॥श्री:॥�केन्बरासंस्कृतवर्गः�२१.०९.२०२२�॥महाकविभासप्रणीतं स्वप्नवासवदत्तम्॥�॥चतुर्थोऽङ्कः॥
1
॥ स्वप्नवासवदत्तम् ॥
(उभे निष्क्रान्ते)
वासवदत्ता - गतैषा । अहो अत्याहितम् । आर्यपुत्रोऽपि नाम परकीयः संवृतः। अहमपि शय्यायां मम दुःखं विनोदयामि, यदि निद्रां लभे। (लभ् प्राप्तौ)
(निष्क्रान्ता)
॥ स्वप्नवासवदत्तम् ॥
अथ चतुर्थोऽङ्क (ततः प्रविशति विदूषकः)
विदूषकः - (सहर्षम्) भो ! दिष्ट्या तत्रभवतो वत्सराजस्याभिप्रेतविवाह- मङ्गलरमणीयः कालो दृष्टः। भो ! को नामैतज्जानाति तादृशे वयमनर्थसलिलावर्ते प्रक्षिप्ताः पुनरुन्मङ्क्ष्याम इति। इदानीं प्रासादेषूष्यते, अन्तःपुरदीर्घिकासु स्नायते, प्रकृतिमधुरसुकुमाराणि मोदकखाद्यकानि खाद्यन्त इत्यनप्सरस्संवास उत्तरकुरुवासो मयानुभूयते। एकः खलु महान् दोषः। ममाहारः सुष्ठु न परिणमति। सुप्रच्छदनायां शय्यायां निद्रां न लभे । यथा वातशोणितमभित इव वर्तत इति पश्यामि। भोः! सुखं नामयपरिभूतमकल्यवर्तं च । (ततः प्रविशति चेटी)
॥ स्वप्नवासवदत्तम् ॥
चेटी - कुत्र नु खलु गत आर्यवसन्तकः? (परिक्रम्यावलोक्य) अहो एष आर्यवसन्तकः। (उपगम्य) आर्य वसन्तक! क कालः त्वामन्विष्यामि। विदूषकः - (दृष्ट्वा) किंनिमित्तं भद्रे। मामन्विष्यसि।
चेटी - अस्माकं भट्टिनी भणति अपि स्नातो जामातृक इति।
विदूषकः - किंनिमित्तं भवति! पृच्छति।
चेटी - किमन्यत्। सुमनोवर्णकमानयामीति।
विदूषकः - स्नातस्तत्रभवान्। सर्वमानयतु भवती वर्जयित्वा भोजनम्।
चेटी - किन्निमित्तं वारयसि भोजनम्।
विदूषकः - अधन्यस्य मम कोकिलानामक्षिपरिवर्त इव कुक्षिपरिवर्तः संवृत्तः।
॥ स्वप्नवासवदत्तम् ॥
चेटी - ईदृश एव भव।
विदूषकः - गच्छतु भवती। यावदहमपि तत्रभवतः सकाशं गच्छामि। (निष्क्रान्तौ) इति प्रवेशकः ।
(ततः प्रविशति सपरिवारा पद्मावती, आवन्तिकावेषधारिणी वासवदत्ता च)
चेटी - किं निमित्तं भर्तृदारिका प्रमदवनमागता।
पद्मावती - हला! तानि तावच्छेफालिकागुल्मकाः प्रेक्षे कुसुमिता वा न वेति।
चेटी - भर्तृदारिके! तानि कुसुमितानि नाम, प्रवालान्तरितैरिव मौक्तिकलम्बकैराचिताः कुसुमैः।
पद्मावती - हला! यद्येवं किमिदानीं विलम्बसे।
॥ स्वप्नवासवदत्तम् ॥
चेटी - तेन ह्यस्मिन् शिलापट्टके मुहूर्तकमुपविशतु भर्तृदारिका । यावदहमपि कुसुमावचयं करोमि।
पद्मावती - आर्ये। किमत्रोपविशावः।
वासवदत्ता - एवं भवतु। (उभे उपविशतः)
चेटी - (तथा कृत्वा) प्रेक्षतां प्रेक्षतां भर्तृदारिका अर्ध मनः शिलापट्टकैरिव शेफालिकाकुसुमैः पूरितं मेऽञ्जलिम्।
पद्मावती - (दृष्ट्वा) अहो विचित्रता कुसुमानाम्। प्रेक्षतां प्रेक्षतामार्या।
वासवदत्ता - अहो दर्शनीयता कुसुमानाम्।
चेटी - भर्तृदारिके! किं भूयोऽवचेष्यामि।
पद्मावती - हला मा मा भूयोऽवचित्य।
॥ स्वप्नवासवदत्तम् ॥
वासवदत्ता - हला! किनिमित्तं वारयसि।
पद्मावती - आर्यपुत्र इहागत्येमां कुसुमसमृद्धिं प्रेक्ष्य सम्मानिता भवेयम्। वासवदत्ता - हला प्रियस्ते भर्ता।
पद्मावती - आर्ये! न जानामि, आर्यपुत्रेण विरहितोत्कण्ठिता भवामि। वासवदत्ता - (आत्मगतम्) दुष्करं खल्वहं करोमि, इयमपि नामैवं मन्त्रयति।
चेटी - अभिजातं खलु भर्तृदारिकया मन्त्रितं प्रियो मे भर्तेति।
पद्मावती - एकः खलु मे सन्देहः।
वासवदत्ता - किं किम्।
पद्मावती - यथा ममार्यपुत्रस्तथैवार्याया वासवदत्ताया इति।
॥ स्वप्नवासवदत्तम् ॥
वासवदत्ता - अतोऽप्यधिकम्।
पद्मावती - कथं त्वं जानासि।
वासवदत्ता - (आत्मगतम्) हम् आर्यपुत्रपक्षपातेनातिक्रान्तः समुदाचारः। (प्रकाशम्) एवं तावद् भणिष्यामि। यद्यल्पः स्नेहः, सा स्वजनं न परित्यजति।
पद्मावती - भवितव्यम्।
चेटी - भर्तृदारिके! साधु भर्तारं भण, अहमपि वीणां शिक्षिष्य इति।
पद्मावती - उक्तो मयार्यपुत्रः।
वासवदत्ता - ततः कि भणितम्।
॥ स्वप्नवासवदत्तम् ॥
पद्मावती - अभणित्वा किंचिद् दीर्घं निःश्वस्य तूष्णीकः संवृत्तः।
वासवदत्ता - ततस्त्वं किमिव तर्कयसि।
पद्मावती - तर्कयाम्यार्याया वासवदत्ताया गुणान् स्मृत्वा दक्षिणतया ममाग्रतो न रोदितीति।
वासवदत्ता - (आत्मगतम्) धन्या खल्वस्मि, यद्येवं सत्यं भवेत्।
(ततः प्रविशति राजा विदूषकश्च)
विदूषकः - ही ही! प्रचितपतितबन्धुजीवकुसुमविरलवातरमणीयं प्रमदवनम्। इतस्तावद् भवान्।
राजा - वयस्य वसन्तक! अयमहमागच्छामि।
॥ स्वप्नवासवदत्तम् ॥
कामेनोज्जयिनीं गते मयि तदा कामप्यवस्थां गते
दृष्ट्वा स्वैरमवन्तिराजतनयां पञ्चेषवः पातिताः ।
तैरद्यापि सशल्यमेव हृदयं भूयश्च विद्धा वयं
पञ्चेषुर्मदनो यदा कथमयं षष्ठः शरः पातितः ।। 1 ।।
विदूषकः - कुत्र नु खलु गता तत्रभवती पद्मावती। लतामण्डपं गता भवेद्। उताहो असनकुसुमसंचितं व्याघ्रचर्मावगुण्ठितमिव पर्वततिलकं नाम शिलापट्टकं गता भवेत्। अथवा अधिककटुकगन्धसप्तच्छदवनं प्रविष्टा भवेद्, अथवालिखितमृगपक्षिसंकुलं दारुपर्वतकं गता भवेत्। (ऊध्र्वमवलोक्य) ही ही शरत्कालनिर्मलेऽन्तरिक्षे प्रसादितबलदेवबाहुदर्शनीयां सारसपंक्ति यावत् समाहितं गच्छन्तीं प्रेक्षतां तावद् भवान्।