श्रीः �केन्बरासंस्कृतवर्गः�१६.०३.२०२२
1
॥श्रीरामोदन्तम् – युद्धकाण्डः ४७-४८॥
विभीषणोऽथ रामेण सन्दिष्टः सह राक्षसैः।
चकार दहनं तस्य रावणस्य गतायुषः॥६.४७॥
दिशँ अतिसर्जने तुदादिः, उभयपदी, सकर्मकः, अनिट्। आयुषम्, (At the end of a few comps.) Life; e. g. पुरुषायुषजीविन्यः R.1.63.
अथाग्निवचनात् सीतां रामो वीक्ष्य सुनिर्मलाम्।
सन्दिष्टो देवबृन्दैश्च जग्राह पितृसन्निधौ॥६.४८॥�ग्रहँ उपादाने (क्र्यादिः उभयपदी सकर्मकः सेट्) – जग्राह (लिट्)
गृह्णाति, ग्रहणम्, ग्रहणीयः, ग्राहकः, ग्रहितुम्, गृहीत्वा, गृहीत।
॥श्रीरामोदन्तम् – युद्धकाण्डः ४९-५०॥
तवैव युक्तं कर्मैतत् सर्वलोकभयङ्करम्।
तद्वैदेह्याः कृते राम ! सा तु लक्ष्मीर्भवान् स्वभूः॥६.४९॥
कृते, कृतेन ind. (with gen. or in comp.) For, for the sake of, on account of; अमिषां प्राणानां कृते Bh.3.36.
इत्येवं देवसङ्घैश्च मुनिभिश्चाभिपूजितः।
लक्ष्मणश्च तुतोषाथ रामो विश्वासमाययौ॥६.५०॥�तुषँ प्रीतौ (दिवादिः परस्मैपदी अकर्मकः अनिट् पुषादिः)
॥श्रीरामोदन्तम् – युद्धकाण्डः ५१-५२॥
विभीषणस्य धर्मात्मा सत्यसन्ध उदारधीः।
कारयामास लक्ष्मीवान् अनुजेनाभिषेचनम्॥६.५१॥
धीः स्त्री (ध्यै चिन्तने + भावे क्विप् सम्प्रसारणञ्च) बुद्धिः,
षिचँ क्षरणे, क्षरँ सञ्चलने।
ततः पुष्पकमारुह्य सह मित्रैर्जगत्पतिः।
भार्यानुजाभ्यां सहितः किष्किन्धां प्राप राघवः॥६.५२॥�रुहँ बीजजन्मनि, आपलृँ व्याप्तौ।
॥श्रीरामोदन्तम् – युद्धकाण्डः ५३-५४॥
किष्किन्धानिलयाः सर्वाः कपीनां योषितः प्रियाः।
सीताकुतूहलात् पुष्पं विमानं ताः समारुहन्॥६.५३॥
अगारम्, वस्त्यम्, सद्म, गेहम्, आलयः, गृहाः, भवनम्, निशान्तम्, वेश्म, निलयः, मन्दिरम्, सदनम्, निकेतनम्, उदवसितम्, निकाय्यः, गृहम्। ली द्रवीकरणे, ली श्लेषने। सीमन्तिनी, अबला, महिला, प्रतीपदर्शिनी, नारी, योषित्, वनिता, वधूः, योषा, वामा, स्त्री।
अथ दाशरथिः श्रीमान् भरतं द्रष्टुमिच्छया।
भरद्वाजाश्रमं प्राप्तः तत्र तेन निवारितः॥६.५४॥�निवारितः, त्रि, (नि + वृ + णिच् + क्तः) कृत-निवारणः।
॥श्रीरामोदन्तम् – युद्धकाण्डः ५५-५६॥
भरतस्यान्तिकं रामः प्रेषयामास मारुतिम्।
रामस्यादर्शनाद्वह्निप्रवेशं काङ्क्षतो भृशम्॥६.५५॥
अन्तिकं, त्रि॰, (अन्तः सामीप्येन विद्यतेऽस्य, अन्त +ठन् तस्य इकः) निकटं नेदिष्टम्, अन्तिकम्।
तत्र तेन मुनीन्द्रेण सानुजः ससुहृद्गणः।
सन्तोषविवशेनाथ रामोऽपि विधिपूजितः॥६.५६॥�विवशः, त्रि॰, (विरुद्धं वष्टीति वि + वश कान्तौ+ अच्) अवश्यात्मा, अरिष्टदुष्टधीः। कान्तिः दीप्तिः इच्छा।
॥श्रीरामोदन्तम् – युद्धकाण्डः ५७-५८॥
रामोऽथ सह संगम्य भरतेनारिघातिना।
अयोध्यां प्राविशत् तूर्णं मातृभिश्चाभिनन्दितः॥६.५७॥
अथायोध्यानिवासस्ते जनाः सर्वेऽपि तोषिताः।
अभिगम्याब्रुवन् रामं धन्या वयमिति द्रुतम्॥६.५८॥�तुषँ प्रीतौ (दिवादिः परस्मैपदी अकर्मकः अनिट् पुषादिः),
धनँ धान्ये, धान्यम् अन्नम्।