श्रीः योगिनां केन्बरासंस्कृतवर्गः�२४.०२.२०२२
1
मण्डलम् १०, सूक्तम् १२१, ऋक् १
संहिता
हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् ।
स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
पदपाठः
हि॒र॒ण्य॒ऽग॒र्भः। सम्। अ॒व॒र्त॒त॒। अग्रे॑। भू॒तस्य॑। जा॒तः। पतिः॑। एकः॑। आ॒सी॒त् ।
सः। दा॒धा॒र॒। पृ॒थि॒वीम्। द्याम्। उ॒त। इ॒माम्। कस्मै॑। दे॒वाय॑। ह॒विषा॑। वि॒धे॒म॒॥
2
हि॒र॒ण्य॒ऽग॒र्भः। सम्। अ॒व॒र्त॒त॒। अग्रे॑। भू॒तस्य॑। जा॒तः। पतिः॑। एकः॑। आ॒सी॒त् ।
सः। दा॒धा॒र॒। पृ॒थि॒वीम्। द्याम्। उ॒त। इ॒माम्। कस्मै॑। दे॒वाय॑। ह॒विषा॑। वि॒धे॒म॒॥
सायणभाष्यम्
हिरण्यगर्भ इति दशर्चं नवमं सूक्तं प्रजापतिपुत्रस्य हिरण्यगर्भाख्यस्यार्षं त्रैष्टुभम्। कशब्दाभिधेयः प्रजापतिर्देवता। तथा चानुक्रान्तम्। हिरण्यगर्भो दश हिरण्यगर्भः प्राजापत्यः कायमिति। गतः सूक्तविनियोगः। प्राजापत्यस्य पशोर्वपापुरोडाशहविषां क्रमेणादितस्तिस्रोऽनुवाक्यास्ततस्तिस्रो याज्याः। सूत्रितं च। हिरण्यगर्भः समवर्तताग्र इति षट् प्राजापत्याः।आ. ३-८। इति। वरुणप्रघासेषु कायस्य हविषो हिरण्यगर्भ इत्येषा याज्या। सूत्रितं च। कया नश्चित्र आ भुवद्धिरण्यगर्भः समवर्तताग्र इति प्रतिप्रस्थाता वाजिने तृतीयः। आ. २-१७। इति॥
3
हि॒र॒ण्य॒ऽग॒र्भः। सम्। अ॒व॒र्त॒त॒। अग्रे॑। भू॒तस्य॑। जा॒तः। पतिः॑। एकः॑। आ॒सी॒त् ।
सः। दा॒धा॒र॒। पृ॒थि॒वीम्। द्याम्। उ॒त। इ॒माम्। कस्मै॑। दे॒वाय॑। ह॒विषा॑। वि॒धे॒म॒॥
सायणभाष्यम्
हिरण्यगर्भः हिरण्यमयस्याण्डस्य गर्भभूतः प्रजापतिर्हिरण्यगर्भः। तथा च तैत्तिरीयकम्। प्रजापतिर्वै हिरण्यगर्भः प्रजापतेरनुरूपत्वाय (तै. स. ५-५-१-२) इति यद्वा। हिरण्मयोऽण्डो गर्भवद्यस्योदरे वर्तते सोऽसौ सूत्रात्मा हिरण्यगर्भ इत्युच्यते। अग्रे प्रपञ्चोत्पत्तेः प्राक् समवर्तत। मायाध्यक्षात्सिसृक्षोः परमात्मनः सकाशात्समजायत। यद्यपि परमात्मैव हिरण्यगर्भः तथापि तदुपाधिभूतानां वियदादीनां सूक्ष्मभूतानां ब्रह्मण उत्पत्तेस्तदुपाहितोऽप्युत्पन्न इत्युच्यते। स च जातः जातमात्र एव एकः अद्वितीयः सन् भूतस्य विकारजातस्य ब्रह्माण्डादेः सर्वस्य जगतः पतिः ईश्वर आसीत्।
4
हि॒र॒ण्य॒ऽग॒र्भः। सम्। अ॒व॒र्त॒त॒। अग्रे॑। भू॒तस्य॑। जा॒तः। पतिः॑। एकः॑। आ॒सी॒त् ।
सः। दा॒धा॒र॒। पृ॒थि॒वीम्। द्याम्। उ॒त। इ॒माम्। कस्मै॑। दे॒वाय॑। ह॒विषा॑। वि॒धे॒म॒॥
सायणभाष्यम्
न केवलं पतिरासीदेव अपि तर्हि सः हिरण्यगर्भः पृथिवीं विस्तीर्णां द्यां दिवम् उत अपि च इमाम् अस्माभिर्दृश्यमानां पुरोवर्तिनीमिमां भूमिम्। यद्वा। पृथिवीत्यन्तरिक्षनाम। अन्तरिक्षं दिवं भूमिं च दाधार धारयति। छन्दसि लुङ् लङ् लिट इति सार्वकालिको लिट्। तुजादित्वादभ्यास दीर्घः। कस्मै। अत्र किंशब्दोऽनिर्ज्ञातस्वरूपत्वात्प्रजापतौ वर्तते। यद्वा। सृष्ट्यर्थं कामयत इति कः। कमेर्डप्रत्ययः। यद्वा। कं सुखम्। तद्रूपत्वात्क इत्युच्यते। अथवेन्द्रेण पृष्टः प्रजापतिर्मदीयं महत्त्वं तुभ्यं प्रदायाहं कः कीदृशः स्यामित्युक्तवान्।
5
हि॒र॒ण्य॒ऽग॒र्भः। सम्। अ॒व॒र्त॒त॒। अग्रे॑। भू॒तस्य॑। जा॒तः। पतिः॑। एकः॑। आ॒सी॒त् ।
सः। दा॒धा॒र॒। पृ॒थि॒वीम्। द्याम्। उ॒त। इ॒माम्। कस्मै॑। दे॒वाय॑। ह॒विषा॑। वि॒धे॒म॒॥
सायणभाष्यम्
स इन्द्रः प्रत्यूचे यदीदं ब्रवीष्यहं कः स्यामिति तदेव त्वं भवेति। अतः कारणात्क इति प्रजापतिराख्यायते। इन्द्रो वै वृत्रं हत्वा सर्वा विजितीर्विजित्याब्रवीत् इत्यादिकं ब्राह्मणमत्रानुसन्धेयम्। ऐ. ब्रा. ३-२१। यदासौ किंशब्दस्तदा सर्वनामत्वात्स्मैभावः सिद्धः। यदा तु यौगिकस्तदा व्यत्ययेनेति द्रष्टव्यम्। सावेकाच इति प्राप्तस्य न गोश्वन्साववर्णेति प्रतिषेधः। क्रियाग्रहणं कर्तव्यमिति कर्मनः सम्प्रदानत्वाच्चतुर्थी। कं प्रजापतिं देवाय देवं दानादिगुनयुक्तं हविषा प्राजापत्यस्य पशोर्वपारूपेणैककपालात्मकेन पुरॊडाशेन वा विधेम। वयमृत्विजः परिचरेम। विधतिः परिचरनकर्मा॥१॥
6
हि॒र॒ण्य॒ऽग॒र्भः। सम्। अ॒व॒र्त॒त॒। अग्रे॑। भू॒तस्य॑। जा॒तः। पतिः॑। एकः॑। आ॒सी॒त् ।
सः। दा॒धा॒र॒। पृ॒थि॒वीम्। द्याम्। उ॒त। इ॒माम्। कस्मै॑। दे॒वाय॑। ह॒विषा॑। वि॒धे॒म॒॥
दयानन्दभाष्यम्
अन्वयः - हे मनुष्याः! यथा वयं योऽस्य भूतस्य जातः पतिरेको हिरण्यगर्भोऽग्रे समवर्त्ततासीत् स इमां सृष्टिं रचयित्वोतापि पृथिवीं द्यां दाधार तस्मै कस्मै सुखस्वरूपाय देवाय परमेश्वराय हविषा विधेम तथा, यूयमप्येनं सेवध्वम्॥४॥
पदार्थः -�(हिरण्यगर्भः) हिरण्यानि सूर्य्यादीनि तेजांसि गर्भे मध्ये यस्य सः। ज्योतिर्वै हिरण्यम्॥ शत॰[६.७.२.१। हिरण्यं कस्माद् ध्रियत आयम्यमानमिति वा, ह्रियते जनाज्जनमिति वा, हितरमणं भवतीति वा, हर्यतेर्वा स्यात् प्रेप्साकर्मणः॥ निरु॰२।१०॥
7
हि॒र॒ण्य॒ऽग॒र्भः। सम्। अ॒व॒र्त॒त॒। अग्रे॑। भू॒तस्य॑। जा॒तः। पतिः॑। एकः॑। आ॒सी॒त् ।
सः। दा॒धा॒र॒। पृ॒थि॒वीम्। द्याम्। उ॒त। इ॒माम्। कस्मै॑। दे॒वाय॑। ह॒विषा॑। वि॒धे॒म॒॥
दयानन्दभाष्यम्
पदार्थः -�(सम्) (अवर्त्तत) (अग्रे) सृष्टेः प्राक् (भूतस्य) उत्पन्नस्य (जातः) जनकः (पतिः) पालकः (एकः) असहायोऽद्वितीयः (आसीत्) (सः) (दाधार) धृतवान् (पृथिवीम्) प्रकाशरहितं भूगोलादिकम् (द्याम्) प्रकाशमयं सूर्यादिकम् (उत) (इमाम्) वर्त्तमानां सृष्टिम् (कस्मै) सुखस्वरूपा प्रजापतये (देवाय) प्रकाशमानाय (हविषा) आत्मादिसामग्र्या (विधेम) परिचरेम। विधेमेति परिचरणकर्मा॰॥ निघं॰३।५॥
8
हि॒र॒ण्य॒ऽग॒र्भः। सम्। अ॒व॒र्त॒त॒। अग्रे॑। भू॒तस्य॑। जा॒तः। पतिः॑। एकः॑। आ॒सी॒त् ।
सः। दा॒धा॒र॒। पृ॒थि॒वीम्। द्याम्। उ॒त। इ॒माम्। कस्मै॑। दे॒वाय॑। ह॒विषा॑। वि॒धे॒म॒॥
दयानन्दभाष्यम्
पदार्थः -�निरुक्तकार एवमाह-हिरण्यगर्भो हिरण्यमयो गर्भो हिरण्मयो गर्भोऽस्येति वा, गर्भो गृभेर्गृणात्यर्थे गिरत्यनर्थानिति वा, यदा हि स्त्री गुणान् गृह्णाति गुणाश्चास्या गृह्यन्तेऽथ गर्भो भवति। समभवदग्रे भूतस्य जातः पतिरेको बभूव, स धारयति पृथिवीं दिवं च कस्मै देवाय हविषा विधेमेति व्याख्यातं विधतिर्दानकर्मा॥ निरु॰१०।२३। [अयं मन्त्रः शत॰७.४.१.९ व्याख्यातः]॥४॥
9
हि॒र॒ण्य॒ऽग॒र्भः। सम्। अ॒व॒र्त॒त॒। अग्रे॑। भू॒तस्य॑। जा॒तः। पतिः॑। एकः॑। आ॒सी॒त् ।
सः। दा॒धा॒र॒। पृ॒थि॒वीम्। द्याम्। उ॒त। इ॒माम्। कस्मै॑। दे॒वाय॑। ह॒विषा॑। वि॒धे॒म॒॥
दयानन्दभाष्यम्
पदार्थः -�भावार्थः - हे मनुष्याः! यूयमस्या व्यक्तायाः सृष्टेः प्राक् परमेश्वर एव जागरूक आसीत्। जीवा मूर्छिता इवासन्। कारणं चाकाशवत् सुस्थिरं चासीत्। येन सर्वा सृष्टी रचिता, धृता प्रलयसमये भिद्यते, तमेवोपास्यं मन्यध्वम्॥४॥
10
हि॒र॒ण्य॒ऽग॒र्भः। सम्। अ॒व॒र्त॒त॒। अग्रे॑। भू॒तस्य॑। जा॒तः। पतिः॑। एकः॑। आ॒सी॒त् ।
सः। दा॒धा॒र॒। पृ॒थि॒वीम्। द्याम्। उ॒त। इ॒माम्। कस्मै॑। दे॒वाय॑। ह॒विषा॑। वि॒धे॒म॒॥
दयानन्दभाष्यम्
पदार्थ - हे मनुष्यो! जैसे हम लोग जो इस (भूतस्य) उत्पन्न हुए संसार का (जातः) रचने और (पतिः) पालन करने हारा (एकः) सहाय की अपेक्षा से
रहित (हिरण्यगर्भः) सूर्यादि तेजोमय पदार्थों का आधार (अग्रे) जगत् रचने के पहिले (समवर्त्तत) वर्त्तमान (आसीत्) था (सः) वह (इमाम्) इस संसार को रच के (उत) और (पृथिवीम्) प्रकाशरहित और (द्याम्) प्रकाशसहित सूर्यादि लोकों को (दाधार) धारण करता हुआ, उस (कस्मै) सुखरूप प्रजा पालने वाले (देवाय) प्रकाशमान परमात्मा की (हविषा) आत्मादि सामग्री से (विधेम) सेवा में तत्पर हों, वैसे तुम लोग भी इस परमात्मा का सेवन करो॥४॥