श्रीः योगिनां केन्बरासंस्कृतवर्गः�२७.१०.२०२२�स्विष्टकृदाहुतिमन्त्रः॥�ॐ यदस्य कर्मणोऽत्यरीरिचं यद्वा न्यूनमिहाकरम्। अग्निष्टत् स्विष्टकृद् विद्यात् सर्वं स्विष्टं सुहुतं करोतु मे। अग्नये स्विष्टकृते सुहुतहुते सर्वप्रायश्चित्ताहुतीनां कामानां समर्द्धयित्रे सर्वान्नः कामान्त्समर्द्धय स्वाहा॥ इदमग्नये स्विष्टकृते। इदं न मम॥ �॥शतपथ॰ का॰ १४/९.४.२४॥�
1
स्विष्टकृदाहुतिमन्त्रः॥
ॐ यदस्य कर्मणोऽत्यरीरिचं यद्वा न्यूनमिहाकरम्। अग्निष्टत् स्विष्टकृद् विद्यात् सर्वं स्विष्टं सुहुतं करोतु मे। अग्नये स्विष्टकृते सुहुतहुते सर्वप्रायश्चित्ताहुतीनां कामानां समर्द्धयित्रे सर्वान्नः कामान्त्समर्द्धय स्वाहा॥ इदमग्नये स्विष्टकृते। इदं न मम॥
ॐ यत् अस्य कर्मणः अति अरीरिचम् अतिरिक्तं यत् वा न्यूनम् इह अकरम् स्विष्टकृत् अग्निः तत् मे सर्वं स्विष्टं सुहुतं करोतु (इति) विद्यात्। अग्नये स्विष्टकृते सुहुतहुते सर्वप्रायश्चित्ता(य) आहुतीनां कामानां समर्द्धयित्रे सर्वान् नः कामान् समर्द्धय स्वाहा॥ इदमग्नये स्विष्टकृते। इदं न मम॥ �
2
स्विष्टकृदाहुतिमन्त्रः॥
सुहुतहुते – हु दानादानयोः हुत् इति प्रातिपदिकम्।
इष्टम् – यज देवपूजासङ्गतिकरणदानेषु, इषु इच्छायाम् + क्त प्रत्यये रूपम्।
स्विष्टम् – यद्वै यज्ञस्यान्यूनातिरिक्तं तत् स्विष्टम् – शत॰ ११.२.३.९।
ऋध् ऋधुँ वृद्धौ दिवादिः, परस्मैपदी, अकर्मकः, सेट्
प्रायः - प्रकृष्टमयनमिति प्र + अय + घञ् यद्बा, प्र + इ +एरच् ३ .३ .५६ इत्यच्
प्रायश्चित्तं, क्ली, (प्रायस्य पापस्य चित्तं विशोधनंयस्मात् . यदुक्तं स्मृतौ .“ प्रायः पापं समुद्दिष्टं चित्तं तस्य विशोधनम् ..” यद्वा, प्रायस्य तपसः चित्तम् निश्चय इति .“ पारस्करप्रभृतीनि च संज्ञायाम् .” ६ . १ .१५७ . इत्यत्र .“ प्रायस्य चित्तिचित्तयोः .” इति वार्त्तिकोक्त्या सुट् निपात्यते च . निरु-क्तिस्तु निम्ने द्रष्टव्या .) पापक्षयमात्रसाधनंकर्म्म ।
3
स्विष्टकृदाहुतिमन्त्रः॥
प्रायश्चित्तम् –
अज्ञानाज्ज्ञानतो वापि कृत्वा कर्म विगर्हितम्।
तस्माद्विमुक्तिमन्विच्छन् द्वितीयं न समाचरेत्॥
प्रायः नाम तपः प्रोक्तं चित्तं निश्चय उच्यते।
तपोनिश्चयसंयोगात् प्रायश्चित्तमितीर्यते॥ हेमाद्रिः॥
गर्ह् गर्हँ विनिन्दने चुरादिः, उभयपदी, सकर्मकः, सेट्।
ईर् To utter, pronounce, proclaim, say, repeat
4
श्रीः योगिनां केन्बरासंस्कृतवर्गः�२२.०९.२०२२�जलप्रसेचनमन्त्राः॥�ॐ अदितेऽनुमन्यस्व॥गोभिलगृह्यसूत्रं १.३.१॥�ॐ अनुमतेऽनुमन्यस्व॥गोभिलगृह्यसूत्रं १.३.२॥�ॐ सरस्वत्यनुमन्यस्व॥गोभिलगृह्यसूत्रं १.३.३॥�देव॑ सवितः॒ प्र सु॑व य॒ज्ञं प्र सु॑व य॒ज्ञप॑तिं॒ भगा॑य।दि॒व्यो ग॑न्ध॒र्वः॑ के॑त॒पूः केतं॑ नः पुनातु वा॒चस्पति॒र्वाचं॑ नः स्वदतु॥यजुर्वेदः ३०.१॥�
5
जलप्रसेचनमन्त्राः॥
ॐ अदितेऽनुमन्यस्व ॥गोभिलगृह्यसूत्रम् १.३.१॥�ॐ अनुमतेऽनुमन्यस्व॥गोभिलगृह्यसूत्रम् १.३.२॥�ॐ सरस्वत्यनुमन्यस्व॥गोभिलगृह्यसूत्रम् १.३.३॥
देव॑ सवितः॒ प्र सु॑व य॒ज्ञं प्र सु॑व य॒ज्ञप॑तिं॒ भगा॑य।दि॒व्यो ग॑न्ध॒र्वः॑ के॑त॒पूः केतं॑ नः पुनातु वा॒चस्पति॒र्वाचं॑ नः स्वदतु॥यजुर्वेदः ३०.१॥�स्वर सहित पद पाठ�देव॑। स॒वि॒त॒रिति॑ सवितः। प्र। सु॒व॒। य॒ज्ञम्। प्र। सु॒व॒। य॒ज्ञप॑तिमिति॑ य॒ज्ञऽप॑तिम्। भगा॑य। दि॒व्यः। ग॒न्ध॒र्वः। के॒त॒पूरिति॑ केत॒ऽपूः। केत॑म्। नः॒। पु॒ना॒तु॒। वा॒चः। पतिः॑। वाच॑म्। नः॒। स्व॒द॒तु॒ ॥यजुर्वेदः ३०.१॥
6
जलप्रसेचनमन्त्राः॥
ॐ अदितेऽनुमन्यस्व ॥गोभिलगृह्यसूत्रम् १.३.१॥�ॐ अनुमतेऽनुमन्यस्व॥गोभिलगृह्यसूत्रम् १.३.२॥�ॐ सरस्वत्यनुमन्यस्व॥गोभिलगृह्यसूत्रम् १.३.३॥
मन् मनँ ज्ञाने दिवादिः, आत्मनेपदी, सकर्मकः, अनिट्।
अनुमन् लोट् मध्यमपुरुषः एकवचनम् – अनुमन्यस्व – अनुमतिं देहि।
अदितिः हे अदिते - दक्षप्रजापतिकन्या साकश्यपपत्नी देवमाता भूमिः अखण्डः। अनुमतिः हे अनुमते - अनु + मन् + भावे क्तिन्। कलाहीनत्वेऽपि पूर्णिमाविहितयागादिकरणाय अनुज्ञायतेऽस्याम्। अनु + मन् + अधिकरणे क्तिन्। सम्मतिः अनुज्ञा न्यूनेन्दुकला पूर्णिमा, चतुर्द्दशीयुक्ता पूर्णिमा।
सरस्वती हे सरस्वति नदी वाणी।
7
देव॑ सवितः॒ प्र सु॑व य॒ज्ञं प्र सु॑व य॒ज्ञप॑तिं॒ भगा॑य।दि॒व्यो ग॑न्ध॒र्वः॑ के॑त॒पूः केतं॑ नः पुनातु वा॒चस्पति॒र्वाचं॑ नः स्वदतु॥यजुर्वेदः ३०.१॥�दयानन्दभाष्यम् - अन्वयः - हे देव सवितर्जगदीश्वर ! त्वं यो दिव्यो गन्धर्वः केतपू राजा नः केतं पुनातु यो वाचस्पतिर्नो वाचं स्वदतु, तं यज्ञपतिं भगाय प्रसुव यज्ञञ्च प्रसुव॥१॥ (सू (षू) प्रेरणे तुदादिः) (कित् कितँ ज्ञाने जुहोत्यादिः)
पदार्थः - (देव) दिव्यस्वरूप (सवितः) सकलैश्वर्ययुक्त जगदुत्पादक (प्र) प्रकर्षेण (सुव) संपादय (यज्ञम्) राजधर्माख्यम् (प्र) (सुव) उत्पादय (यज्ञपतिम्) यज्ञस्य राज्यस्य पालकम् (भगाय) ऐश्वर्ययुक्ताय धनाय। भग इति धननामसु पठितम्॥ (निघ॰२।१०) (दिव्यः) दिवि शुद्धस्वरूपे भवः (गन्धर्वः) यो गां पृथिवीं धरति सः (केतपूः) यः केतं विज्ञानं पुनाति सः (केतम्) प्रज्ञानम्। केत इति प्रज्ञानामसु पठितम्॥ (निघ॰३।९) (नः) अस्माकम् (पुनातु) पवित्रयतु (वाचस्पतिः) वाण्याः पालकः (वाचम्) वाणीम् (नः) अस्माकम् (स्वदतु) आस्वादयतु॥१॥
भावार्थः - यो विद्याशिक्षावर्द्धकः शुद्धगुणकर्मस्वभावो राज्यं पातुं यथायोग्यैश्वर्यवर्द्धको धार्मिकाणां पालकः परमेश्वरोपासकः सकलशुभगुणाढ्यो भवेत्, स एव राजा भवितुं योग्यो भवति॥१॥
8
देव॑ सवितः॒ प्र सु॑व य॒ज्ञं प्र सु॑व य॒ज्ञप॑तिं॒ भगा॑य।दि॒व्यो ग॑न्ध॒र्वः॑ के॑त॒पूः केतं॑ नः पुनातु वा॒चस्पति॒र्वाचं॑ नः स्वदतु॥यजुर्वेदः ९.१॥�उवटः - देव सवितः । वाजपेयिका मन्त्रा एष ते निर्ऋते भाग इत्येतस्मात्प्राक् । बृहस्पतेरार्षम् इन्द्रस्य च । कर्मणः कर्मणः पुरस्तादाहुतिं जुहोति गायत्र्या त्रिष्टुभा । हे देव सवितः, प्रसुव अभ्यनुजानीहि वाजपेयलक्षणं यज्ञम् । अभ्यनुजानीहि यजमानं यज्ञपतिम् । भगाय भजनीयाय यज्ञफलाय । एवं पुरुषमुक्त्वा अथेदानीं मण्डलमाह । त्वत्प्रसादाच्च मण्डललक्षणो दिव्यो दिवि भवो गन्धर्वो गवां वाचां रश्मीनां वा धारयिता केतपूः । केतशब्देनान्नमुच्यते । अन्नस्य पविता । केतमन्नं नोऽस्माकं पुनातु शोधयतु । त्वत्प्रसादाच्च वाचस्पतिः वाजमन्नं नोऽस्माकं स्वदतु । 'स्वद आस्वादने' । आस्वादयतु ॥१॥
9
देव॑ सवितः॒ प्र सु॑व य॒ज्ञं प्र सु॑व य॒ज्ञप॑तिं॒ भगा॑य।दि॒व्यो ग॑न्ध॒र्वः॑ के॑त॒पूः केतं॑ नः पुनातु वा॒चस्पति॒र्वाचं॑ नः स्वदतु॥यजुर्वेदः ९.१॥�महिधरः चतुर्थाध्यायमारभ्याष्टमान्तमध्यायपञ्चके अग्निष्टोममन्त्रास्तदीयप्रासङ्गिका मन्त्राश्चोक्ताः । नवमेऽध्याये वाजपेयमन्त्रा उच्यन्ते चतुस्त्रिंशत्कण्डिकापर्यन्तम् । तेषां बृहस्पतीन्द्रावृषी । तत्र 'देव सवितरिति जुहोति यजत्यादिष्विति' ( का० १४ । १ । ११) । वाजपेयाङ्गभूतानां यजतीनां दीक्षणीयाप्रापणीयादीनामादिषु सकृद्गृहीतमाज्यं जुहोति । सवितृदेवत्या त्रिष्टुप् । हे सवितः सर्वस्य प्रेरकान्तर्यामिन्, हे देव दीप्यमान, यज्ञं वाजपेयलक्षणं यागं प्रसुव अभ्यनुजानीहि प्रवर्तयेत्यर्थः । यज्ञपतिं यजमानं भगाय भजनीयायानुष्ठानरूपायैश्वर्याय प्रसुव प्रेरय ।
10
देव॑ सवितः॒ प्र सु॑व य॒ज्ञं प्र सु॑व य॒ज्ञप॑तिं॒ भगा॑य।दि॒व्यो ग॑न्ध॒र्वः॑ के॑त॒पूः केतं॑ नः पुनातु वा॒चस्पति॒र्वाचं॑ नः स्वदतु॥यजुर्वेदः ९.१॥�महिधरः एवं मण्डलाधिष्ठातारं पुरुषमुक्त्वेदानीं मण्डलं प्रत्याह । त्वत्प्रसादाद्दिवि भवो दिव्यो गन्धर्वो गवां रश्मीनां धारयिता केतपूः केतशब्देनान्नमुच्यते । केतमन्नं पुनातीति केतपूः । अन्नस्य पावयिता सूर्यमण्डलरूपो देवो नोऽस्माकं केतमन्नं पुनातु शोधयतु । किंच त्वत्प्रसादाद्वाचस्पतिः प्रजापतिर्नोऽस्माकं वाजमन्नं हविर्लक्षणं स्वदतु आस्वादयतु स्वाहा सुहुतमस्तु ॥९.१॥
11
कारकप्रकरणम्।
(१.४.३२) कर्मणा यमभिप्रैति स सम्प्रदानम् (२.३.१३) चतुर्थी सम्प्रदाने चतुर्थीविधाने तादर्थ्य उपसङ्ख्यानम्। यूपाय दारु। कुण्डलाय हिरण्यम्।
(१.४.४२) साधकतमं करणम् (२.३.१८) कर्तृकरणयोस्तृतीया
(१.४.४९) कर्तुरीप्सिततमं कर्म (२.३.२) कर्मणि द्वितीया १.४.४५) आधारोऽधिकरणम् २.३.३६) सप्तम्यधिकरणे च
����
12