1 of 8

श्रीः �केन्बरासंस्कृतवर्गः१६.०२.२०२२

1

2 of 8

॥श्रीरामोदन्तम् – युद्धकाण्डः २९-३०

अदर्शयद्भ्रातृपुत्रं धर्मात्मा स विभीषणः।

लक्ष्मणो भेदयामास राक्षसाञ्छरसञ्चयैः॥६.२९॥

भिदिँर् विदारणेचिञ् चयने + घञ् + भिस् = चयैः।

कृत्वा चिरं तत्र युद्धम् ऐन्द्रेणास्त्रेण वै रुषा।

शिरश्चिच्छेद सौमित्रिः दशाननसुतस्य हि॥६.३०॥

प्रतिघः, रुट्, क्रुध्, क्रोधः, अमर्षः, रोषः, कोपः। रुट् इत्यस्य रुषा तृतीयाविभक्तिः एकवचनम्। चिच्छेद = छिदिँर् द्वैधीकरणे लिट्लकारः प्रथमपुरुषः एकवचनम्।

3 of 8

॥श्रीरामोदन्तम् – युद्धकाण्डः ३१

स सुतस्य वधं श्रुत्वा रावणः शोककर्शितः।

नष्टधैर्यो विह्वलाङ्गो विललापाकुलेन्द्रियः॥६.३१॥

कृशँ तनूकरणे+ क्तः = कर्शितः।

विह्वल (वि + ह्वलँ चलने + अच् ) भयादिनाभिभूतः।

विललापः (वि + लपँ व्यक्तायां वाचि लिट्॰ प्र॰ एक॰)

विलापः अनुशोचनोक्तिः परिदेवनम् क्रन्दनादौ दुःखजं वचः।

कुलँ संस्त्याने बन्धुषु च (स्त्यै शब्दसङ्घातयोः)। यस्य इन्द्रियाणि न समाहितानि सः आकुलेन्द्रियः।

4 of 8

॥श्रीरामोदन्तम् – युद्धकाण्डः ३२

निरर्थकं तु मज्जन्म जल्पितं च निरर्थकम्।

ये नाहमद्य पश्यामि हतमिन्द्रजितं रणे॥६.३२॥

निरर्थक, त्रि, (निर्गतोऽर्थो यस्मात् कप् ) निष्फलम् तत्पर्य्यायः मोघम् विफलम्।

उरःप्रभृतिभ्यः कप् (५.४.१५१) – उरःप्रभृत्यन्तात् बहुव्रीहेः कप्प्रत्ययो भवति। व्यूढमुरः अस्य व्यूढोरस्कः। प्रियसर्पिष्कः। अवमुक्तोपानत्कः। पुमाननड्वान् पयः नौः लक्ष्मीः इति विभक्त्यन्ताः पठ्यन्ते, न प्रातिपदिकानि। तत्र इदं प्रयोजनम् एकवचनान्तानाम् एव ग्रहणम् इह विज्ञायेत, द्विवचनबहुवचनान्तानां मा भूतिति। तत्र शेषद् विभाषा ( ५.४.१५४ ) इति विकल्प एव भवतीति। द्विपुमान्, द्विपुंस्कः। बहुपुमान्, बहुपुंस्कः। उरस्। सर्पिस्। उपानः। पुमान्। अनड्वान्। नौः। पयः। लक्ष्मीः। दधि। मधु। शालि। अर्थान् नञः अनर्थकः।

5 of 8

॥श्रीरामोदन्तम् – युद्धकाण्डः ३३

क्व गतोऽसि हतः शूर ! मानुषेण पदातिना।

राज्याद् भ्रष्टेन दीनेन त्यक्त्वा मां पुत्र ! जीवितम्॥६.३३॥

भ्रंश् अवस्रंसने + क्तः = भ्रष्टः। त्यज् हानौ + क्त्वा = त्यक्त्वा।

पदाभ्याम् अतति यः सः पदातिन् अतँ सातत्यगमने

ओँदीङ् क्षये + क्तः = दीनः (ओदितश्च ८.२.४५)।

मानुषः पुं (मनोर्जातः मनु + मनोर्जाता-वञ् यतौ षुक् च) मनुष्यः। 

अकृत्वा मानुषं कर्म्म यो दैवमनुवर्त्तते।

वृथा श्राम्यति संप्राप्य पतिं क्लीवमिवाङ्गना॥महाभारते १३.६.२०॥

6 of 8

॥श्रीरामोदन्तम् – युद्धकाण्डः ३४

इन्द्रं जित्वा तु तं बद्ध्वा लङ्कामानीय वै बलात्।

अकरोस्त्वं प्रतापेन कारागृहनिवासिनम्॥६.३४॥

बल् प्राणने।

प्रतापः, पुं, (प्र + तप् + घञ् ) कोषो धनं दण्डो दमः तद्धेतुत्वात् सैन्यमपि दण्डः ताभ्यां यत्तेजो जायते सः, प्रभावः तापः तेजः अर्कवृक्षः।

तपँ सन्तापे भ्वादिः, परस्मैपदी, तपँ ऐश्वर्ये दिवादिः, आत्मनेपदी,  तप् तपँ दाहे चुरादिः, उभयपदी। 

7 of 8

॥श्रीरामोदन्तम् – युद्धकाण्डः ३५

मोचयामास ब्रह्मा त्वां सान्त्वयित्वाऽमराधिपम्।

तादृक् त्वं कुत्र मां त्यक्त्वा गतोऽद्य सुदुरासदः॥६.३५॥

त्वाम् सान्त्वयित्वा ब्रह्मा अमराधिपं मोचयामास।

मुचँ प्रमोचने मोदने च, त्यजँ हानौ, गम् गतौ, षान्त्वँ सामप्रयोगे + णिच् + क्त्वा = सान्त्वयित्वा, षो अन्तकर्मणि + मनिन् = सामन् १ वेदभेदे, २ गानभेदे, ३ उपायभेदेतस्य विषयादिकम्, ४ शत्रुवशीकरणोपायभेदे, ५ प्रियवाक्यादिना सान्त्वने च, ६ पशुबन्धनरज्ज्वाम्। आसद् – आङः षद पद्यर्थे

दुरासद/ दुरासदः दुरासदः, त्रि, (दुःखेन आसद्यते इति . दुर् +आ + सद् + ईषद्दुःसुष्विति ३.३.१२६ इति खल् ) दुष्प्राप्यः।

8 of 8

॥श्रीरामोदन्तम् – युद्धकाण्डः ३६

किं करिष्याम्यहं पुत्र ! क्व गच्छामि वदाधुना।

नय मां यत्र गन्तासि तत्र ते न विलम्बनम्॥६.३६॥