॥श्री:॥�केन्बरासंस्कृतवर्गः�१५.०२.२०२३�॥महाकविभासप्रणीतं स्वप्नवासवदत्तम्॥�॥षष्ठोऽङ्कः॥
1
॥ स्वप्नवासवदत्तम् ॥
राजा - पद्मावति! एवमेतत् ।
किं वक्ष्यतीति हृदयं परिशङ्कितं मे
कन्या मयाप्यपहृता न च रक्षिता सा।
भाग्यैश्चलैर्महदवाप्य गुणोपघातः
पुत्रः पितुर्जनितरोष इवास्मि भीतः॥४॥
पद्मावती - ननु किं शक्यं रक्षितुं प्राप्तकाले।
प्रतीहारी - एष काञ्चुकीयो धात्री च प्रतिहारमुपस्थितौ।
राजा - शीघ्रं प्रवेश्यताम्।
प्रतीहारी - यद् भर्ताज्ञापयति।
(निष्क्रान्ता)
॥ स्वप्नवासवदत्तम् ॥
(ततः प्रविशति काञ्चुकीयो धात्री प्रतिहारी च।)
काञ्चुकीयः - भोः!
संबन्धिराज्यमिदमेत्य महान् प्रहर्षः � स्मृत्वा पुनर्नृपसुतानिधनं विषादः। �किं नाम दैव! भवता न कृतं यदि स्याद् � राज्यं परैरपहृतं कुशलं च देव्याः ॥५॥�प्रतीहारी - एष भर्ता, उपसर्पत्वार्यः।�काञ्चुकीयः - (उपेत्य) जयत्वार्यपुत्रः । �धात्री - जयतु भर्ता।�राजा - (सबहुमानम्) आर्य! �पृथिव्यां राजवंश्यानामुदयास्तमयप्रभुः। �अपि राजा स कुशली मया काङ्क्षितबान्धवः ॥६॥�काञ्चुकीयः - अथ किम् । कुशली महासेनः। इहापि सर्वगतं कुशलं पृच्छति।
॥ स्वप्नवासवदत्तम् ॥
राजा - (आसनादुत्थाय) किमाज्ञापयति महासेनः।
काञ्चुकीयः - सदृशमेतद् वैदेहीपुत्रस्य। नन्वासनस्थेनैव भवता श्रोतव्यो महासेनस्य संदेशः।
राजा - यदाज्ञापयति महासेनः। (उपविशति)
काञ्चुकीयः – दिष्टया परैरपहृतं राज्यं पुनः प्रत्यानीतमिति। कुतः –
कातरा येऽप्यशक्ता वा नोत्साहस्तेषु जायते।
प्रायेण हि नरेन्द्रश्रीः सोत्साहैरेव भुज्यते॥७॥
राजा - आर्य! सर्वमेतन्महासेनस्य प्रभावः। कुतः,
अहमवजितः पूर्वं तावत् सुतैः सह लालितो
दृढमपहृता कन्या भूयो मया न च रक्षिता।
निधनमपि च श्रुत्वा तस्यास्तथैव मयि स्वता
ननु यदुचितान् वत्सान् प्राप्तुं नृपोऽत्र हि कारणम् ॥८॥
काञ्चुकीयः - एष महासेनस्य संदेशः । देव्याः संदेशमिहात्रभवती कथयिष्यति।
॥ स्वप्नवासवदत्तम् ॥
राजा - हा अम्ब!
षोडशान्तः पुरज्येष्ठा पुण्या नगरदेवता।
मम प्रवासदुःखार्ता माता कुशलिनी ननु॥९॥
धात्री - अरोगा भट्टिनी भर्तारं सर्वगतं कुशलं पृच्छति।
राजा - सर्वगतं कुशलमिति । अम्ब! ईद्दशं कुशलम्।
धात्री - मेदानीं भर्तातिमात्रं संतप्तुम्।
काञ्चुकीयः - धारयत्वार्यपुत्रः। उपरताप्यनुपरता महासेनपुत्री एवमनुकम्प्यमानार्यपुत्रेण। अथवा, कः कं शक्तो रक्षितुं मृत्युकाले रज्जुच्छेदे के घटं धारयन्ति।
एवं लोकस्तुल्यधर्मो वनानां काले काले छिद्यते रुह्यते च॥१०॥
राजा - आर्य! मा मैवं,
महासेनस्य दुहिता शिष्या देवी च मे प्रिया।
कथं सा न मया शक्या स्मर्तुं देहान्तरेष्वपि॥११॥