1 of 8

श्रीः �योगिनां केन्बरासंस्कृतवर्गः�०२.०९.२०२१

1

अभ्यासो न हि त्यक्तव्योऽभ्यासो हि परं बलम्।

अनभ्यासे विषं विद्याऽजीर्णे भोजनं विषम्॥

कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम्। षो अन्तकर्मणि

को विदेशः सविद्यानां कः परः प्रियवादिनाम्॥

रामः रामम् रामेण रामाय रामात् रामस्य रामे हे राम।

षष्ठी बहुवचनम् – रामाणाम् देवानाम्।

2 of 8

गृहकार्यम् – २६.०८.२०२१

  1. He (सः) reads. सः पठति।
  2. He is reading. सः पठति।
  3. He read (yesterday). सः अपठत्।
  4. He read (earlier today). सः अपठीत्।
  5. He read (in remote past). सः पपाठ।
  6. He will read (tomorrow). सः पठिता।
  7. He will read. सः पठिष्यति।
  8. He should read. सः पठतु।
  9. May he read. सः पठेत्।
  10. (Blessings) may he read. सः पठ्यात्।
  11. Had (यदि) he come (आगमिष्यत्) he would have (तर्हि) read. यदि सः आगमिष्यत् तर्हि सः अपठिष्यत्।

2

3 of 8

सारांशः – Summary so far

सुप्तिङन्तं पदम् (१.४.१४)

प्रकृतिः (raw form) + प्रत्ययः (suffix) = पदम् (word)

तिङन्तपदानि – पठति, खेलति, पठिष्यति, खेलिष्यति।

सुबन्तपदानि – रामः रामौ रामाः, देवम् देवौ देवान्, लता लते लता।

छन्दः – = लघुः वर्णः (।), आ अं अः = गुरुः वर्णः (ऽ)

दश (Ten) लकाराः - लँट्, लिँट्, लुँट्, लृँट्, लेँट्, लोँट्, लँङ्, लिँङ्, लुँङ्, लृँङ्

Presentवर्तमाने लँट् (३.२.१२३) Futureलृँट् शेषे च (३.३.१३)

स्वतन्त्रः कर्त्ता (१.४.५४) तिङ्समानाधिकरणे प्रथमा, अभिहिते प्रथमा।

कर्तुरीप्सिततमं कर्म (१.४.४९) कर्मणि द्वितीया (२.३.२) (अनभिहिते)।

4 of 8

श्लोकाः – प्रथमा विभक्तिः

यत्र योगेश्वरः कृष्णः यत्र पार्थो धनुर्धरः।

तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम॥ भूतिः, ऐश्वर्यम्, विभूतिः।

उद्यमः साहसं धैर्यं बुद्धिः शक्तिः पराक्रमः।

षडेते यत्र वर्तन्ते तत्र देवः सहायकः॥

मत्स्यः कूर्मो वराहश्च नरसिंहोऽथ वामनः।

रामो रामश्च कृष्णश्च बुद्धः कल्की च ते दश॥

ॐ शान्तिरस्तु। पुष्टिरस्तु। तुष्टिरस्तु। वृद्धिरस्तु। अविघ्नमस्तु। आयुष्यमस्तु। आरोग्यमस्तु। शिवमस्तु। यत् श्रेयः तदस्तु। उत्तरोत्तरम् अहरहः अभिवृद्धिरस्तु। अस्तु – let it be.

4

5 of 8

श्लोकाः – द्वितीया विभक्तिः

अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम्। परिग्रहः स्वीकारे।

विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते॥ कृपुँ सामर्थ्ये ब्रह्मभूय ब्रह्मत्वम्

मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम्। लघिँ गतौ भोजननिवृतौ

यत्कृपा तमहं वन्दे परमानन्दमाधवम्॥ वदिँ अभिवादनस्तुत्योः

वसुदेवसुतं देवं कंसचाणूरमर्दनम्। वन्दे – उत्तमपुरुषः एकवचनम्

देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम्॥

शङ्खचक्रगदापद्मवनमालाविभूषितम्। भूषँ अलङ्कारे

पीताम्बरधरं देवं वन्दे विष्णुं चतुर्भुजम्॥ भुजोँ कौटिल्ये

5

6 of 8

पठँ व्यक्तायां वाचि भ्वादिः परस्मैपदी सकर्मकः सेट् (to read)

एक॰

द्वि॰

ब॰

प्र॰

शप् तिप्

शप् तस्

शप् झि

म॰

शप् सिप्

शप् थस्

शप्

उ॰

शप् मिप्

शप् वस्

शप् मस्

लृट्

एक॰

द्वि॰

ब॰

प्र॰

पठिष्यति

पठिष्यतः

पठिष्यन्ति

म॰

पठिष्यसि

पठिष्यथः

पठिष्यथ

उ॰

पठिष्यामि

पठिष्यावः

पठिष्यामः

लोट्

एक॰

द्वि॰

ब॰

प्र॰

पठतु

पठताम्

पठन्तु

म॰

पठ

पठतम्

पठत

उ॰

पठानि

पठाव

पठाम

लङ्

एक॰

द्वि॰

ब॰

प्र॰

अपठत्

अपठताम्

अपठन्

म॰

अपठः

अपठतम्

अपठत

उ॰

अपठम्

अपठाव

अपठाम

लिङ्

एक॰

द्वि॰

ब॰

प्र॰

पठेत्

पठेताम्

पठेयुः

म॰

पठेः

पठेतम्

पठेत

उ॰

पठेयम्

पठेव

पठेम

लट्

एक॰

द्वि॰

ब॰

प्र॰

पठति

पठतः

पठन्ति

म॰

पठसि

पठथः

पठथ

उ॰

पठामि

पठावः

पठामः

7 of 8

फल (न॰ – अकारान्तः) Fruit

एकवचनम्

द्विवचनम्

बहुवचनम्

प्रथमा

फलम्

फले

फलानि

द्वितीया

फलम्

फले

फलानि

तृतीया

फलेन

फलाभ्याम्

फलैः

चतुर्थी

फलाय

फलाभ्याम्

फलेभ्यः

पञ्चमी

फलात्

फलाभ्याम्

फलेभ्यः

षष्ठी

फलस्य

फलयोः

फलानाम्

सप्तमी

फले

फलयोः

फलेषु

सम्बोधनम्

फल

फले

फलानि

8 of 8

गृहकार्यम् – ०२.०९.२०२१

सुबन्तपदानां विभक्तिं दर्शयतु।

Please identify the vibhakti of subanta padas.

अलसस्य कुतो विद्या अविद्यस्य कुतो धनम्।

अधनस्य कुतो मित्रममित्रस्य कुतः सुखम्॥

हस्तस्य भूषणं दानं सत्यं कण्ठस्य भूषणम्।

श्रोत्रस्य भूषणं शास्त्रं भूषणैः किं प्रयोजनम्॥

कुतः (from where) – अव्ययम् indeclinable.

8