1 of 21

श्रीः �केन्बरासंस्कृतवर्गः२९.०९.२०२१

1

तेन कृतम्। सः कृतवान्। तया श्रुतम्। सा श्रुतवती।

अहं मया त्वं त्वया रामः रामेण सीता सीतया सा तया।

धातुः

क्त-रूपम्

क्तवतु - रूपम्

कृत कृता

कृतवान् कृतवती

श्रुत श्रुता

श्रुतवान् श्रुतवती

हृत हृता

हृतवान् हृतवती

स्मृत स्मृता

स्मृवान् स्मृवती

क्रीत क्रीता

क्रीतवान् क्रीतवती

ज्ञात ज्ञाता

ज्ञातवान् ज्ञातवती

2 of 21

॥श्रीरामोदन्तम् – सुन्दरकाण्डः १२

ततः शक्रजिता युद्धे बद्धः पवननन्दनः।

प्रतापं रघुनाथस्य रावणाय न्यवेदयत्॥५.१२॥

शक्रजित् रावणपुत्रः इति त्रिकाण्डशेषः।

बधँ संयमने + क्त + सुँ = बद्धः

बध् त = बध् ध झषस्तथोर्धोऽघः (८.२.४०)

बध् ध = बद्ध झलां जश् झशि (८.४.५३)

3 of 21

॥श्रीरामोदन्तम् – सुन्दरकाण्डः १३

रक्षोदीपितलाङ्गूलः स तु लङ्कामशेषतः।

दग्ध्वा सागरमुत्तीर्य वानरान् समुपागमत्॥५.१३॥

रक्षोभिः दीपितः लाङ्गूलः - रक्षोदीपितलाङ्गूलः

दहँ भस्मीकरणे + क्त्वा - समानकर्तृकयोः पूर्वकाले (३.४.२१)

दघ् त्वा दादेर्धातोर्घः (८.२.३२)

दघ् ध्वा झषस्तथोर्धोऽघः (८.२.४०)

दग्ध्वा झलां जश् झशि (८.४.५३)

4 of 21

॥श्रीरामोदन्तम् – सुन्दरकाण्डः १४

स गत्वा वानरैः साकं राघवायात्मना कृतम्।

निवेदयित्वा सकलं ददौ चूडामणिं च तम्॥५.१४॥

पूर्णम्, अखिलम्, कृत्स्नम्, सर्वम्, अनूनकम्, सकलम्, निखिलम्, अशेषम्, समम्, अखण्डम्, निःशेषम्, समस्तम्, विश्वम्, समग्रम्।

॥इति श्रीरामोदन्ते सुन्दरकाण्डः समाप्तः॥

5 of 21

गृहकार्यम् – १५.०९.२०२१

https://chitrapurmath.net/documents/cards/Colours/index.html - अस्मात् जालपत्रात् वर्णनामानि स्मरतु।

जालपत्राणि अदृष्टम् अनुवादं करोतु। शब्दकोषे शब्दार्थाः विचेतुं शक्यन्ते।

सहसा विदधीत न क्रियामविवेकः परमापदां पदम्।

वृणते हि विमृष्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः॥

किरातार्जुनीयम् २.३०

5

6 of 21

नामप्रकरणम् - ३

  1. मम नाम । तव/भवतः/भवत्याः/तस्य/तस्याः किन्नामास्ति?
  2. मम भ्रातुः/भगिन्याः/पितुः/मातुः/पुत्रस्य/कन्यायाः नाम –।
  3. अहम्/आवाम्/वयम्/त्वम्/युवाम्/यूयम्/सः/तौ/ते/सा/ते/ताः/भवान्/भवन्तौ/भवन्तः/भवती/भवत्यौ/भवत्यः केन्बरानगरे – (वसँ निवासे – वसति इत्यादीनि रूपाणि) ।
  4. अहं नामधेया /नामधेयः।
  5. अहं नगरवासी/नगरवासिनी।

6

7 of 21

नामप्रकरणम् - ४

  1. कोऽभिजनस्तव वर्तते? तव जन्मदेशः को विद्यते?
  2. भवन्तः कुत्रत्याः? वयं स्मः। तत्र का पुर् वा?
  3. इमे क्व निवसन्ति?
  4. अयं किमधीते?
  5. हरिणा किमधितम्?
  6. अयं भवदीयः पुत्रः किं प्रचर्चयति?
  7. त्वं कस्माद् अधीषे?

7

8 of 21

सार्वधातुकम् - आर्द्धधातुकम्

तिङः – तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् (३.४.७८)

तिप् तस् झि सिप् थस् थ मिप् वस् मस् त आताम् झ थास् आथाम् ध्वम् इट् वहि महिङ्

शित् – शप्, श्यन्, शतृ, शानच् इत्यादयः।

णिच्, उ, क्त, क्तवतु, इत्यादयः।

  • लिट् च (३.४.११५)

लिट्-लकारस्य तिङ्-प्रत्ययाः साक्षात् आर्द्धधातुकाः।

  • लिङाशिषि (३.४.११६)

आहीर्लिङ्-लकारस्य तिङ्-प्रत्ययाः साक्षात् आर्द्धधातुकाः।

Sowmya Krishnapur for Vyoma-samskrta-pathashala, ©2014

9 of 21

इडागमः

  • आर्धधातुकस्येड् वलादेः (७.२.३५)
  • आर्धधातुकस्य ६.१
  • अनुवृत्तिः
  • अधिकारः – अङ्गस्य ६.१
  • परिभाषया
  • सम्पूर्णसूत्रम् – वलादेः आर्धधातुकस्य इट्
  • सूत्रार्थः – वलादि-आर्धधातुक-प्रत्ययस्य इट्-आगमः भवति।
  • यथा – पठ् + स्य + तिप् = पठिष्यति। पठ् + क्त = पठित। अर्च् + तृच्अर्चिता। लिख् + स्य + तिप् → लेखिष्यति।
  • अ इ उ ण्। ऋ ऌ क्। ए ओ ङ्। ऐ औ च्। ह य व र ट्। ण्। ञ म ङ ण न म्। झ भ ञ्। घ ढ ध ष्। ज ब ग ड द श्। ख फ छ ठ थ च ट त व्। क प य्। श ष स र्। ल्।

Sowmya Krishnapur for Vyoma-samskrta-pathashala, ©2014

10 of 21

अङ्गकार्यम् - गुणः

Sowmya Krishnapur for Vyoma-samskrta-pathashala, ©2014

11 of 21

अङ्गकार्यम् - गुणः

  • पुगन्तलघूपधस्य च (७.३.८६)
  • पुगन्त-लघूपधस्य ६.१, च
  • अनुवृत्तिः – सार्वधातुक-आर्द्धधातुकयोः ७.२, गुणः १.१
  • अधिकारः – अङ्गस्य ६.१
  • परिभाषया – इकः ६.१ (इको गुणवृद्धी १.१.३)
  • सूत्रार्थः – पुगन्तस्य लघूपधस्य च अङ्गस्य इकः गुणः स्यात् सार्वधातुक-आर्द्धधातुकयोः परयोः
  • यथा – विद् + घञ् (अ) = वेद, लिख् + घञ् = लेख, क्षिप् + घञ् = क्षेप, दिश् + घञ् = देश, कृष् + शप् + तिप् = कर्षति।
  • ह्री लज्जायाम् + पुक् + णिच् + शप् + तिप् = ह्रे प् इ + अ + ति = ह्रेपयति। अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ (७.३.३६)।

Sowmya Krishnapur for Vyoma-samskrta-pathashala, ©2014

12 of 21

गुणवृद्ध्योः निषेधः

  • क्ङिति च (१.१.५)
  • सूत्रच्छेदः –  क्ङिति सप्तमी-एकवचनम् , च अव्ययम्
  • अनुवृत्तिः  –  इकः१.१.३ , गुण-वृद्धी१.१.३ , न१.१.४
  • अधिकारः  –
  • सम्पूर्णसूत्रम्  –  क्ङिति इकः गुणवृद्धी न
  • सूत्रार्थः  –  कित्, गित्, ङित् प्रत्ययस्य उपस्थितौ इक्-वर्णस्य गुणवृद्धी प्रतिषिध्येते ।
  • यदि कस्मिंश्चित् प्रत्यये ककारः/गकारः/ङकारः इत्संज्ञकः अस्ति, तर्हि तस्य प्रत्ययस्य उपस्थितौ अङ्गस्य अन्तिम इक्-वर्णस्य यद्यपि केनापि सूत्रेण गुणः वृद्धिः वा भवितुमर्हतः, तथापि तौ न भवतः।
  • यथा – लिख् (लिखँ अक्षरविन्यासे) + क्त्वा = लिखित्वा।

Sowmya Krishnapur for Vyoma-samskrta-pathashala, ©2014

13 of 21

डुकृञ् करणे तनादिः उभयपदी सकर्मकः अनिट् (to do)

एक॰

द्वि॰

ब॰

प्र॰

तिप्

तस्

झि

म॰

सिप्

थस्

उ॰

मिप्

वस्

मस्

लृट्

एक॰

द्वि॰

ब॰

प्र॰

करिष्यति

करिष्यतः

करिष्यन्ति

म॰

करिष्यसि

करिष्यथः

करिष्यथ

उ॰

करिष्यामि

करिष्यावः

करिष्यामः

लोट्

एक॰

द्वि॰

ब॰

प्र॰

करोतु

कुरुताम्

कुर्वन्तु

म॰

कुरु

कुरुतम्

कुरुत

उ॰

कर्वाणि

करवाव

करवाम

लङ्

एक॰

द्वि॰

ब॰

प्र॰

अकरोत्

अकुरुताम्

अकुर्वन्

म॰

अकरोः

अकुरुतम्

अकुरुत

उ॰

अकरवम्

अकुर्व

अकुर्म

लिङ्

एक॰

द्वि॰

ब॰

प्र॰

कुर्यात्

कुर्याताम्

कुर्युः

म॰

कुर्याः

कुर्यातम्

कुर्यात

उ॰

कुर्याम्

कुर्याव

कुर्याम

लट्

एक॰

द्वि॰

ब॰

प्र॰

करोति

कुरुतः

कुर्वन्ति

म॰

करोषि

कुरुथः

कुरुथ

उ॰

करोमि

कुर्वः

कुर्मः

14 of 21

डुलभँष् प्राप्तौ भ्वादिः आत्मनेपदी सकर्मकः अनिट् (to get)

एक॰

द्वि॰

ब॰

प्र॰

शप्

शप् आताम्

शप्

म॰

शप् थास्

शप् आथाम्

शप् ध्वम्

उ॰

शप् इट्

शप् वहि

शप् महिङ्

लृट्

एक॰

द्वि॰

ब॰

प्र॰

लप्स्यते

लप्स्येते

लप्स्यन्ते

म॰

लप्स्यसे

लप्स्येथे

लप्स्यध्वे

उ॰

लप्स्ये

लप्स्यावहे

लप्स्यामहे

लोट्

एक॰

द्वि॰

ब॰

प्र॰

लभताम्

लभेताम्

लभन्ताम्

म॰

लभस्व

लभेथाम्

लभध्वम्

उ॰

लभै

लभावहै

लभामहै

लङ्

एक॰

द्वि॰

ब॰

प्र॰

अलभत

अलभेताम्

अलभन्त

म॰

अलभथाः

अलभेथाम्

अलभध्वम्

उ॰

अलभे

अलभावहि

अलभामहि

लिङ्

एक॰

द्वि॰

ब॰

प्र॰

लभेत

लभेयाताम्

लभेरन्

म॰

लभेथाः

लभेयाथाम्

लभेध्वम्

उ॰

लभेय

लभेवहि

लभेमहि

लट्

एक॰

द्वि॰

ब॰

प्र॰

लभते

लभेते

लभन्ते

म॰

लभसे

लभेथे

लभध्वे

उ॰

लभे

लभावहे

लभामहे

15 of 21

शकॢँ शक्तौ स्वादिः परस्मैपदी अकर्मकः अनिट् (to be able)

एक॰

द्वि॰

ब॰

प्र॰

श्नु तिप्

श्नु तस्

श्नु झि

म॰

श्नु सिप्

श्नु थस्

श्नु

उ॰

श्नु मिप्

श्नु वस्

श्नु मस्

लृट्

एक॰

द्वि॰

ब॰

प्र॰

शक्ष्यति

शक्ष्यतः

शक्ष्यन्ति

म॰

शक्ष्यसि

शक्ष्यथः

शक्ष्यथ

उ॰

शक्ष्यामि

शक्ष्यावः

शक्ष्यामः

लोट्

एक॰

द्वि॰

ब॰

प्र॰

शक्नोतु

शक्नुताम्

शक्नुवन्तु

म॰

शक्नुहि

शक्नुतम्

शक्नुत

उ॰

शक्नवानि

शक्नवाव

शक्नवाम

लङ्

एक॰

द्वि॰

ब॰

प्र॰

अशक्नोत्

अशक्नुताम्

अशक्नुवन्

म॰

अशक्नोः

अशक्नुतम्

अशक्नुत

उ॰

अशक्नवम्

अशक्नुव

अशक्नुम

लिङ्

एक॰

द्वि॰

ब॰

प्र॰

शक्यात्

शक्यास्ताम्

शक्यासुः

म॰

शक्याः

शक्यास्तम्

शक्यास्त

उ॰

शक्यासम्

शक्यास्व

शक्यास्म

लट्

एक॰

द्वि॰

ब॰

प्र॰

शक्नोति

शक्नुतः

शक्नुवन्ति

म॰

शक्नोषि

शक्नुथः

शक्नुथ

उ॰

शक्नोमि

शक्नुवः

शक्नुमः

16 of 21

कृदन्तप्रत्ययाः – डुदाञ् दाने जुहोत्यादिः उभयपदी सकर्मकः अनिट्

१. ण्वुल् (वु → अक) – दायकः

२. तृच् (तृन्) (तृ) – दाता

३. शतृँ/शानच् (अत्/आन) ददत् ददानः

४. स्य + शतृँ/शानच् (अत्/आन) – दास्यन्

५क. णिच् (इ) + शतृँ (अत्) दापयन्

५ख. णिच् (इ) + शानच् (आन) दापयमानः

६. यक् (य) + शानच् (आन) – दीयमानः

७. क्त (त) – दत्तः

८. क्तवतुँ (तवत्) – दत्तवान् दत्तवती

९. तव्यत् (तव्य) दातव्यम्

16

१०. अनीयर् (अनीय) – दानीयम्

११. ण्यत्/यत् (य) – देयम्

१२. घञ्/अच् (अ) दायः

१३. क्तिन् (ति) – दत्ति

१४. सन् (स) + अ – दित्सा

१५. ल्युट् (यु → अन) (भावे) – दानम्

१६. तुमुँन् (तुम्) दातुम्

१७. क्त्वा (त्वा) – दत्त्वा

१८. ल्यप् (य) – प्रदाय

१९. णमुँल् (अम्) दायम् दायम्

17 of 21

नदी – ईकारान्त स्त्रीलिङ्गः (River)

अश्रद्धया हुतं दत्तं तपस्तप्तं कृतम् च यत्। असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह॥गीता १७.२८॥

एकवचनम्

द्विवचनम्

बहुवचनम्

प्रथमा

नदी

नद्यौ

नद्यः

द्वितीया

नदीम्

नद्यौ

नदीः

तृतीया

नद्या

नदीभ्याम्

नदीभिः

चतुर्थी

नद्यै

नदीभ्याम्

नदीभ्यः

पञ्चमी

नद्याः

नदीभ्याम्

नदीभ्यः

षष्ठी

नद्याः

नद्योः

नदीनाम्

सप्तमी

नद्याम्

नद्योः

नदीषु

सम्बोधनम्

हे नदि

हे नद्यौ

हे नद्यः

18 of 21

मित्रलाभः – प्रथमा कथा – २१

अतस्त्वं मां मैत्र्येणानुग्रहीतुम् अर्हसि । एतच्छ्रुत्वा हिरण्यकोऽपि विवराभ्यन्तराद् आह – कस्त्वम्। स ब्रूते – लघुपतनकनामा वायसोऽहम्। हिरण्यको विहस्याह का त्वया सह मैत्री।

यतः –

यद् येन युज्यते लोके बुधस्तत् तेन योजयेत्।

अहम् अन्नं भवान् भोक्ता कथं प्रीतिर्भविष्यति॥५४॥

अपरं च –

भक्ष्यभक्षकयोः प्रीतिर्विपत्तेः कारणं मतम्।

शृगालात् पाशबद्धोऽसौ मृगः काकेन रक्षितः॥५५॥

वायसोऽब्रवीत्कथम् एतत्। हिरण्यकः कथयति –

19 of 21

मित्रलाभः – द्वितीया कथा – १

अस्ति मगधदेशे चम्पकवती नाम अरण्यानी । तस्यां चिरात् महता स्नेहेन मृगकाकौ निवसतः। स च मृगः स्वेच्छया भ्राम्यन् हृष्टपुष्टाङ्गः केनचित् शृगालेनावलोकितः। तं दृष्ट्वा शृगालोऽचिन्तयत् – कथम् एतन्मांसं सुललितं भक्षयामि। भवतु। विश्वासं तावद् उत्पादयामि। इति आलोच्य उपसृत्याब्रवीत् – मित्रं ! कुशलं ते। मृगेणोक्तम् – कस्त्वम्। स ब्रूते क्षुद्रबुद्धिनामा जम्बुकोऽहम्। अत्रारण्ये बन्धुहीनो मृतवत् एकाकी निवसामि। इदानीं त्वां मित्रम् आसाद्य पुनः सबन्धुर्जीवलोकं प्रविष्टोऽस्मि। अधुना तवानुचरेण मया सर्वथा भवितव्यम् इति । मृगेणोक्तम् - एवम् अस्तु।

20 of 21

मित्रलाभः – द्वितीया कथा – २

ततः पश्चाद् अस्तं गते सवितरि भगवति मरीचिमालिनि तौ मृगस्य वासभूमिं गतौ। तत्र चम्पकवृक्षशाखायां सुबुद्धिनामा काको मृगस्य चिरमित्रं निवसति। तौ दृष्ट्वा काकोऽवदत् – सखे चित्राङ्ग ! कोऽयं द्वितीयः। मृगो ब्रूते – जम्बुकोऽयम्। अस्मत्सख्यमिच्छन्नागतः। काको ब्रूते - मित्र ! अकस्माद् आगन्तुना सह मैत्री न युक्ता। तन्न भद्रम् आचरितम्। तथा चोक्तम् –

अज्ञातकुलशीलस्य वासो देयो न कस्यचित् ।

मार्जारस्य हि दोषेण हतो गृध्रो जरद्गवः॥५६॥

तौ आहतुः – कथम् एतत्। काकः कथयति –

21 of 21

गृहकार्यम् – २९.०९.२०२१

https://chitrapurmath.net/documents/cards/Colours/index.html - अस्मात् जालपत्रात् वर्णनामानि स्मरतु।

जालपत्राणि अदृष्टम् अनुवादं करोतु। शब्दकोषे शब्दार्थाः विचेतुं शक्यन्ते।

केयूरा न विभूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वला

न स्नानं न विलेपनं न कुसुमं नालङ्कृता मूर्धजाः।

(सा) वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते

क्षीयन्ते खलु भूषणानि सततं वाग्भूषणम् भूषणम्॥

21

भूषँ अलङ्करणे (चुरादिः उभयपदी सकर्मकः सेट्)

अलँ भूषणपर्याप्तिवारणेषु क्षि क्षये

केयूरम् – के बाहुशिरसि भूषणतां याति,  केयूरः, पुं, रतिबन्धविशेषः

केयूराणि न भूषयन्ति