1 of 5

॥श्री:॥�केन्बरासंस्कृतवर्गः�१५.०२.२०२३�महाकविभासप्रणीतं स्वप्नवासवदत्तम्॥�॥षष्ठोऽङ्कः॥

1

2 of 5

राजा - पद्मावति! एवमेतत् ।

किं वक्ष्यतीति हृदयं परिशङ्कितं मे

कन्या मयाप्यपहृता न च रक्षिता सा।

भाग्यैश्चलैर्महदवाप्य गुणोपघातः

पुत्रः पितुर्जनितरोष इवास्मि भीतः॥४॥

पद्मावती - ननु किं शक्यं रक्षितुं प्राप्तकाले।

प्रतीहारी - एष काञ्चुकीयो धात्री च प्रतिहारमुपस्थितौ।

राजा - शीघ्रं प्रवेश्यताम्।

प्रतीहारी - यद् भर्ताज्ञापयति।

(निष्क्रान्ता)

3 of 5

(ततः प्रविशति काञ्चुकीयो धात्री प्रतिहारी च।)

काञ्चुकीयः - भोः!

संबन्धिराज्यमिदमेत्य महान् प्रहर्षः � स्मृत्वा पुनर्नृपसुतानिधनं विषादः। �किं नाम दैव! भवता न कृतं यदि स्याद् � राज्यं परैरपहृतं कुशलं च देव्याः ॥५॥प्रतीहारी - एष भर्ता, उपसर्पत्वार्यः।�काञ्चुकीयः - (उपेत्य) जयत्वार्यपुत्रः । �धात्री - जयतु भर्ता।�राजा - (सबहुमानम्) आर्य! �पृथिव्यां राजवंश्यानामुदयास्तमयप्रभुः। �अपि राजा स कुशली मया काङ्क्षितबान्धवः ॥६॥काञ्चुकीयः - अथ किम् । कुशली महासेनः। इहापि सर्वगतं कुशलं पृच्छति।

4 of 5

राजा - (आसनादुत्थाय) किमाज्ञापयति महासेनः।

काञ्चुकीयः - सदृशमेतद् वैदेहीपुत्रस्य। नन्वासनस्थेनैव भवता श्रोतव्यो महासेनस्य संदेशः।

राजा - यदाज्ञापयति महासेनः। (उपविशति)

काञ्चुकीयः – दिष्टया परैरपहृतं राज्यं पुनः प्रत्यानीतमिति। कुतः –

कातरा येऽप्यशक्ता वा नोत्साहस्तेषु जायते।

प्रायेण हि नरेन्द्रश्रीः सोत्साहैरेव भुज्यते॥७॥

राजा - आर्य! सर्वमेतन्महासेनस्य प्रभावः। कुतः,

अहमवजितः पूर्वं तावत् सुतैः सह लालितो

दृढमपहृता कन्या भूयो मया न च रक्षिता।

निधनमपि च श्रुत्वा तस्यास्तथैव मयि स्वता

ननु यदुचितान् वत्सान् प्राप्तुं नृपोऽत्र हि कारणम् ॥८॥

काञ्चुकीयः - एष महासेनस्य संदेशः । देव्याः संदेशमिहात्रभवती कथयिष्यति।

5 of 5

राजा - हा अम्ब!

षोडशान्तः पुरज्येष्ठा पुण्या नगरदेवता।

मम प्रवासदुःखार्ता माता कुशलिनी ननु॥९॥

धात्री - अरोगा भट्टिनी भर्तारं सर्वगतं कुशलं पृच्छति।

राजा - सर्वगतं कुशलमिति । अम्ब! ईद्दशं कुशलम्।

धात्री - मेदानीं भर्तातिमात्रं संतप्तुम्।

काञ्चुकीयः - धारयत्वार्यपुत्रः। उपरताप्यनुपरता महासेनपुत्री एवमनुकम्प्यमानार्यपुत्रेण। अथवा, कः कं शक्तो रक्षितुं मृत्युकाले रज्जुच्छेदे के घटं धारयन्ति।

एवं लोकस्तुल्यधर्मो वनानां काले काले छिद्यते रुह्यते च॥१०॥

राजा - आर्य! मा मैवं,

महासेनस्य दुहिता शिष्या देवी च मे प्रिया।

कथं सा न मया शक्या स्मर्तुं देहान्तरेष्वपि॥११॥