श्रीः �केन्बरासंस्कृतवर्गः�०६.०४.२०२२
1
॥श्रीरामोदन्तम् – युद्धकाण्डः ६८॥
चत्वारस्ते महात्मानः सभार्या रघुसत्तमाः।
खे सतारो यथा चन्द्रः तथा रेजु: स्वपत्तने॥६.६६॥
रेजुः - राजृँ दीप्तौ लिट्॰ प्र॰ बहु॰।
नगरी, पत्तनम्, पुटभेदनम्, स्थानीयम्, निगमः, पुरी, पूः।
पत्तनं, क्ली, (पतन्ति गच्छन्ति जना यस्मिन् पतॢँ गतौ +“ वीपतिभ्यां तनन् ” उणां ३ .१५० इतितनन् ) नगरम्
॥इति श्रीरामोदन्ते युद्धकाण्डः समाप्तः॥
॥श्रीरामोदन्तम् – उत्तरकाण्डः १-३॥
राजा पर्यग्रहीदेव भार्यां रावणदूषिताम्।
इत्यज्ञजनवादेन रामस्तत्याज मैथिलीम्॥७.१॥
तद्विदित्वाऽथ वाल्मीकिः आनीयैनां निजाश्रमम्।
अन्तर्वत्नीं समाश्वास्य तत्रैवावासयत् सुखम्॥७.२॥
ऋषिभिः प्रार्थितस्याथ राघवस्य नियोगतः।
शत्रुघ्नो लवणं युद्धे निहत्यैनानपालयत्॥७.३॥
अन्तर्वत्नीं गर्भिणीम्।
॥श्रीरामोदन्तम् – उत्तरकाण्डः ४-६॥
रामे हेममयी पत्नीं कृत्वा यज्ञं वितन्वति।
आनीय ससुतां सीतां तस्मै प्राचेतसो ददौ॥७.४॥
शङ्कयमाना पुनश्चैवं रामेण जनकात्मजा।
भूम्या प्रार्थितया दत्तं विवरं प्रविवेश सा॥७.५॥
अथ रामस्य निर्देशात् पौरैः सह वनौकसः।
निमज्ज्य सरयूतीर्थे देहं त्यक्त्वा दिवं ययुः॥७.६॥
वनौकसः वनम् ओकः निवासः येषाम् ते।
॥श्रीरामोदन्तम् – उत्तरकाण्डः ७-९॥
ततो भरतशत्रुघ्नौ निजं रूपमवापतुः।
रामोऽपि मानुषं देहं त्यक्त्वा धामाविशत् स्वकम्॥७.७॥
श्रीरामोदन्तमाख्यातम् इदं मन्दधिया मया।
समीक्ष्य निपुणैस्सद्भिः संशोध्य परिगृह्यताम्॥७.८॥
यस्तु दाशरथिर्भूत्वा रणे हत्वा च रावणम्।
ररक्ष लोकान् वैकुण्ठः स मां रक्षतु चिन्मयः॥७.९॥
॥ इति श्रीरामोदन्ते उत्तरकाण्डः समाप्तः॥
॥ इति श्री रामोदन्तं समाप्तम्॥