1 of 5

॥श्री:॥�केन्बरासंस्कृतवर्गः�३०.११.२०२२�महाकविभासप्रणीतं स्वप्नवासवदत्तम्॥�॥चतुर्थोऽङ्कः॥

1

2 of 5

राजा - (सविषादम्) एवम्। उपरता वासवदत्ता। वयस्य !

अनेन परिहासेन व्याक्षिप्तं मे मनस्त्वया।

ततो वाणी तथैवेयं पूर्वाभ्यासेन निस्सृता॥५॥

पद्मावती - रमणीयः खलु कथायोगो नृशंसेन विसंवादितः।

वासवदत्ता - (आत्मगतम्) भवतु भवतु, विश्वस्तास्मि। अहो प्रियं नाम, ईदृशं वचनमप्रत्यक्षं श्रूयते।

विदूषकः - धारयतु धारयतु भवान्। अनतिक्रमणीयो हि विधिः। ईदृशमिदानीमेतत्।

राजा - वयस्य! न जानाति भवानवस्थाम् । कुतः,

दुःखं त्यक्तुं बद्धमूलोऽनुरागः

स्मृत्वा स्मृत्वा याति दुःखं नवत्वम्।

यात्रा त्वेषा यद् विमुच्येह बाष्पं

प्राप्तानृण्या याति बुद्धिः प्रसादम्॥६॥

3 of 5

विदूषक: - अश्रुपातक्लिन्नं खलु तत्रभवतो मुखम् । यावन्मुखोदकमानयामि ।) (निष्कान्तः।)

पद्मावती - आर्ये! बाष्पाकुलपटान्तरितमार्यपुत्रस्य मुखम् । यावन्निष्क्रामामः।

वासवदत्ता - एवं भवतु । अथवा तिष्ठ त्वम्। उत्कण्ठितं भर्तारमुज्झित्वायुक्तं निर्गमनम् । अहमेव गमिष्यामि ।

चेटी - सुष्ट्वार्या भणति । उपसर्पतु तावद् भर्तृदारिका ।

पद्मावती - किं नु खलु प्रविशामि ।

वासवदत्ता - हला! प्रविश। (प्रविश्य)

विदूषक - (नलिनीपत्रेण जलं गृहीत्वा) एषा तत्रभवती पद्मावती ।

पद्मावती - आर्य वसन्तक! किमेतत्।

विदूषकः - एतदिदम् । इदमेतत् ।

पद्मावती - भणतु भणत्वार्यो भणतु।

4 of 5

विदूषकः - भवति! वातनीतेन काशकुसुमरेणुनाक्षिनिपतितेन साश्रुपातं खलु तत्रभवतो मुखम् । तद् गृह्णातु भवतीदं मुखोदकम्।

पद्मावती - (आत्मगतम्) अहो सदाक्षिण्यस्य जनस्य परिजनोऽपि सदाक्षिण्य एव भवति। (उपेत्य) जयत्वार्यपुत्रः। इदं मुखोदकम् ।

राजा - अये पद्मावती । (अपवार्य) वसन्तक किमिदम्।

विदूषक: - (कर्णे) एवमिव।

राजा - साधु वसन्तक ! साधु। (आचम्य) पद्मावति ! आस्यताम् ।

पद्मावती - यदार्यपुत्र आज्ञापयति। (उपविशति)

राजा - पद्मावति !

शरच्छशाङ्कगौरेण वाताविद्धेन भामिनि ।

काशपुष्पलवेनेदं साश्रुपातं मुखं मम ॥ ७ ॥

5 of 5

राजा - (आत्मगतम्)

इयं बाला नवोद्वाहा सत्यं श्रुत्वा व्यथां व्रजेत् ।

कामं धीरस्वभावेयं स्त्रीस्वभावस्तु कातरः ॥ ८ ॥

विदूषकः - उचितं तत्रभवतो मगधराजस्यापराह्णकाले भवन्तमग्रतः कृत्वा सुहृज्जनदर्शनम् । सत्कारो हि नाम सत्कारेण प्रतीप्सितः प्रीतिमुत्पादयति । तदुत्तिष्ठतु तावद् भवान् ।

राजा - बाढम् । प्रथमः कल्पः । (उत्थाय)

गुणानां वा विशालानां सत्काराणां च नित्यशः।

कर्तार: सुलभा लोके विज्ञातारस्तु दुर्लभाः॥८॥

(निष्क्रान्ताः सर्वे।)

इति चतुर्थोऽङ्कः।