मण्डलम् १०, सूक्तम् १२१
1
हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् ।
स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
य आ॑त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः ।
यस्य॑ छा॒यामृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ ।
य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
येन॒ द्यौरु॒ग्रा पृ॑थि॒वी च॑ दृ॒ळ्हा येन॒ स्व॑: स्तभि॒तं येन॒ नाकः॑ ।
यो अ॒न्तरि॑क्षे॒ रज॑सो वि॒मानः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव ।
यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥
श्रीः योगिनां केन्बरासंस्कृतवर्गः�१७.०३.२०२२
2
मण्डलम् १०, सूक्तम् १२१, ऋक् ३
संहिता
यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ ।
य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
पदपाठः
यः । प्रा॒ण॒तः । नि॒ऽमि॒ष॒तः । म॒हि॒ऽत्वा । एकः॑ । इत् । राजा॑ । जग॑तः । ब॒भूव॑ ।
यः । ईशे॑ । अ॒स्य । द्वि॒ऽपदः॑ । चतुः॑ऽपदः । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥
3
यः । प्रा॒ण॒तः । नि॒ऽमि॒ष॒तः । म॒हि॒ऽत्वा । एकः॑ । इत् । राजा॑ । जग॑तः । ब॒भूव॑ ।
यः । ईशे॑ । अ॒स्य । द्वि॒ऽपदः॑ । चतुः॑ऽपदः । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥
सायणभाष्यम्
यः हिरण्यगर्भः प्राणतः प्रश्वसतः। अन प्राणने आदादिकः। शतुरनुमः इति विभक्तेरुदात्तत्वम्। निमिषतः अक्षिपक्ष्मचलनं कुर्वतः। अत्रापि पूर्ववद्विभक्तिरुदात्ता। जगतः जङ्गमस्य प्राणिजातस्य महित्वा महत्त्वेन । सुपां सुलुगिति तृतीयाया आकारः। माहात्म्येन एक इत् अद्वितीय एव सन् राजा बभूव ईश्वरो भवति। भवतेर्णलि लिति (६.१.१९३) इति प्रत्ययात्पूर्वस्योदात्तत्वम्। अस्य परिदृश्यमानस्य द्विपदः पादद्वययुक्तस्य मनुष्यादेः चतुष्पदः गवाश्वादेश्च यः प्रजापतिः ईशे ईष्टे। ईश ऐश्वर्ये आदादिकोऽनुदात्तेत्। लोपस्त आत्मनेपदेष्विति तलोपः। अनुदात्तेत्त्वाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः। अस्य । ऊडिदमितिदमो विभक्तिरुदात्ता।
4
यः । प्रा॒ण॒तः । नि॒ऽमि॒ष॒तः । म॒हि॒ऽत्वा । एकः॑ । इत् । राजा॑ । जग॑तः । ब॒भूव॑ ।
यः । ईशे॑ । अ॒स्य । द्वि॒ऽपदः॑ । चतुः॑ऽपदः । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥
सायणभाष्यम्
द्वौ पादौ यस्य स द्विपात्। सङ्ख्यासुपूर्वस्य (५.४.१४०) इति पादशब्दस्यान्त्यलोपः समासान्तः। भसंज्ञायां पादः पत् (६.४.१३०) इति पद्भावः। द्वित्रिभ्यां पाद्दन् (६.२.१९७) इत्येकादेशविकृतस्यानन्यत्वादुत्तरपदान्तोदात्तत्वम्। स्वरवर्जमेषैव चतुष्पद इत्यत्रापि प्रक्रिया। बहुव्रीहौ प्रकृत्येति पूर्वपदप्रकृतिस्वरः। पूर्वपदस्य त्रः सङ्ख्यायाः। फि. २-५। इत्याद्युदात्तत्वम्। इदुदुपधस्य चाप्रत्ययस्येति वसर्जनीयस्य षत्वम्। ईदृशो यः प्रजापतिस्तस्मै कस्मै इत्यादि सुबोधं हविषा हृदयाद्यात्मनेत्ययमत्र विशेषः॥३॥
5
यः । प्रा॒ण॒तः । नि॒ऽमि॒ष॒तः । म॒हि॒ऽत्वा । एकः॑ । इत् । राजा॑ । जग॑तः । ब॒भूव॑ ।
यः । ईशे॑ । अ॒स्य । द्वि॒ऽपदः॑ । चतुः॑ऽपदः । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥
ऋग्वेद भाष्यम् (ब्रह्ममुनि जी) - संस्कृत
पदार्थः -�(यः) यः परमात्मा (प्राणतः-निमिषतः-जगतः) प्राणं गृह्णतोऽथ शान्तचेष्टां कुर्वतश्च जगतः संसारस्य (महित्वा) स्वमहत्त्वेन (एकः-इत्) एक एव (राजा बभूव) राजाऽस्ति (यः) यः खलु (अस्य द्विपदः-चतुष्पदः-ईशे) अस्य द्विपादवतश्चतुष्पादवतश्च प्राणिनः स्वामिनं करोति (कस्मै देवाय हविषा-विधेम) पूर्ववत् ॥३॥
श्रीः योगिनां केन्बरासंस्कृतवर्गः�१७.०३.२०२२
6
मण्डलम् १०, सूक्तम् १२१, ऋक् ५
संहिता
येन॒ द्यौरु॒ग्रा पृ॑थि॒वी च॑ दृ॒ळ्हा येन॒ स्व॑: स्तभि॒तं येन॒ नाकः॑ ।
यो अ॒न्तरि॑क्षे॒ रज॑सो वि॒मानः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
पदपाठः
येन॑ । द्यौः । उ॒ग्रा । पृ॒थि॒वी । च॒ । दृ॒ळ्हा । येन॑ । स्व१रिति॑ स्वः॑ । स्त॒भि॒तम् । येन॑ । नाकः॑ ।
यः । अ॒न्तरि॑क्षे । रज॑सः । वि॒ऽमानः॑ । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥
7
येन॑ । द्यौः । उ॒ग्रा । पृ॒थि॒वी । च॒ । दृ॒ळ्हा । येन॑ । स्व१रिति॑ स्वः॑ । स्त॒भि॒तम् । येन॑ । नाकः॑ ।
यः । अ॒न्तरि॑क्षे । रज॑सः । वि॒ऽमानः॑ । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥
सायणभाष्यम्
येन प्रजापतिना द्यौः अरन्तरिक्षम् उग्रा उद्गूर्णं विशेषागहनरूपं वा। पृथिवी भूमिश्च दृळ्हा येन स्थिरीकृता। स्वः स्वर्गश्च येन स्तभितं स्तब्धं कृतम्। यथाधो न पतति तथोपरि अवस्थापितमित्यर्थः। ग्रसितस्कभितस्तभितेति निपात्यते। तथा नाकः आदित्यश्च येनान्तरिक्षे स्तभितः। य: च अन्तरिक्षे रजस: उदकस्य विमानो निर्माता। तस्मै कस्मा इत्यादि गतम्॥५॥
8
येन॑ । द्यौः । उ॒ग्रा । पृ॒थि॒वी । च॒ । दृ॒ळ्हा । येन॑ । स्व१रिति॑ स्वः॑ । स्त॒भि॒तम् । येन॑ । नाकः॑ ।
यः । अ॒न्तरि॑क्षे । रज॑सः । वि॒ऽमानः॑ । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥
ऋग्वेद भाष्यम् (ब्रह्ममुनि जी) - संस्कृत
पदार्थः –�(येन-उग्रा द्यौः) येन परमात्मा तेजस्विनी द्यौः (दृढा पृथिवी च) कठोरा पृथिवी च धारिता (येन स्वः स्तभितम्) येन मध्यमं स्थानं स्थिरीकृतं (येन नाकः) येन परमात्मना मोक्षो धारितः (यः-अन्तरिक्षे) योऽन्तरिक्षे (रजसः-विमानः) लोकमात्रस्य विशेषेण मानकर्त्ता संसाधयिता (कस्मै....) पूर्ववत् ॥५॥
9
येन॑ । द्यौः । उ॒ग्रा । पृ॒थि॒वी । च॒ । दृ॒ळ्हा । येन॑ । स्व१रिति॑ स्वः॑ । स्त॒भि॒तम् । येन॑ । नाकः॑ ।
यः । अ॒न्तरि॑क्षे । रज॑सः । वि॒ऽमानः॑ । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥
पदार्थ - (येन) जिस परमात्मा ने (उग्रा द्यौः) तेजस्वी द्यौ (च) और (दृढा पृथिवी च) कठोर पृथिवी धारण की है (येन) जिसने (स्वः स्तभितम्) मध्य स्थान को सम्भाला हुआ है (येन नाकः) जिसने मोक्ष धारण किया हुआ है (यः) जो (अन्तरिक्षे) अन्तरिक्ष में (रजसः-विमानः) लोकमात्र का विशेषरूप से मानकर्त्ता साधनेवाला है (कस्मै...) पूर्ववत् ॥५॥
भावार्थ - परमात्मा तेजस्वी द्युमण्डल को और कठोर पृथिवी को, मध्य स्थान को और लोकमात्र को तथा मोक्षधाम को सम्भाले हुए है, उस ऐसे सुखस्वरूप प्रजापति के लिये उपहाररूप से अपनी आत्मा को समर्पित करना चाहिये ॥५॥
श्रीः योगिनां केन्बरासंस्कृतवर्गः�१७.०३.२०२२
10
मण्डलम् १०, सूक्तम् १२१, ऋक् १०
संहिता
प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव ।
यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥
पदपाठः
प्रजा॑ऽपते । न । त्वत् । ए॒तानि॑ । अ॒न्यः । विश्वा॑ । जा॒तानि॑ । परि॑ । ता । ब॒भू॒व॒ ।
यत्ऽका॑माः । ते॒ । जु॒हु॒मः । तत् । नः॒ । अ॒स्तु॒ । व॒यम् । स्या॒म॒ । पत॑यः । र॒यी॒णाम् ॥
11
प्रजा॑ऽपते । न । त्वत् । ए॒तानि॑ । अ॒न्यः । विश्वा॑ । जा॒तानि॑ । परि॑ । ता । ब॒भू॒व॒ ।
यत्ऽका॑माः । ते॒ । जु॒हु॒मः । तत् । नः॒ । अ॒स्तु॒ । व॒यम् । स्या॒म॒ । पत॑यः । र॒यी॒णाम् ॥
सायणभाष्यम्
हे प्रजापते त्वत् त्वत्तः अन्यः कश्चिद् एतानि इदानीं वर्तमानानि विश्वा विश्वानि सर्वाणि। शेश्छन्दसि बहुलमिति शेर्लोपः। जातानि प्रथमविकारभाञ्जि ता तानि सर्वाणि भूतजातानि न परि बभूव। न परिगृह्णाति। न व्याप्नोति। त्वमेवैतानि परिगृह्य स्रष्टुं शक्नोषीति भाव। परिपूर्वो भवतिः परिग्रहार्थः। वयं च यत्कामाः यत्फलं कामयमानाः ते तुभ्यं जुहुमः हवींषि प्रयच्छामः तत् फलं नः अस्माकम् अस्तु। भवतु। तथा वयं च रयीणां धनानां पतयः ईश्वराः स्याम भवेम। नामन्यतरस्यामिति नाम उदात्तत्वम्॥१०॥
12
हि॒र॒ण्य॒ऽग॒र्भः। सम्। अ॒व॒र्त॒त॒। अग्रे॑। भू॒तस्य॑। जा॒तः। पतिः॑। एकः॑। आ॒सी॒त् ।
सः। दा॒धा॒र॒। पृ॒थि॒वीम्। द्याम्। उ॒त। इ॒माम्। कस्मै॑। दे॒वाय॑। ह॒विषा॑। वि॒धे॒म॒॥
न केवलं पतिरासीदेव अपि तर्हि सः हिरण्यगर्भः पृथिवीं विस्तीर्णां द्यां दिवम् उत अपि च इमाम् अस्माभिर्दृश्यमानां पुरोवर्तिनीमिमां भूमिम्। यद्वा। पृथिवीत्यन्तरिक्षनाम। अन्तरिक्षं दिवं भूमिं च दाधार धारयति। छन्दसि लुङ् लङ् लिट इति सार्वकालिको लिट्। तुजादित्वादभ्यास दीर्घः। कस्मै। अत्र किं शब्दोऽनिर्ज्ञातस्वरूपत्वात्प्रजापतौ वर्तते। यद्वा। सृष्ट्यर्थं कामयत इति कः। कमेर्डप्रत्ययः। यद्वा। कं सुखम्। तद्रूपत्वात्क इत्युच्यते। अथवेन्द्रेण पृष्टः प्रजापतिर्मदीयं महत्त्वं तुभ्यं प्रदायाहं कः कीदृशः स्यामित्युक्तवान्। स इन्द्रः प्रत्यूचे यदीदं ब्रवीष्यहं कः स्यामिति तदेव त्वं भवेति। अतः कारणात्क इति प्रजापतिराख्यायते।
13
हि॒र॒ण्य॒ऽग॒र्भः। सम्। अ॒व॒र्त॒त॒। अग्रे॑। भू॒तस्य॑। जा॒तः। पतिः॑। एकः॑। आ॒सी॒त् ।
सः। दा॒धा॒र॒। पृ॒थि॒वीम्। द्याम्। उ॒त। इ॒माम्। कस्मै॑। दे॒वाय॑। ह॒विषा॑। वि॒धे॒म॒॥
इन्द्रो वै वृत्रं हत्वा सर्वा विजितीर्विजित्याब्रवीत् इत्यादिकं ब्राह्मणमत्रानुसन्धेयम् ।ऐ. ब्रा. ३-२१। यदासौ किं शब्दस्तदा सर्वनामत्वात्स्मैभावः सिद्धः। यदा तु यौगिकस्तदा व्यत्ययेनेति द्रष्टव्यम्। सावेकाच इति प्राप्तस्य न गोश्वन्साववर्णेति प्रतिषेधः। क्रियाग्रहणं कर्तव्यमिति कर्मनः सम्प्रदानत्वाच्चतुर्थी। कं प्रजापतिं देवाय देवं दानादिगुणयुक्तं हविषा प्राजापत्यस्य पशोर्वपारूपेणैककपालात्मकेन पुरॊडाशेन वा विधेम। वयमृत्विजः परिचरेम। विधतिः परिचरनकर्मा॥१॥
वपा स्त्री वप—अच्, मेदसि (चरवि)“ वपाया हविषः” इति श्रुतिः . छिद्रे च अमरः
श्रीः योगिनां केन्बरासंस्कृतवर्गः�१०.०३.२०२२
14
मण्डलम् १०, सूक्तम् १२१, ऋक् २
संहिता
य आ॑त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः ।
यस्य॑ छा॒यामृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
पदपाठः
यः । आ॒त्म॒ऽदाः । ब॒ल॒ऽदाः । यस्य॑ । विश्वे॑ । उ॒प॒ऽआस॑ते । प्र॒ऽशिष॑म् । यस्य॑ । दे॒वाः ।
यस्य॑ । छा॒या । अ॒मृत॑म् । यस्य॑ । मृ॒त्युः । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥
15
यः । आ॒त्म॒ऽदाः । ब॒ल॒ऽदाः । यस्य॑ । विश्वे॑ । उ॒प॒ऽआस॑ते । प्र॒ऽशिष॑म् । यस्य॑ । दे॒वाः ।
यस्य॑ । छा॒या । अ॒मृत॑म् । यस्य॑ । मृ॒त्युः । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥
सायणभाष्यम् – यः प्रजापतिः आत्मदाः आत्मनां दाता। आत्मानो हि सर्वे तस्मात्परमात्मन उत्पद्यन्ते। यथाग्नेः सकाशाद्विस्फुलिङ्गा जायन्ते तद्वत्। यद्वा। आत्मनां शोधयिता। दैप् शोधने। आतो मनिन् इति विच्। बलदाः बलस्य च दाता शोधयिता वा। यस्य च प्रशिषं प्रकृष्टं शासनमाज्ञां विश्वे सर्वे प्राणिनः उपासते प्रार्थयन्ते सेवन्ते वा। तथा देवाः अपि यस्य प्रशासनमुपासते। अपि च अमृतम् अमृतत्वम्। भावप्रधानो निर्देशः। यद्वा। अमृतम्। मरणं नास्त्यस्मिन्नित्यमृतं सुधा। बहुव्रीहौ नञो जरमरमित्रमृता: इत्युत्तरपदाद्युदात्तत्वम्। तदपि यस्य प्रजापतेः छाया छायेव वर्ति भवति। मृत्युः यमश्च प्राणापहारी छायेव भवति। तस्मै कस्मै देवाय इत्यादि समानं पूर्वेण हविषा पुरोडाशात्मनेति तु विशेषः॥२॥
16
यः । आ॒त्म॒ऽदाः । ब॒ल॒ऽदाः । यस्य॑ । विश्वे॑ । उ॒प॒ऽआस॑ते । प्र॒ऽशिष॑म् । यस्य॑ । दे॒वाः ।
यस्य॑ । छा॒या । अ॒मृत॑म् । यस्य॑ । मृ॒त्युः । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥
सायणभाष्यम्
शासु अनुशिष्टौ। शास इत्। पा. ६-४-३४। इत्युपधया इत्वम्। शासिवसिघसीनां चेति षत्वम्। कृदुत्तरपदप्रकृतिस्वरत्वम्। आसेरनुदात्तेत्वाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः। तिङि चोदात्तवति इति गतिरनुदात्ता। ॥२॥
17
यः । आ॒त्म॒ऽदाः । ब॒ल॒ऽदाः । यस्य॑ । विश्वे॑ । उ॒प॒ऽआस॑ते । प्र॒ऽशिष॑म् । यस्य॑ । दे॒वाः ।
यस्य॑ । छा॒या । अ॒मृत॑म् । यस्य॑ । मृ॒त्युः । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥
ऋग्वेद भाष्यम् (ब्रह्ममुनि जी) - संस्कृत
पदार्थः -�(यः-आत्मदाः-बलदाः) य आत्मत्वस्य-आत्मबोधस्य दाता बलस्य च दाता स्वसङ्गत्या, (यस्य प्रशिषं विश्वे-उपासते) यस्य प्रशासनं सर्वे साधारणा जनाः सेवन्ते (यस्य देवाः) यस्य प्रशासनं विशिष्टा विद्वांसश्च सेवन्ते-आचरन्ति (यस्य छाया-अमृतम्) यस्य छाया-आश्रयोऽमृतम् (यस्य मृत्युः) यस्य ‘अच्छाया’ ‘सामर्थ्यात्’ मृत्युर्नाशोऽस्ति (कस्मै देवाय हविषा-विधेम) पूर्ववत् ॥२॥