1 of 15

संस्कृत-सम्भाषण वर्गः

३२ - मई (२०२२) मासस्य प्रथमः दिनाङ्कः

2 of 15

ध्येयमन्त्रः

पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा । ध्यायामि संस्कृतं सम्यक् वन्दे संस्कृतमातरम् ॥

I read/study samskritam everyday. I speak in samskritam all the time. I meditate well on samskritam. I salute Mother samskritam.

संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम् । संस्कृतस्य सदा भक्तो वन्दे संस्कृतमातरम् ॥

For the growth of samskritam, I give everything I own. I am a devotee of samskritam. I salute Mother samskritam.

संस्कृतस्य कृते जीवन् संस्कृतस्य कृते यजन् । आत्मानमाहुतं मन्ये वन्दे संस्कृतमातरम् ॥

(My) life is for samskritam. (I) will work hard for samskritam. I offer myself to samskritam. I salute Mother samskritam.

हिन्दु धर्मं समाजं च पवित्रां संस्कृतिं तथा । संरक्ष्य ननु कुर्याम विश्वं शान्तिसमन्वितम् ॥

Hindu religion and society are as pure and sacred as Hindu culture. We must definitely preserve these and make our world peaceful.

3 of 15

सुभाषितम्

साक्षराः विपरीताश्चेद्राक्षसा एव केवलम्।

सरसो विपरीतश्चेत् सरसत्वं न मुञ्चति॥

अन्वयः

साक्षराः विपरीताः चेत् राक्षसाः एव केवलम्। सरसः विपरीतः चेत् सरसत्वं न मुञ्चति॥

तात्पर्यम्

अक्षराणां विपर्यस्तविन्यासेन अर्थगौरवं वर्णयति पद्यमिदम्। साक्षराः यदि विपरीतमाचरन्ति, (स्वेषामक्षरज्ञानस्य दुरुपयोगं कुर्वन्ति), तर्हि (विपरीताचरणेन अन्याय्येन यस्य हानिर्जाता, तस्मै) ते राक्षसाः (क्रूराः,दुष्टाः) भवन्ति। किन्तु सरसो विपरीत अपि (शब्दक्रमस्य विपर्यासेनापि) सरस एव भवति। (सरसः व्यक्तिः कदाचित् स्वस्य स्वभावं) रसयुक्तत्वं न मुञ्चति।)

4 of 15

प्रथमाविभक्तिः - पुंलिङ्ग/स्त्रीलिङ्ग/नपुंसकलिङ्ग - शब्दाः

प्रातिपदिकम्

शब्द - परिचयः

एकवचनम्

द्विवचनम्

बहुवचनम्

राम

अकारान्तः पुंलिङ्गः "राम" शब्दः

रामः

रामौ

रामाः

फल

अकारान्तः नपुंसकलिङ्गः "फल" शब्दः

फलम्

फले

फलानि

सीता

आकारान्तः स्त्रीलिङ्गः "सीता" शब्दः

सीता

सीते

सीताः

हरि

इकारान्तः पुंलिङ्गः "हरि" शब्दः

हरिः

हरी

हरयः

मति

इकारान्तः स्त्रीलिङ्गः "मति" शब्दः

मतिः

मती

मतयः

वारि

इकारान्तः नपुंसकलिङ्गः "वारि" शब्दः

वारि

वारिणी

वारीणि

नदी

ईकारान्तः स्त्रीलिङ्गः "नदी" शब्दः

नदी

नद्यौ

नद्यः

लक्ष्मी

(अवी / तन्त्री / स्तरी / तरी)

ईकारान्तः स्त्रीलिङ्गः "लक्ष्मी" शब्दः

लक्ष्मीः

लक्ष्म्यौ

लक्ष्म्यः

स्त्री

ईकारान्तः स्त्रीलिङ्गः "स्त्री" शब्दः

स्त्री

स्त्रियौ

स्त्रियः

धी

(भी / श्री / ह्री)

ईकारान्तः स्त्रीलिङ्गः "धी" शब्दः

धीः

धियौ

धियः

5 of 15

प्रथमाविभक्तिः - पुंलिङ्ग/स्त्रीलिङ्ग/नपुंसकलिङ्ग - शब्दाः

प्रातिपदिकम्

शब्द – परिचयः

एकवचनम्

द्विवचनम्

बहुवचनम्

गुरु

उकारान्तः पुंलिङ्गः "गुरु" शब्दः

गुरुः

गुरू

गुरवः

धेनु

उकारान्तः स्त्रीलिङ्गः "धेनु" शब्दः

धेनुः

धेनू

धेनवः

मधु

उकारान्तः नपुंसकलिङ्गः "मधु" शब्दः

मधु

मधुनी

मधूनि

वधू

(चमू / चञ्चू)

ऊकारान्तः स्त्रीलिङ्गः "वधू" शब्दः

वधूः

वध्वौ

वध्वः

सू

(भू / भ्रू / जू / सुभ्रू)

ऊकारान्तः स्त्रीलिङ्गः "सू" शब्दः

सूः

सुवौ

सुवः

पितृ

ऋकारान्तः पुंलिङ्गः "पितृ" शब्दः

पिता

पितरौ

पितरः

कर्तृ

ऋकारान्तः पुंलिङ्गः "कर्तृ" शब्दः

कर्ता

कर्तारौ

कर्तारः

नप्तृ

ऋकारान्तः पुंलिङ्गः "नप्तृ" शब्दः

नप्ता

नप्तारौ

नप्तारः

मातृ

ऋकारान्तः स्त्रीलिङ्गः "मातृ" शब्दः

माता

मातरौ

मातरः

स्वसृ

ऋकारान्तः स्त्रीलिङ्गः "स्वसृ" शब्दः

स्वसा

स्वसारौ

स्वसारः

कर्तृ

ऋकारान्तः नपुंसकलिङ्गः "कर्तृ" शब्दः

कर्तृ

कर्तृणी

कर्तॄणि

6 of 15

शब्दः / पदम्

प्रातिपदिकम्

एकवचनम्

द्विवचनम्

बहुवचनम्

अ-पुंलिङ्गशब्दः

राम

रामस्य

रामयोः

रामाणाम्

अ - पु - शब्दः

-अ

-स्य

-(ह्रस्व)+योः

-(दीर्घ)+नाम्

आ-स्त्रीलिङ्गशब्दः

सीता

सीतायाः

सीतयोः

सीतानाम्

आ - स्त्री – शब्दः

-आ

-याः

-(ह्रस्व)+योः

-(दीर्घ)+नाम्

अ-नपुंसकलिङ्गशब्दः

फल

फलस्य

फलयोः

फलानाम्

अ - नपुं – शब्दः

-अ

-स्य

-(ह्रस्व)+योः

-(दीर्घ)+नाम्

अ/आ – कारान्त - पुंलिङ्ग/स्त्रीलिङ्ग/नपुंसकलिङ्ग - शब्दाः

7 of 15

शब्दः / पदम्

प्रातिपदिकम्

एकवचनम्

द्विवचनम्

बहुवचनम्

इ-पुंलिङ्गशब्दः

हरि

हरेः

हर्योः

हरीणाम्

इ-स्त्रीलिङ्गशब्दः

मति

मतेः/मत्याः

मत्योः

मतीनाम्

इ - पु/स्त्री - शब्दः

-इ

-(लोपः)+एः

-(लोपः)+योः

-(दीर्घ)+नाम्

उ-पुंलिङ्गशब्दः

गुरु

गुरोः

गुर्वोः

गुरूणाम्

उ-स्त्रीलिङ्गशब्दः

धेनु

धेनोः/धेन्वाः

धेन्वोः

धेनूनाम्

उ - पु/स्त्री – शब्दः

-उ

-(लोपः)+ओः

-(लोपः)+वोः

-(दीर्घ)+नाम्

ऋ-पुंलिङ्गशब्दः

पितृ

पितुः

पित्रोः

पितॄणाम्

ऋ-स्त्रीलिङ्गशब्दः

मातृ

मातुः

मात्रोः

मातॄणाम्

ऋ - पु/स्त्री – शब्दः

-ऋ

-(लोपः)+उः

-(लोपः)+रोः

-(दीर्घ)+नाम्

इ/उ/ऋ – कारान्त - पुंलिङ्ग/स्त्रीलिङ्ग - शब्दाः

इ य्

इ ए

उ व्

उ ओ

र्

8 of 15

शब्दः / पदम्

प्रातिपदिकम्

एकवचनम्

द्विवचनम्

बहुवचनम्

ई-स्त्रीलिङ्गशब्दः

नदी

नद्याः

नद्योः

नदीनाम्

ई - स्त्री – शब्दः

-ई

-(लोपः)+याः

-(लोपः)+योः

-नाम्

ई-स्त्रीलिङ्गशब्दः

स्त्री

स्त्रियाः

स्त्रियोः

स्त्रीणाम्

ई - स्त्री – शब्दः

-ई

-(ह्रस्व)+याः

-(ह्रस्व)+योः

-नाम्

ऊ-स्त्रीलिङ्गशब्दः

वधू

वध्वाः

वध्वोः

वधूनाम्

ऊ - स्त्री – शब्दः

-ऊ

-(लोपः)+वाः

-(लोपः)+वोः

-नाम्

ऊ-स्त्रीलिङ्गशब्दः

सू

सुवाः

सुवोः

सूनाम्

ऊ - स्त्री – शब्दः

-ऊ

-(ह्रस्व)+वाः

-(ह्रस्व)+वोः

-नाम्

ई / ऊ – कारान्त - स्त्रीलिङ्ग - शब्दाः

य्

व्

स्त्री, धातुरूपाः

धातुरूपाः

9 of 15

शब्दः / पदम्

प्रातिपदिकम्

एकवचनम्

द्विवचनम्

बहुवचनम्

इ-नपुंसकलिङ्गशब्दः

वारि

वारिणः

वारिणोः

वारीणाम्

इ - नपुं – शब्दः

-इ

-नः

-नोः

-(दीर्घ)+नाम्

इ-नपुंसकलिङ्गशब्दः

दधि

दध्नः

दध्नोः

दध्नाम्

**इ - नपुं – शब्दः

-इ

-(लोपः)+नः

-(लोपः)+नोः

-(लोपः)+नाम्

उ-नपुंसकलिङ्गशब्दः

मधु

मधुनः

मधुनोः

मधूनाम्

उ - नपुं – शब्दः

-उ

-नः

-नोः

-(दीर्घ)+नाम्

ऋ-नपुंसकलिङ्गशब्दः

कर्तृ

कर्तुः/कर्तृणः

कर्त्रोः/कर्तृणोः

कर्तॄणाम्

ऋ - नपुं – शब्दः

-ऋ

-नः

-नोः

-(दीर्घ)+नाम्

इ/उ/ऋ – कारान्त - नपुंसकलिङ्ग - शब्दाः

X न्

अस्थि,

सक्थि,

अक्षि

10 of 15

षष्ठीविभक्तिः - पुंलिङ्ग/स्त्रीलिङ्ग/नपुंसकलिङ्ग - शब्दाः

प्रातिपदिकम्

शब्द – परिचयः

एकवचनम्

द्विवचनम्

बहुवचनम्

राम

अकारान्तः पुंलिङ्गः "राम" शब्दः

रामस्य

रामयोः

रामाणाम्

फल

अकारान्तः नपुंसकलिङ्गः "फल" शब्दः

फलस्य

फलयोः

फलानाम्

सीता

आकारान्तः स्त्रीलिङ्गः "सीता" शब्दः

सीतायाः

सीतयोः

सीतानाम्

हरि

इकारान्तः पुंलिङ्गः "हरि" शब्दः

हरेः

हर्योः

हरीणाम्

मति

इकारान्तः स्त्रीलिङ्गः "मति" शब्दः

मतेः/मत्याः

मत्योः

मतीनाम्

वारि

इकारान्तः नपुंसकलिङ्गः "वारि" शब्दः

वारिणः

वारिणोः

वारीणाम्

दधि

इकारान्तः नपुंसकलिङ्गः "दधि" शब्दः

दध्नः

दध्नोः

दध्नाम्

नदी

ईकारान्तः स्त्रीलिङ्गः "नदी" शब्दः

नद्याः

नद्योः

नदीनाम्

लक्ष्मी

(अवी / तन्त्री / स्तरी / तरी)

ईकारान्तः स्त्रीलिङ्गः "लक्ष्मी" शब्दः

लक्ष्म्याः

लक्ष्म्योः

लक्ष्मीणाम्

स्त्री

ईकारान्तः स्त्रीलिङ्गः "स्त्री" शब्दः

स्त्रियाः

स्त्रियोः

स्त्रीणाम्

धी (भी / श्री / ह्री)

ईकारान्तः स्त्रीलिङ्गः "धी" शब्दः

धियाः

धियोः

धीनाम्

11 of 15

षष्ठीविभक्तिः - पुंलिङ्ग/स्त्रीलिङ्ग/नपुंसकलिङ्ग - शब्दाः

प्रातिपदिकम्

शब्द – परिचयः

एकवचनम्

द्विवचनम्

बहुवचनम्

गुरु

उकारान्तः पुंलिङ्गः "गुरु" शब्दः

गुरोः

गुर्वोः

गुरूणाम्

धेनु

उकारान्तः स्त्रीलिङ्गः "धेनु" शब्दः

धेनोः/धेन्वाः

धेन्वोः

धेनूनाम्

मधु

उकारान्तः नपुंसकलिङ्गः "मधु" शब्दः

मधुनः

मधुनोः

मधूनाम्

वधू

(चमू / चञ्चू)

ऊकारान्तः स्त्रीलिङ्गः "वधू" शब्दः

वध्वाः

वध्वोः

वधूनाम्

सू

(भू / भ्रू / जू / सुभ्रू)

ऊकारान्तः स्त्रीलिङ्गः "सू" शब्दः

सुवाः

सुवोः

सूनाम्

पितृ

ऋकारान्तः पुंलिङ्गः "पितृ" शब्दः

पितुः

पित्रोः

पितॄणाम्

कर्तृ

ऋकारान्तः पुंलिङ्गः "कर्तृ" शब्दः

कर्तुः

कर्त्रोः

कर्तॄणाम्

नप्तृ

ऋकारान्तः पुंलिङ्गः "नप्तृ" शब्दः

नप्तुः

नप्त्रोः

नप्तॄणाम्

मातृ

ऋकारान्तः स्त्रीलिङ्गः "मातृ" शब्दः

मातुः

मात्रोः

मातॄणाम्

स्वसृ

ऋकारान्तः स्त्रीलिङ्गः "स्वसृ" शब्दः

स्वसुः

स्वस्रोः

स्वसॄणाम्

कर्तृ

ऋकारान्तः नपुंसकलिङ्गः "कर्तृ" शब्दः

कर्तुः/कर्तृणः

कर्त्रोः/कर्तृणोः

कर्तॄणाम्

12 of 15

कुत्र कुत्र षष्ठीविभक्तेः प्रयोगः ?

  • सम्बन्ध-वाचक - पदस्य |

उदा : दशरथस्य पुत्रः | लक्ष्म्याः भक्तः | तस्याः स्यूतः |

  • निर्धारणार्थे |

उदा : कवीनां कालिदासः श्रेष्ठः| योगानां भक्तिमार्गः सरलः|

  • पुरतः, पृष्ठतः, वामतः, दक्षिणतः, उपरि, अधः, अन्तः, बहिः - एतेषां पदानां योगे |

उदा : गृहस्य बहिः | पात्रस्य अन्तः |

अवधेयम् -

निर्धारणार्थे सप्तमी अपि साधु |

कविषु कालिदासः श्रेष्ठः|

योगेषु भक्तिमार्गः सरलः|

अवधेयम् -

अ. ‘बहिः’ इत्यस्य योगे पञ्चमी अपि साधु | गृहात् बहिः | गृहस्य बहिः |

आ. ‘परितः, अभितः, उभयतः’ इत्येषां योगे द्वितीया एव | गृहं परितः |

13 of 15

कुत्र कुत्र षष्ठीविभक्तेः प्रयोगः ?

  • मध्ये, योगे, समीपं, समक्षं, कृते, पार्श्वे, अनन्तरम् - एतेषां पदानां योगे |

हे कृष्ण ! सेनयोः मध्ये रथं स्थापयतु | उक्तानां पदानां योगे षष्ठीविभक्तिः |

एतत् फलं पुत्रस्य कृते | नगरस्य समीपं नदी वहति | गुरोः समक्षं छात्रः उपविशति |

  • भाववाचक-शब्दानां (ल्युट्(अन)-ण्वुल्(अक) प्रत्ययान्तानां) योगे |

श्लोकस्य पठनं करोमि | यानस्य चालकः एषः |

  • तुल्यार्थानां योगे |

चन्द्रस्य सदृशं मुखम् | पुत्री मातुः तुल्या |

अवधेयम् -

तुल्यार्थैः योगे तृतीया अपि साधु |

चन्द्रेण सदृशं मुखम् | पुत्री मात्रा तुल्या |

14 of 15

शान्ति-मन्त्रः

सर्वे भवन्तु सुखिनः

सर्वे सन्तु निरामयाः

सर्वे भद्राणि पश्यन्तु

मा कश्चित् दुःखभाग् भवेत् ||

ॐ शान्ति: शान्ति: शान्ति:

May all be Happy.

May all be free from illness.

May all see what is auspicious.

May no one suffer.

Om, Peace Peace, Peace

15 of 15

धन्यवादाः