1 of 6

॥श्री:॥�केन्बरासंस्कृतवर्गः�१५.०३.२०२३�महाकविभासप्रणीतं स्वप्नवासवदत्तम्॥�॥षष्ठोऽङ्कः॥

1

2 of 6

पद्मावती - यदार्यपुत्र आज्ञापयति । (निष्क्रान्ता) ।

(ततः प्रविशति यौगन्धरायणः प्रतीहारी च)

यौगन्धरायणः - (आत्मगतम्) भोः!

प्रच्छाद्य राजमहिषीं नृपतेर्हितार्थं

कामं मया कृतमिदं हितमित्यवेक्ष्य ।

सिद्धेऽपि नाम मम कर्मणि पार्थिवोऽसौ

कि वक्ष्यतीति हृदयं परिशङ्कितं मे ॥१५॥

प्रतीहारी - एष भर्ता । उपसर्पत्वार्यः।

यौगन्धरायणः - (उपसृत्य) जयतु भवान् जयतु ।

राजा - श्रुतपूर्व इव स्वरः! भो ब्राह्मण! किं भवतः स्वसा पद्मावत्या हस्ते न्यास इति निक्षिप्ता । योगन्धरायणः - अथ किम् राजा - तेन हि त्वर्यतां त्वर्यतामस्य भगिनिका ।

प्रतीहारी - यद् भर्ताज्ञापयति। (निष्क्रान्ता)

3 of 6

(ततः प्रविशति पद्मावती आवन्तिका प्रतीहारी च)

पद्मावती - एत्वेत्वार्या। प्रियं ते निवेदयामि।

आवन्तिका - किं किम्।

पद्मावती - भ्राता ते आगतः।

आवन्तिका - दिष्टयेदानीमपि स्मरति।

पद्मावती - (उपसृत्य) जयत्वार्यपुत्रः। एष न्यासः।

राजा - निर्यातय पद्मावति!। अथवा साक्षिमन्न्यासो निर्यातयितव्यः। इहात्र भवान् रैभ्यः अत्रभवती चाधिकरणं भविष्यतः ।

पद्मावती - आर्य! नीयतामिदानीमार्या।

धात्री - (आवन्तिकां निर्वर्ण्य) अम्मो! भर्तृदारिका वासवदत्ता।

राजा - कथं महासेनपुत्री । देवि! प्रविश त्वमभ्यन्तरं पद्मावत्या सह ।

4 of 6

यौगन्धरायण - न खलु न खलु प्रवेष्टव्यम् । मम भगिनी खल्वेषा ।

राजा - किं भवानाह । महासेनपुत्री खल्वेषा ।

यौगन्धरायणः - भो राजन् ।

भारतानां कुले जातो विनीतो ज्ञानवाञ्छुचिः ।

तन्नार्हसि बलाद्धर्तुं राजधर्मस्य देशिकः ॥१६॥

राजा - भवतु, पश्यामस्तावद् रूपसाद्दश्यम् । संक्षिप्यतां यवनिका ।

यौगन्धरायणः - जयतु स्वामी ।

वासवदत्ता - जयत्वार्यपुत्रः ।

राजा - अये! असौ यौगन्धरायणः । इयं महासेनपुत्री ।

किं नु सत्यमिदं स्वप्नः सा भूयो दृश्यते मया ।

अनयाप्येवमेवाहं दृष्टया वञ्चितस्तदा॥१७॥

5 of 6

यौगन्धरायणः - स्वामिन् ! देव्यपनयेन कृतापराधः खल्वहम् । तत् क्षन्तुमर्हति स्वामी ।

(इति पादयोः पतति)

राजा - (उत्थाप्य) यौगन्धरायणो भवान् ननु ।

मिथ्योन्मादैश्च युद्धैच्च शास्त्रदृष्टैश्च मन्त्रितैः ।

भवद्यत्नैः खलु वयं मज्जमानाः समुद्घृताः ॥१८॥

यौगन्धरायणः - स्वामिभाग्यानामनुगन्तारो वयम् ।

पद्मावती - अहो आर्या खल्वियम् । आर्ये! सखीजनसमुदाचारेणाजानन्त्यातिक्रान्तः समुदाचारः । तच्छीर्षेण प्रसादयामि।

वासवदत्ता - (पद्मावतीमुत्थाप्य) उत्तिष्ठोत्तिष्ठाविधवे! उत्तिष्ठ । अर्थित्वं नाम शरीरमपराध्यति । पद्मावती - अनुगृहीतास्मि।

राजा - वयस्य यौगन्धरायण ! देव्यपनये का कृता ते बुद्धिः ।

यौगन्धरायणः - कौशम्बीमात्रं परिपालयामीति ।

6 of 6

राजा - अथ पद्मावत्या हस्ते र्कि न्यासकारणम् ।

यौगन्धरायणः - पुष्पकभद्रादिभिरादेशिकैरादिष्टा स्वामिनो देवी भविष्यतीति ।

राजा - इदमपि रुमण्वता ज्ञातम् ।

यौगन्धरायणः - स्वामिन्! सर्वेरेव ज्ञातम् ।

राजा - अहो शठः खलु रुमण्वान् ।

यौगन्धरायणः - स्वामिन्! देव्याः कुशलनिवेदनार्थमद्यैव प्रतिनिवर्ततामत्र भवान् रैभ्योऽत्रभवती च। राजा - न, न । सर्वं एव वयं यास्यामो देव्या पद्मावत्या सह ।

यौगन्धरायणः - यदाज्ञापयति स्वामी। (भरतवाक्यम्)

इमां सागरपर्यन्तां हिमवद्विन्ध्यकुण्डलाम् ।

महीमेकातपत्राङ्कां राजसिंहः प्रशास्तु नः ॥१९॥

(निष्क्रान्ताः सर्वे)

इति षष्ठोऽङ्कः । । स्वप्नवासवदत्तं संपूर्णम् ।