॥श्री:॥�केन्बरासंस्कृतवर्गः�१६.११.२०२२�॥महाकविभासप्रणीतं स्वप्नवासवदत्तम्॥�॥चतुर्थोऽङ्कः॥
1
॥ स्वप्नवासवदत्तम् ॥
विदूषकः - तत्रभवती पद्मावतीहागत्य निर्गता भवेत्।
राजा - कथं भवान् जानाति।
विदूषकः - इमानपचितकुसुमान् शेफालिकागुच्छकान् प्रेक्षतां तावद् भवान्।
राजा - अहो विचित्रता कुसुमस्य, वसन्तक।
वासवदत्ता - (आत्मगतम्) वसन्तकसंकीर्तनेनाहं पुनर्जानामि उज्जयिन्यां वर्त इति।
राजा - वसन्तक! अस्मिन्नेवासीनौ शिलातले पद्मावतीं प्रतीक्षिष्यावहे।
विदूषकः - भोस्तथा। (उपविश्योत्थाय) ही ही शरत्कालतीक्ष्णो दुःसह आतपः। तदिमं तावन्माधवीमण्डपं प्रविशावः।
राजा - बाढम्। गच्छाग्रतः। विदूषकः एवं भवतु। (उभौ परिक्रामतः)
पद्मावती - सर्वमाकुलं कर्तुकाम आर्यवसन्तकः। किमिदानीं कुर्मः।
॥ स्वप्नवासवदत्तम् ॥
चेटी - भर्तृदारिके! एतां मधुकरपरिनिलीनामवलम्बलतामवधूय भर्तारं वारयिष्यामि।
पद्मावती - एवं कुरु। (चेटी तथा करोति)
विदूषकः - अविधा अविधा, तिष्ठतु तावद् भवान्।
राजा - किमर्थम्।
विदूषकः - दास्याः पुत्रैर्मधुकरैः पीडितोऽस्मि।
राजा - मा मा भवानेवम्। मधुकरसंत्रासः परिहार्यः। पश्य,
मधुमदकला मधुकरा मदनार्ताभिः प्रियाभिरुपगूढाः।
पादन्यासविषण्णा वयमिव कान्तावियुक्ताः स्युः॥३॥ तस्मादिहैवासिष्यावहे। विदूषकः - एवं भवतु। (उभावुपविशतः)
॥ स्वप्नवासवदत्तम् ॥
राजा – (अवलोक्य)
पादाक्रान्तानि पुष्पाणि सोष्म चेदं शिलातलम्।
नूनं काचिदिहासीना मां दृष्ट्वा सहसा गता॥
चेटी - भर्तृदारिके! रुद्धाः खलु स्मो वयम्।
पद्मावती - दिष्ट्योपविष्ट आर्यपुत्रः।
वासवदत्ता - (आत्मगतम्) दिष्ट्या प्रकृतिस्थशरीर आर्यपुत्रः।
चेटी - भर्तृदारिके! साश्रुपाता खल्वार्याया दृष्टिः।
वासवदत्ता - एषा खलु मधुकराणामविनयात् काशकुसुमरेणुना पतितेन सोदका मे दृष्टिः।
पद्मावती - युज्यते।
विदूषकः - भोः! भोः! शून्यं खल्विदं प्रमदवनम्। प्रष्टव्यं किञ्चिदस्ति। पृच्छामि भवन्तम्।
॥ स्वप्नवासवदत्तम् ॥
राजा - छन्दतः।
विदूषकः - का भवतः प्रिया। तदानीं तत्रभवती वासवदत्ता इदानीं पद्मावती वा।
राजा - किमिदानीं भवान् महति बहुमानसङ्कटे मां न्यस्यति।
पद्मावती - हला! ईद्दशे सङ्कटे निक्षिप्त आर्यपुत्रः।
वासवदत्ता - (आत्मगतम्) अहं च मन्दभागा।
विदूषकः - स्वैरं स्वैरं भणतु भवान्। एकोपरता, अपराऽसंनिहिता।
राजा - वयस्य! न खलु न खलु ब्रूयाम्। भवांस्तु मुखरः।
पद्मावती - एतावता भणितमार्यपुत्रेण।
विदूषकः - भोः! सत्येन शपामि, कस्मा अपि नाख्यास्यामि! एषा संदष्टा मे जिह्वा। राजा - नोत्सहे, सखे! वक्तुम्।
॥ स्वप्नवासवदत्तम् ॥
पद्मावती - अहो अस्य पुरोभागिता। एतावता हृदयं न जानाति।
विदूषकः - किं न भणति मह्यम्। अनाख्यायास्माच्छिलापट्टकान्न शक्यमेकपदमपि गन्तुम्। एष रुद्धोऽत्रभवान्।
राजा - किं बलात्कारेण।
विदूषकः - आम् बलात्कारेण।
राजा - तेन हि पश्यामस्तावत्।
विदूषकः - प्रसीदतु प्रसीदतु भवान्। वयस्यभावेन शापितोऽसि, यदि सत्यं न भणसि।
राजा - का गतिः। श्रूयताम्।
॥ स्वप्नवासवदत्तम् ॥
पद्मावती बहुमता मम यद्यपि रूपशीलमाधुर्यैः।
वासवदत्ताबद्धं न तु तावन्मे मनो हरति॥४॥
वासवदत्ता - (आत्मगतम्) भवतु भवतु। दत्तं वेतनमस्य परिखेदस्य। अहो अज्ञातवासोऽप्यत्र बहुगुणः संपद्यते।
चेटी - भर्तृदारिके! अदाक्षिण्यः खलु भर्ता।
पद्मावती - हला! मा मैवम्। सदाक्षिण्य एवार्यपुत्रो, य इदानीमप्यार्याया वासवदत्ताया गुणान् स्मरति।
वासवदत्ता - भद्रे! अभिजनस्य सदृशं मन्त्रितम्।
राजा - उक्तं मया। भवानिदानीं कथयतु। का भवतः प्रिया, तदा वासवदत्ता, इदानीं पद्मावती वा।
॥ स्वप्नवासवदत्तम् ॥
पद्मावती – आर्यपुत्रोऽपि वसन्तकः संवृत्तः।
विदूषकः - किं मे विप्रलपितेन। उभे अपि तत्रभवत्यौ मे बहुमते।
राजा - वैधेय! मामेवं बलाच्छ्रुत्वा किमिदानीं नाभिभाषसे।
विदूषकः - किं मामपि बलात्कारेण।
राजा - अथ किं, बलात्कारेण।
विदूषकः – तेन हि न शक्यं श्रोतुम्।
राजा - प्रसीदतु प्रसीदतु महाब्राह्मणः। स्वैरं स्वैंरमभिधीयताम्।
विदूषकः – इदानीं श्रृणोतु भवान्। तत्रभवती वासवदत्ता मे बहुमता। तत्रभवती पद्मावती तरुणी दर्शनीया अकोपना अनहंकारा मधुरवाक् सदाक्षिण्या। अयं चापरो महान् गुणः। स्निग्धेन भोजनेन मां प्रत्युद्गच्छति-कुत्र न खलु गत आर्यवसन्तक इति।
वासवदत्ता - भवतु भवतु, वसन्तक! स्मरेदानीमेतत्।