1 of 18

॥श्री:॥�केन्बरासंस्कृतवर्गः�०६.०७.२०२२�महाकविभासप्रणीतं स्वप्नवासवदत्तम्

1

2 of 18

॥ स्वप्नवासवदत्तम् हम् इति॥

वासवदत्ता – (आत्मगतम्) हम्। इह मां निक्षेप्तुकाम आर्ययौगन्धरायणः। भवतु, अविचार्य क्रमं न करिष्यति। (कल्पे विधिक्रमौ क्रमं विधानम्)

काञ्चुकीयः – भवति ! महती खल्वस्य व्यपाश्रयणा। कथं प्रतिजानीमः? कुतः -

सुखमर्थो भवेद् दातुं सुखं प्राणाः सुखं तपः।

सुखमन्यद् भवेद् सर्वं दुःखं न्यासस्य रक्षणम्॥१०॥

पद्मावती – आर्य ! प्रथममुद्घोष्य कः किमिच्छन्ति इति अयुक्तमिदानीं विचारयितुम्। यदेष भणति तदनुतिष्ठत्वार्यः।

3 of 18

॥ स्वप्नवासवदत्तम् अनुरूपम् इति॥

काञ्चुकीयः – अनुरूपमेतद्भवत्याभिहितम्।

चेटी – चिरं जीवतु भर्तृदारिकैवं सत्यवादिनी।

तापसी – चिरं जीवतु भद्रे।

काञ्चुकीयः – भवति तथा। (उपगम्य) भोः ! अभ्युपगतमत्रभवतो भगिन्याः परिपालनमत्रभवत्या। अभ्युपगतं स्वीकृतम्।

यौगन्धरायणः – अनुगृहीतोऽस्म्यत्रभवत्या। वत्से ! उपसर्पात्रभवतीम्।

वासवदत्ता – (आत्मगतम्) का गतिः ? एषा गच्छामि मन्दभागा।

4 of 18

॥ स्वप्नवासवदत्तम् भवतु इति॥

पद्मावती – भवतु भवतु। आर्यात्मीयेदानीं संवृत्ता।

तापसी – यदीदृश्यस्या आकृतिरियमपि राजदारिकेति तर्कयामि।

चेटी – सुष्ठु आर्या भणति। अहमप्यनुभूतसुखेति पश्यामि।

यौगन्धरायणः (आत्मगतम्) हन्त भोः ! अर्धमवसितं भारस्य। यथा मन्त्रिभिः सह समर्थितं तथा परिणमति। ततः प्रतिष्ठिते स्वामिनि तत्र भवतीमुपनयतो मे इहात्रभवती मगधराजपुत्री विश्वासस्थानं भविष्यति। कुतः –

यदीदृशी अस्याः आकृतिः इयम् अपि राजदारिका इति तर्कयामि।

5 of 18

॥ स्वप्नवासवदत्तम् पद्मावती इति॥

पद्मावती नरपतेर्महिषी भवित्री

दृष्टा विपत्तिरथ यैः प्रथमं प्रदिष्टा।

तत्प्रत्ययात् कृतमिदं न हि सिद्धवाक्या-

न्युत्क्रम्य गच्छति विधिः सुपरीक्षितानि॥११॥

(ततः प्रविशति ब्रह्मचारी।)

ब्रह्मचारी – (ऊर्ध्वमवलोक्य) स्थितो मध्याह्नः। दृढमस्मि परिश्रान्तः। अथ कस्मिन् प्रदेशे विश्रमयिष्ये? (परिक्रम्य) भवतु दृष्टम्। अभितस्तपोवनेनानेन भवितव्यम्। तथाहि –

6 of 18

॥ स्वप्नवासवदत्तम् विस्रब्धम् इति॥

विस्रब्धं हरिणाश्चरन्त्यचकिता देशागतप्रत्यया

वृक्षाः पुष्पफलैः समृद्धविटपाः सर्वे दयारक्षिताः।

भूयिष्ठं कपिलानि गोकुलधनान्यक्षेत्रवत्यो दिशो

निःसंदिग्धमिदं तपोवनमयं धूमो हि बह्वाश्रयः॥१२॥

यावत् प्रविशामि। (प्रविश्य) अये ! आश्रमविरुद्धः खल्वेष जनः। (अन्यतो विलोक्य) अथवा तपस्विजनोऽप्यत्र। निर्दोषमुपसर्पणम्। अये! स्त्रीजनः।

काञ्चुकीयः स्वैरं स्वैरं प्रविशतु भवान्। सर्वजनसाधारणमाश्रमपदं नाम।

7 of 18

॥ स्वप्नवासवदत्तम् हम् इति॥

वासवदत्ता – हम्।

पद्मावती – अम्मो ! परपुरुषदर्शनं भवतु, सुपरिपालनीयः खलु मन्न्यासः।

काञ्चुकीयः – भोः ! पूर्वं प्रविष्टाः स्मः प्रतिगृह्यतामतिथिसत्कारः।

ब्रह्मचारी – (आचम्य) भवतु भवतु। निवृत्तपरिश्रमोऽस्मि।

यौगन्धरायणः – भोः ! कुत आगम्यते, क्व गन्तव्यम्, क्वाधिष्ठानमार्यस्य?

ब्रह्मचारी – भोः ! श्रूयताम्। राजगृहतोऽस्मि। श्रुतिविशेषणार्थं वत्सभूमौ लावाणकं नाम ग्रामस्तत्रोषितवानस्मि।

वासवदत्ता – (आत्मगतम्) हा ! लावाणकं नाम। लावाणकसंकीर्तनेन पुनर्नवीकृत इव मे संतापः।

8 of 18

॥ स्वप्नवासवदत्तम् अथ इति॥

यौगन्धरायणः – अथ परिसमाप्ता विद्या?

ब्रह्मचारी – न खलु तावत्।

यौगन्धरायणः – यद्यनवसिता विद्या किमागमनप्रयोजनम्?

ब्रह्मचारी – तत्र खल्वतिदारुणं व्यसनं संवृत्तम्। (व्यसनं दुःखम्)

यौगन्धरायणः – कथमिव।

ब्रह्मचारी – तत्रोदयनो नाम राजा प्रतिवसति।

यौगन्धरायणः – श्रूयते तत्रभवानुदयनः। किं सः?

ब्रह्मचारी – तस्यावन्तिराजपुत्री वासवदत्ता नाम पत्नि दृढमभिप्रेता किल।

यौगन्धरायणः – सत्यं पतति इति। ततस्ततः?

9 of 18

॥ स्वप्नवासवदत्तम् ततः इति॥

ब्रह्मचारी – ततस्तस्मिन् मृगयानिष्क्रान्ते राजनि ग्रामदाहेन सा दग्धा।

वासवदत्ता – (आत्मगतम्) अलीकमलीकं खल्वेतत्। जीवामि मन्दभागा।

यौगन्धरायणः – ततस्ततः?

ब्रह्मचारी – ततस्तामभ्यवपत्तुकामो यौगन्धरायणो नाम सचिवस्तस्मिन्नेवाग्नौ पतितः। अभ्यवपत्तुकामः परिरक्षितुकामः।

यौगन्धरायणः – सत्यं पतति इति। ततस्ततः?

ब्रह्मचारी – ततः प्रतिनिवृत्तो राजा तद्वृत्तान्तं श्रुत्वा तयोर्वियोगजनितसंतापस्तस्मिन्नेवाग्नौ प्राणान् परित्यक्तुकामोऽमात्यैर्महता यत्नेन वारितः।

10 of 18

॥गृहकार्यम् ०४-०५-२०२२॥

अधो लिखितः प्रत्येकं धातुः अद्यतनस्य पाठस्य केषु केषु शब्देषु अस्ति इति लिखतु।

टुनदिँ समृद्धौ, विश् प्रवेशने, डुधाञ् धारणपोषणयोः, उत् इण् गतौ, षुञ् अभिषवे, बलँ प्राणने, तॄ प्लवनतरणयोः, पूरीँ आप्यायने, कमुँ कान्तौ, भुजोँ कौटिल्ये, पा रक्षणे, ज्ञा अवबोधने, श्रु श्रवणे, सृ गतौ, डुभृञ् धारणपोषणयोः, ष्णिहँ प्रीतौ, धृषँ प्रसहने, धृष् ञिधृषाँ प्रागल्भ्ये स्वादिः,  गमॢँ गतौ, तपँ सन्तापे, जनीँ प्रादुर्भावे।

11 of 18

॥११-०५-२०२२॥

व्रजँ गतौ, विषॢँ व्याप्तौ, धृञ् धारणे, डुदाञ् दाने, धीङ् आधारे आदाने अनादरे च, श्रमुँ तपसि खेदे च, श्रिञ् सेवायाम्, वसँ निवासे, तुषँ प्रीतौ, वनँ सम्भक्तौ, फलँ निष्पत्तौ, मा माने, मनुँ अवबोधने, अर्हँ पूजायाम्, जनीँ प्रादुर्भावे, वलँ संवरणे सञ्चरणे च, त्रसीँ उद्वेगे, पदँ गतौ, षिचँ क्षरणे, णीञ् प्रापणे, इण् गतौ, भजँ सेवायाम् भ्वादिः, भजँ विश्राणने चुरादिः, चलँ कम्पने, ष्मिङ् ईषद्धसने, भृ डुभृञ् धारणपोषणयोः

12 of 18

॥१८-०५-२०२२॥

13 of 18

॥२५-०५-२०२२॥

14 of 18

॥०१-०६-२०२२॥

15 of 18

॥१५-०६-२०२२॥

16 of 18

॥२२-०६-२०२२॥

17 of 18

॥०६-०७-२०२२॥

18 of 18

॥०६-०७-२०२२॥

स्रम्भ् विश्वासे, स्रम्भ् प्रमादे, चर् गतौ भक्षणे च, चकँ तृप्तौ प्रतीघाते च भ्वादिः, आत्मनेपदी, कुलँ संस्त्याने बन्धुषु च भ्वादिः, क्षि निवासगत्योः, दिह् उपचये, रुध् कामे दिवादिः, रुध् आवरणे, लोक् दर्शने भ्वादिः, लोक् भाषायां चुरादिः, दुष् वैकृत्यै दिवादिः, धृञ् धारणे, चमुँ अदने भ्वादिः, शिष् विशेषणे, सो अन्तकर्मणि, दॄ भये, दॄ विदारणे, दह् भस्मीकरणे, वॄ वॄञ् वरणे क्र्यादिः।