टुभे छन्दस्याश्विनशस्त्रे च विनियुक्तानि । सूत्रितं च । त्वं नो अग्ने वरुणस्य विद्वानित्येतत्प्रभृतीनि चत्वारि । आ. ४-१३ । इति । अवभृथेष्ट्यां स्विष्टकृदर्थेऽग्नीवरुणौ यष्टव्यौ । तत्र त्वं नो अग्न इति द्वे याज्यानुवाक्ये । सूत्रितं च । अग्नीवरुणौ स्विष्टकृदर्थे त्वन्नो अग्ने वरुणस्य विद्वानिति द्वे । आ. ६-१३ । इति । अस्नातो यद्यग्निहोत्रं जुहुतात्तदाग्निवारुणीष्टिः । तस्यामेते एव याज्यानुवाक्ये । तदाहुर्य आहिताग्निरित्युपक्रम्याम्नातम्। तस्य याज्यानुवाक्ये त्वं नो अग्ने वरुणस्य विद्वान्त्स त्वं नो अग्नेऽवमो भवोती । ऐ. ब्रा. ७-९ । इति ॥
4
अष्टाज्याहुतिमन्त्राः॥
त्वं नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान्दे॒वस्य॒ हेळोऽव॑ यासिसीष्ठाः।
यजि॑ष्ठो॒ वह्नि॑तमः॒ शोशु॑चानो॒ विश्वा॒ द्वेषां॑सि॒ प्र मु॑मुग्ध्य॒स्मत्॥ऋ॰ ४.१.४॥
सायणभाष्यम् - हे अग्ने विद्वान् सर्वपुरुषार्थसाधनोपायज्ञस्त्वं देवस्य द्योतमानस्य वरुणस्य हेळः क्रोधान् नोऽस्मत्सम्बन्धिनो वरुणकर्तृकान्पाशग्रहणानव यासिसीष्ठाः। अपनय। किञ्च यजिष्ठो यष्टृतमो वह्नितमो हविषामतिशयेन वोढा शोशुचानोऽतिशयेन दीप्यमानस्त्वं विश्वा सर्वाणि द्वेषांसि पापानि द्वेष्टॄणि रजांसि वा अस्मदस्मत्तः प्र मुमुग्धि। प्रकर्षेण मोचय । हेळः। हेडृ अनादरे । क्विप् । शसि रूपं। शसः सुस्त्वादनुदात्तत्वे धातुस्वरः। यासिसीष्ठाः। यसेर्ण्यन्तादाशीर्लिङ्। थासि सीयुडागमः। छन्दस्युभयथेति लिङः सार्वधातुकत्वाण्णिलोपाभावः। अवपूर्वो यासिर्विनाशे वर्तते। मुमुग्धि। मुञ्चतेर्लोटि रूपं। बहुलं छन्दसीति शपः श्लुः ॥४॥
5
अष्टाज्याहुतिमन्त्राः॥
यासिसीष्ठाः – आशीर्लिङ्लकारः आत्मनेपदी मध्यमपुरुषः एकवचनम्
यस् यसुँ प्रयत्ने दिवादिः परस्मैपदी अकर्मकः सेट् पुषादिः
यसुँ (भूवादयो धातवः (१.३.१))
यस् (उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९))
यस्+लिँङ् (आशिषि लिङ्लोटौ (३.३.१७३))
यस्+ल् (लस्य (३.४.७७), हलन्त्यम् (१.३.३), तस्य लोपः (१.३.९), उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९))
6
अष्टाज्याहुतिमन्त्राः॥
यासिसीष्ठाः – आशीर्लिङ्लकारः आत्मनेपदी मध्यमपुरुषः एकवचनम्
यस्+थास् (तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् (३.४.७८), तङानावात्मनेपदम् (१.४.१००), तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (१.४.१०१), तान्येकवचनद्विवचनबहुवचनान्येकशः (१.४.१०२), युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः (१.४.१०५), लिङाशिषि (३.४.११६))
यस्+णिच्+थास् (सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् (३.१.२५))
यास्+णिच्+थास् (अत उपधायाः (७.२.११६))
7
अष्टाज्याहुतिमन्त्राः॥
यास्+इ+थास् (हलन्त्यम् (१.३.३), चुटू (१.३.७), तस्य लोपः (१.३.९), न विभक्तौ तुस्माः (१.३.४))
यास्+इ+सीय्+थास् (लिङः सीयुट् (३.४.१०२))
यास्+इ+सीय्+स्थास् (सुट् तिथोः (३.४.१०७))
यास्+इ+सीस्थास् (लोपो व्योर्वलि (६.१.६६))
यासि+सीष्थारुँ (ससजुषो रुः (८.२.६६))
यासि+सीष्थार् (उपदेशेऽजनुनासिक इत् (१.३.२), तस्य लोपः (१.३.९))
यासि+सीष्थाः (खरवसानयोर्विसर्जनीयः (८.३.१५))
यासिसीष्ठाः (ष्टुना ष्टुः (८.४.४१))
8
कारकप्रकरणम्।
(१.४.३२) कर्मणा यमभिप्रैति स सम्प्रदानम् (२.३.१३) चतुर्थी सम्प्रदाने चतुर्थीविधाने तादर्थ्य उपसङ्ख्यानम्। यूपाय दारु। कुण्डलाय हिरण्यम्।
(१.४.४२) साधकतमं करणम् (२.३.१८) कर्तृकरणयोस्तृतीया
(१.४.४९) कर्तुरीप्सिततमं कर्म (२.३.२) कर्मणि द्वितीया १.४.४५) आधारोऽधिकरणम् २.३.३६) सप्तम्यधिकरणे च
����
9
व्योमसंस्कृतपाठशाला - २०११ - संस्कृत एम् ए व्याकरणम् - वर्षं १
इको यण् अचि (६.१.७७)
इक् – इ उ ऋ लृ
यण् – य् व् र् ल्
अच् – अ इ उ ऋ लृ ए ओ ऐ औ
इकः – षष्ठी; यण् – प्रथमा;
अचि – सप्तमी
यदि + अपि = यद् य् अपि = यद्यपि
प्रति + एकम् = प्रत्येकम्
प्रति + उपकारः = प्रत्युपकारः
सु + आगतम् = स्वागतम्
पितृ + उपदेशः = पित्रुपदेशः
लृ + आकृतिः = लाकृतिः
विसर्गसन्धिः
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतम् च यत्। असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह॥गीता १७.२८॥
11
अः + अ = ओऽ
रामः अगच्छत् = रामोऽगच्छत्
अः + आ = अ + आ
रामः आगच्छति = राम आगच्छति
अः + इच् = अ + इच्
रामः उपविशति = राम उपविशति
अः + हश् = ओ + हश्
रामः वदति = रामो वदति
आः + अश् = आ + अश्
देवाः आगच्छन्ति = देवा आगच्छन्ति
विसर्गसन्धिः
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतम् च यत्। असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह॥गीता १७.२८॥
12
इच् + : + अच् = इच् + र् + अच्
इच् + : + झश् = इच् + र् + झश्
अच् + : + च् = अच् + श् + च्
अच् + : + त् = अच् + स् + त्
पाण्डवाश्चैव = पाण्डवाः च एव
दुर्योधनस्तदा = दुर्योधनः तदा
विराटश्च द्रुपदश्च = विराटः च द्रुपदः च
शब्दस्तुमुलोऽभवत् = शब्दः तुमुलः अभवत्
श्वेतैर्हयैर्युक्ते = श्वेतैः हयैः युक्ते
सेनयोरुभयोर्मध्ये = सेनयोः उभयोः मध्ये
विसर्गसन्धिः
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतम् च यत्। असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह॥गीता १७.२८॥
13
इच् + : + अश् = इच् + र् + अश्
अच् + : + ट् = अच् + ष् + ट्
अच् + : + श्/ष्/स् = अच् + श्/ष्/स् + श्/ष्/स्
सः/एषः + हल् = स/एष + हल्
श्वेतैर्हयैर्युक्ते = श्वेतैः हयैः युक्ते
गोपालः टङ्कयति = गोपालष्टङ्कयति
अलसाः स्वपन्ति = अलसास्स्वपन्ति
अलसाः शेरते = अलसाश्शेरते
पुरुषाः षट् = पुरुषाष्षट्
सः पठति = स पठति, एषः कः = एष क।