॥श्री:॥�केन्बरासंस्कृतवर्गः�३०.११.२०२२�॥महाकविभासप्रणीतं स्वप्नवासवदत्तम्॥�॥चतुर्थोऽङ्कः॥
1
॥ स्वप्नवासवदत्तम् ॥
राजा - (सविषादम्) एवम्। उपरता वासवदत्ता। वयस्य !
अनेन परिहासेन व्याक्षिप्तं मे मनस्त्वया।
ततो वाणी तथैवेयं पूर्वाभ्यासेन निस्सृता॥५॥
पद्मावती - रमणीयः खलु कथायोगो नृशंसेन विसंवादितः।
वासवदत्ता - (आत्मगतम्) भवतु भवतु, विश्वस्तास्मि। अहो प्रियं नाम, ईदृशं वचनमप्रत्यक्षं श्रूयते।
विदूषकः - धारयतु धारयतु भवान्। अनतिक्रमणीयो हि विधिः। ईदृशमिदानीमेतत्।
राजा - वयस्य! न जानाति भवानवस्थाम् । कुतः,
दुःखं त्यक्तुं बद्धमूलोऽनुरागः
स्मृत्वा स्मृत्वा याति दुःखं नवत्वम्।
यात्रा त्वेषा यद् विमुच्येह बाष्पं
प्राप्तानृण्या याति बुद्धिः प्रसादम्॥६॥
॥ स्वप्नवासवदत्तम् ॥
विदूषक: - अश्रुपातक्लिन्नं खलु तत्रभवतो मुखम् । यावन्मुखोदकमानयामि ।) (निष्कान्तः।)
पद्मावती - आर्ये! बाष्पाकुलपटान्तरितमार्यपुत्रस्य मुखम् । यावन्निष्क्रामामः।
वासवदत्ता - एवं भवतु । अथवा तिष्ठ त्वम्। उत्कण्ठितं भर्तारमुज्झित्वायुक्तं निर्गमनम् । अहमेव गमिष्यामि ।
चेटी - सुष्ट्वार्या भणति । उपसर्पतु तावद् भर्तृदारिका ।
पद्मावती - किं नु खलु प्रविशामि ।
वासवदत्ता - हला! प्रविश। (प्रविश्य)
विदूषक - (नलिनीपत्रेण जलं गृहीत्वा) एषा तत्रभवती पद्मावती ।
पद्मावती - आर्य वसन्तक! किमेतत्।
विदूषकः - एतदिदम् । इदमेतत् ।
पद्मावती - भणतु भणत्वार्यो भणतु।
॥ स्वप्नवासवदत्तम् ॥
विदूषकः - भवति! वातनीतेन काशकुसुमरेणुनाक्षिनिपतितेन साश्रुपातं खलु तत्रभवतो मुखम् । तद् गृह्णातु भवतीदं मुखोदकम्।
पद्मावती - (आत्मगतम्) अहो सदाक्षिण्यस्य जनस्य परिजनोऽपि सदाक्षिण्य एव भवति। (उपेत्य) जयत्वार्यपुत्रः। इदं मुखोदकम् ।
राजा - अये पद्मावती । (अपवार्य) वसन्तक किमिदम्।
विदूषक: - (कर्णे) एवमिव।
राजा - साधु वसन्तक ! साधु। (आचम्य) पद्मावति ! आस्यताम् ।
पद्मावती - यदार्यपुत्र आज्ञापयति। (उपविशति)
राजा - पद्मावति !
शरच्छशाङ्कगौरेण वाताविद्धेन भामिनि ।
काशपुष्पलवेनेदं साश्रुपातं मुखं मम ॥ ७ ॥
॥ स्वप्नवासवदत्तम् ॥
राजा - (आत्मगतम्)
इयं बाला नवोद्वाहा सत्यं श्रुत्वा व्यथां व्रजेत् ।
कामं धीरस्वभावेयं स्त्रीस्वभावस्तु कातरः ॥ ८ ॥
विदूषकः - उचितं तत्रभवतो मगधराजस्यापराह्णकाले भवन्तमग्रतः कृत्वा सुहृज्जनदर्शनम् । सत्कारो हि नाम सत्कारेण प्रतीप्सितः प्रीतिमुत्पादयति । तदुत्तिष्ठतु तावद् भवान् ।
राजा - बाढम् । प्रथमः कल्पः । (उत्थाय)
गुणानां वा विशालानां सत्काराणां च नित्यशः।
कर्तार: सुलभा लोके विज्ञातारस्तु दुर्लभाः॥८॥
(निष्क्रान्ताः सर्वे।)
इति चतुर्थोऽङ्कः।