श्रीः योगिनां केन्बरासंस्कृतवर्गः�१०.०२.२०२२
1
संहिता
चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ।
आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षं॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥
पदपाठः
चि॒त्रम्। दे॒वाना॑म्। उत्। अ॒गा॒त्। अनी॑कम्। चक्षुः॑। मि॒त्रस्य॑। वरु॑णस्य। अ॒ग्नेः।
आ । अ॒प्राः॒ । द्यावा॑पृथि॒वी इति॑ । अ॒न्तरि॑क्षम् । सूर्यः॑ । आ॒त्मा । जग॑तः । त॒स्थुषः॑ । च॒ ॥
2
चि॒त्रम्। दे॒वाना॑म्। उत्। अ॒गा॒त्। अनी॑कम्। चक्षुः॑। मि॒त्रस्य॑। वरु॑णस्य। अ॒ग्नेः। आ । अ॒प्राः॒ । द्यावा॑पृथि॒वी इति॑ । अ॒न्तरि॑क्षम् । सूर्यः॑ । आ॒त्मा । जग॑तः । त॒स्थुषः॑ । च॒ ॥
अन्वयः - हे मनुष्या यदनीकं देवानां मित्रस्य वरुणस्याग्नेश्चित्रं चक्षुरुदगाद्यो जगदीश्वरः सूर्य इव विज्ञानमयो जगतस्तस्थुषश्चात्मा योऽन्तरिक्षं द्यावापृथिवी चाप्राः परिपूरितवानस्ति तमेव यूयमुपाध्वम् ॥१॥ - दयानन्दभाष्यम्
पदार्थः - (चित्रम्) अद्भुतम् (देवानाम्) विदुषां दिव्यानां पदार्थानां वा (उत्) उत्कृष्टतया (अगात्) प्राप्तमस्ति (अनीकम्) चक्षुरादीन्द्रियैरप्राप्तम् (चक्षुः) दर्शकं ब्रह्म (मित्रस्य) सुहृद इव वर्त्तमानस्य सूर्यस्य (वरुणस्य) आह्लादकस्य जलचन्द्रादेः (अग्नेः) विद्युदादेः (आ) समन्तात् (अप्राः) पूरितवान् (द्यावापृथिवी) प्रकाशभूमी (अन्तरिक्षम्) आकाशम् (सूर्यः) सवितेव ज्ञानप्रकाशः (आत्मा) अतति सर्वत्र व्याप्नोति सर्वान्तर्यामी (जगतः) जङ्गमस्य (तस्थुषः) स्थावरस्य (च) सकलजीवसमुच्चये॥१॥
3
चि॒त्रम्। दे॒वाना॑म्। उत्। अ॒गा॒त्। अनी॑कम्। चक्षुः॑। मि॒त्रस्य॑। वरु॑णस्य। अ॒ग्नेः। आ । अ॒प्राः॒ । द्यावा॑पृथि॒वी इति॑ । अ॒न्तरि॑क्षम् । सूर्यः॑ । आ॒त्मा । जग॑तः । त॒स्थुषः॑ । च॒ ॥
सायणभाष्यम् - देवानाम् । दीव्यन्तीति देवा रश्मयः तेषाम्। देवजनानामेव वा। अनीकं तेजःसमूहरूपं चित्रमाश्चर्यकरं सूर्यस्य मंडलमुदगात् उदयाचलं प्राप्तमासीत्। कीदृशम् । मित्रस्य वरुणस्याग्नेश्च । उपलक्षणमेतत् । तदुपलक्षितानां जगतां चक्षुः प्रकाशकं चक्षुरिन्द्रियस्थानीयं वा । उदयं प्राप्य च द्यावापृथिवी दिवं पृथिवीमन्तरिक्षं च अप्राः । स्वकीयेन तेजसा आ समन्तादपूरयत् । ईदृग्भूतमण्डलान्तर्वती सूर्यः अन्तर्यामितया सर्वस्य प्रेरकः परमात्मा जगतो जङ्गमस्य तस्थुषः स्थावरस्य चात्मा स्वरूपभूतः। स हि सर्वस्य स्थावरजङ्गमात्मकस्य कार्यवर्गस्य कारणम्। कारणाच्च कार्यं नातिरिच्यते ।
4
चि॒त्रम्। दे॒वाना॑म्। उत्। अ॒गा॒त्। अनी॑कम्। चक्षुः॑। मि॒त्रस्य॑। वरु॑णस्य। अ॒ग्नेः। आ । अ॒प्राः॒ । द्यावा॑पृथि॒वी इति॑ । अ॒न्तरि॑क्षम् । सूर्यः॑ । आ॒त्मा । जग॑तः । त॒स्थुषः॑ । च॒ ॥
सायणभाष्यम् - तथा च पारमर्षं सूत्रं। तदनन्यत्वमारम्भणशब्दादिभ्य इति (ब्र॰ सू॰ २.१.१४) ॥ यद्वा। स्थावरजङ्गमात्मकस्य सर्वस्य प्राणिजातस्य जीवात्मा। उदिते हि सूर्ये मृतप्रायं सर्वं जगत्पुनश्चेतनयुक्तं सदुपलभ्यते। तथा च श्रूयते। योऽसौ तपन्नुदेति स सर्वेषां भूतानां प्राणानादायोदेतीति। तै॰ आ॰ १-१४-१। इति ॥ आप्राः। प्रा पूरणे। लङि पुरुषव्यत्ययः। अदादित्वाच्छपो लुक्। जगतः। गमेर्द्वे च। पा॰ ३-३-१७८-३। इति क्विब्द्विर्वचनं च। गमः क्वौ इत्यनुनासिकलोपः। तस्थुषः। तिष्ठतेर्लिटः क्वसुः। द्विर्वचने शर्पूर्वाः खयः। षष्ठ्येकवचने वसोः संप्रसारणमिति संप्रसारणम्।आतो लोप इटि चेत्याकारलोपः शासिवसीति षत्वम् ॥१॥
5
उत्। व॒यम्। तम॑सः। परि॑। ज्योतिः॑। पश्य॑न्तः। उत्ऽत॑रम्।�दे॒वम्। दे॒व॒ऽत्रा। सूर्य॑म्। अग॑न्म। ज्योतिः॑। उ॒त्ऽत॒मम् ॥
सायणभाष्यम् तमसस्परि। पञ्चम्याः परावध्यर्थे इति विसर्जनीयस्य सत्वम्। ज्योतिष्पश्यन्तः। इसुसोः सामर्थ्ये (पा॰ ८-३-४४)। इति विसर्जनीयस्य षत्वम्। व्यपेक्षालक्षणं सामर्थ्यं तत्राङ्गीक्रियते। देवत्रा। देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तम्यार्बहुलम् (पा॰ ५-४-५६)। इति सप्तम्यर्थे त्राप्रत्ययः। प्रत्ययस्वरः। अगन्म। छंदसि लुङ्लङ्लिटः इति प्रार्थनायां लङि बहुलं छंदसीति शपो लुक्। म्वोश्च (पा॰ ८-२-६५)। इति धातोर्मकारस्य नकारः। अडागम उदात्तः। पादादित्वान्नि घाताभावः। उत्तमं। तमपः पित्त्वा दनुदात्तत्वे प्राप्त उत्तमशश्वत्तमौ सर्वत्रेत्युंछादिषु पाठादन्तोदात्तत्वं॥१०॥
6
उत् । ऊं॒ इति॑ । त्यम् । जा॒तऽवे॑दसम् । दे॒वम् । व॒ह॒न्ति॒ । के॒तवः॑ ।
दृ॒शे । विश्वा॑य । सूर्य॑म् ॥
दयानन्दभाष्यम् – (उत्) ऊर्ध्वार्थे (उ) वितर्के (त्यम्) अमुम् (जातवेदसम्) यो जातान् पदार्थान् विन्दति तम् (देवम्) देदीप्यमानम् (वहन्ति) प्राप्नुवन्ति (केतवः) किरणाः (दृशे) द्रष्टुं दर्शयितुं वा। इदं केन्प्रत्ययान्तं निपातनम् (विश्वाय) सर्वेषां दर्शनव्यवहाराय (सूर्य्यम्) सवितृलोकम्। यास्कमुनिरिमं मन्त्रमेवं व्याख्यातवान्। उद्वहन्ति तं जातवेदसं देवमश्वाः केतवो रश्मयो वा सर्वेषां भूतानां संदर्शनाय सूर्य्यम्। निरु० १२।१५। ॥१॥ #[‘दृशे विख्येच’ अ० ३।४।११। इत्यनने सूत्रेण। सं०।]
पदार्थ -�हे मनुष्यो ! तुम जैसे (केतवः) किरणें (विश्वाय) सबके (दृशे) दीखने (उ) और दिखलाने के योग्य व्यवहार के लिये (त्यम्) उस (जातवेदसम्) उत्पन्न किये हुए पदार्थों को प्राप्त करनेवाले (देवम्) प्रकाशमान (सूर्य्यम्) रविमंडल को (उद्वहन्ति) ऊपर वहती हैं वैसे ही गृहाश्रम का सुख देने के लिये सुशोभित स्त्रियों को विवाह विधि से प्राप्त होओ ॥१॥
7
उत्। ऊं॒ इति॑। त्यम्। जा॒तऽवे॑दसम्। दे॒वम्। व॒ह॒न्ति॒। के॒तवः॑। दृ॒शे। विश्वा॑य। सूर्य॑म्॥
सायणभाष्यम्
केतवः प्रज्ञापकाः सूर्याश्वा यद्वा सूर्यरश्मयः सूर्यं सर्वस्य प्रेरकमादित्यम् उदु वहन्ति। ऊर्ध्वं वहन्ति। उ इति पादपूरणः। उक्तं च। मिताक्षरेष्वनर्थकाः कमीमिद्विति (नि॰ १-९)। किमर्थं विश्वाय विश्वस्मै भुवनाय दृशे द्रष्टुम्। यथा सर्वे जनाः सूर्यं पश्यन्ति तथोर्ध्वं वहन्तीत्यर्थः। कीदृशं सूर्यम्। त्यं प्रसिद्धं जातवेदसं जातानां प्राणिनां वेदितारं जातप्रज्ञं जातधनं वा देवं द्योतमानम्। अत्र निरुक्तम् । उद्वहन्ति तं जातवेदसं देवमश्वाः केतवो रश्मयो वा सर्वेषां भूतानां संदर्शनाय सूर्यम् (नि॰ १२-१५)। इति ॥ जातवेदसम्। जातानि वेत्तीति जातवेदाः। गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वम्। चेत्यसुन् पूर्वपदप्रकृतिस्वरत्वं च। दृशे। दृशे विख्ये च (पा॰ ३-४-११) । इति तुमर्थे निपातितः । सूर्यम् । राजसूयसूर्येत्यादिना षू प्रेरणे इत्यस्मात् क्यपि रुडागमसहितो निपातितः। अतः प्रत्ययस्य पित्त्वादनुदात्तत्त्वे धातुस्वरेणाद्युदात्तत्वं॥१॥
अथ अघमर्षणमन्त्राः - मण्डलम् १०, सूक्तम् १९०
ऋ॒तं च॑ स॒त्यं चा॒भी॑द्धा॒त्तप॒सोऽध्य॑जायत ।�ततो॒ रात्र्य॑जायत॒ ततः॑ समु॒द्रो अ॑र्ण॒वः ॥१॥
स॒मु॒द्राद॑र्ण॒वादधि॑ संवत्स॒रो अ॑जायत ।
अ॒हो॒रा॒त्राणि॑ वि॒दध॒द्विश्व॑स्य मिष॒तो व॒शी ॥२॥
सू॒र्या॒च॒न्द्र॒मसौ॑ धा॒ता य॑थापू॒र्वम॑कल्पयत् ।
दिवं॑ च पृथि॒वीं चा॒न्तरि॑क्ष॒मथो॒ स्वः॑ ॥३॥
8
9
मनसापरिक्रमामन्त्राः।
संहिता
प्राची॒ दिग॒ग्निरधि॑पतिरसि॒तो र॑क्षि॒तादि॒त्या इष॑वः। तेभ्यो॒ नमोऽधि॑पतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु। यो॒ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ॥अथर्ववेदः काण्डः ३ सूक्तम् २७ मन्त्रः १॥
पदपाठः
प्राची॑ । दिक् । अ॒ग्नि: । अधि॑ऽपति: । अ॒सि॒त: । र॒क्षि॒ता । आ॒दि॒त्या: । इष॑व: । तेभ्य॑: । नम॑: । अधि॑पतिऽभ्य: । नम॑: । र॒क्षि॒तृऽभ्य॑: । नम॑: । इषु॑ऽभ्य: । नम॑: । ए॒भ्य॒: । अ॒स्तु॒ । य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म:। तम् । व॒: । जम्भे॑ । द॒ध्म॒: ॥२७.१॥
10
दक्षि॑णा॒ दिगिन्द्रो॑ऽधिपति॒स्तिर॑श्चिराजी रक्षि॒ता पि॒तर॒ इष॑वः। तेभ्यो॒ नमो॑ऽधिपतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु। यो॒ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः॥२७.२॥
दक्षि॑णा । दिक्। इन्द्र॑:। अधि॑ऽपति:। तिर॑श्चिऽराजि:। र॒क्षि॒ता। पि॒तर॑:। इष॑व:। तेभ्य॑:। नम॑:। अधि॑पतिऽभ्य:। नम॑:। र॒क्षि॒तृऽभ्य॑:। नम॑:। इषु॑ऽभ्य:। नम॑:। ए॒भ्य॒:। अ॒स्तु॒। य:। अ॒स्मान्। द्वेष्टि॑। यम्। व॒यम्। द्वि॒ष्म:। तम्। व॒:। जम्भे॑। द॒ध्म:॥२७.२॥
11
प्र॒तीची॒ दिग्वरु॒णोऽधि॑पतिः॒ पृदा॑कू रक्षि॒तान्न॒मिष॑वः। तेभ्यो॒ नमो॑ऽधिपतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु। यो॒ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ॥२७.३॥
प्र॒तीची॑। दिक्। वरु॑ण:। अधि॑ऽपति:। पृदा॑कु:। र॒क्षि॒ता। अन्न॑म्। इष॑व:। तेभ्य॑:। नम॑:। अधि॑पतिऽभ्य:। नम॑:। र॒क्षि॒तृऽभ्य॑:। नम॑:। इषु॑ऽभ्य:। नम॑:। ए॒भ्य॒:। अ॒स्तु॒। य:। अ॒स्मान्। द्वेष्टि॑। यम्। व॒यम्। द्वि॒ष्म:। तम्। व॒:। जम्भे॑। द॒ध्म:॥२७.३॥
12
उदी॑ची॒ दिक्सोमोऽधि॑पतिः स्व॒जो र॑क्षि॒ताशनि॒रिष॑वः। तेभ्यो॒ नमो॑ऽधिपतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु। यो॒ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः॥२७.४॥
(उदीची) उदीच्याम्-सू० २६ म० ४। तत्रवद् रूपसिद्धिः। उदीच्याः। उत्तरभागस्थितायाः। वामभागवर्त्तमानायाः (सोमः) अ० ३।१६।१। षू प्रेरणे-मन्, तुदादिः। प्रेरकः। उत्तेजकः सेनापतिः (स्वजः) स्व+जः। यद्वा। सु+अज गतिक्षेपणयोः-अच्। स्वयमेवोत्पन्नः स्वजनशीलो वा सर्पः स्वजः-इति सायणः। तथाविधसर्पवत् सेनाव्यूहः (अशनिः) अर्त्तिसृधृधम्यम्यश्य०। उ० २।१०२। इति अश भक्षणे; वा अशू व्याप्तौ-अनि। विद्युद्विद्या। अन्यद् गतम् ॥
13
ध्रु॒वा दिग्विष्णु॒रधि॑पतिः क॒ल्माष॑ग्रीवो रक्षि॒ता वी॒रुध॒ इष॑वः। तेभ्यो॒ नमो॑ऽधिपतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु। यो॒ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः॥२७.५॥
ध्रु॒वा । दिक् । विष्णु॑: । अधि॑ऽपति: । क॒ल्माष॑ऽग्रीव: । र॒क्षि॒ता । वी॒रुध॑: । इष॑व: । तेभ्य॑: । नम॑: । अधि॑पतिऽभ्य: । नम॑: । र॒क्षि॒तृऽभ्य॑: । नम॑: । इषु॑ऽभ्य: । नम॑: । ए॒भ्य॒: । अ॒स्तु॒ । य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म: । तम् । व॒: । जम्भे॑ । द॒ध्म: ॥२७.५॥
14
ऊ॒र्ध्वा दिग्बृह॒स्पति॒रधि॑पतिः श्वि॒त्रो र॑क्षि॒ता व॒र्षमिष॑वः। तेभ्यो॒ नमो॑ऽधिपतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु। यो॒ऽस्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः॥२७.६॥
ऊ॒र्ध्वा । दिक् । बृह॒स्पति॑: । अधि॑ऽपति: । श्वि॒त्र: । र॒क्षि॒ता । व॒र्षम् । इष॑व: । तेभ्य॑: । नम॑: । अधि॑पतिऽभ्य: । नम॑: । र॒क्षि॒तृऽभ्य॑: । नम॑: । इषु॑ऽभ्य: । नम॑: । ए॒भ्य॒: । अ॒स्तु॒ । य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म: । तम् । व॒: । जम्भे॑ । द॒ध्म:॥२७.६॥
सारांशः – Summary so far
सुप्तिङन्तं पदम् (१.४.१४)॥ रामः रामौ रामाः पठति खेलति। छन्दः।
दश (Ten) लकाराः - लँट्, लिँट्, लुँट्, लृँट्, लेँट्, लोँट्, लँङ्, लिँङ्, लुँङ्, लृँङ्
Present – वर्तमाने लँट् (३.२.१२३) Future – लृँट् शेषे च (३.३.१३)
स्वतन्त्रः कर्त्ता (१.४.५४) तिङ्समानाधिकरणे प्रथमा, अभिहिते प्रथमा।
कर्तुरीप्सिततमं कर्म (१.४.४९) कर्मणि द्वितीया (२.३.२) (अनभिहिते)।
साधकतमं करणम् (१.४.४२) कर्तृकरणयोस्तृतीया (२.३.१८)। कर्मणा यमभिप्रैतिः स सम्प्रदानम् (१.४.३२) चतुर्थी सम्प्रदाने (२.३.१३) ध्रुवमपायेऽपादानम् (१.४.२४) अपादाने पञ्चमी (२.३.२८) वृक्षात् पतति। षष्ठी शेषे (२.३.५०) रामस्य गृहम्। आधारोऽधिकरणम् (१.४.४५) सप्तम्यधिकरणे च (२.३.३६) कटे आस्ते। अकः सवर्णे दीर्घः (६.१.१०१) इको यण् अचि (६.१.७७) एचोऽयवायावः (६.१.७८)
सन्धिप्रकरणम्
देव इन्द्र = देवेन्द्र
नर इन्द्र = नरेन्द्र
पर उपकार = परोपकार
महा उत्सव = महोत्सव
गण ईश = गणेश
नर उत्तम = नरोत्तम
प्रश्न उत्तर = प्रश्नोत्तर
16
अद्य एव = अद्यैव
सदा एव = सदैव
दिव्य ऐश्वर्य = दिव्यैश्वर्य
महा औषध = महौषध �तव ओष्ठ = तवौष्ठ
मम एव = ममैव
दिव्य ऐश्वर्य = दिव्यैश्वर्य
विसर्गसन्धिः
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतम् च यत्। असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह॥गीता १७.२८॥
17
अः + अ = ओऽ
रामः अगच्छत् = रामोऽगच्छत्
अः + आ = अ + आ
रामः आगच्छति = राम आगच्छति
अः + इच् = अ + इच्
रामः उपविशति = राम उपविशति
अः + हश् = ओ + हश्
रामः वदति = रामो वदति
आः + अश् = आ + अश्
देवाः आगच्छति = देवा आगच्छति
विसर्गसन्धिः
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतम् च यत्। असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह॥गीता १७.२८॥
18
इच् + : + अच् = इच् + र् + अच्
इच् + : + झश् = इच् + र् + झश्
अच् + : + च् = अच् + श् + च्
अच् + : + त् = अच् + स् + त्
पाण्डवाश्चैव = पाण्डवाः च एव
दुर्योधनस्तदा = दुर्योधनः तदा
विराटश्च द्रुपदश्च = विराटः च द्रुपदः च
शब्दस्तुमुलोऽभवत् = शब्दः तुमुलः अभवत्
श्वेतैर्हयैर्युक्ते = श्वेतैः हयैः युक्ते
सेनयोरुभयोर्मध्ये = सेनयोः उभयोः मध्ये
विसर्गसन्धिः
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतम् च यत्। असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह॥गीता १७.२८॥
19
इच् + : + अश् = इच् + र् + अश्
अच् + : + ट् = अच् + ष् + ट्
अच् + : + श्/ष्/स् = अच् + श्/ष्/स् + श्/ष्/स्
सः/एषः + हल् = स/एष + हल्
श्वेतैर्हयैर्युक्ते = श्वेतैः हयैः युक्ते
गोपालः टङ्कयति = गोपालष्टङ्कयति
अलसाः स्वपन्ति = अलसास्स्वपन्ति
अलसाः शेरते = अलसाश्शेरते
पुरुषाः षट् = पुरुषाष्षट्
सः पठति = स पठति, एषः कः = एष क।
लता – आकारान्त स्त्रीलिङ्गः (Creeper)
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतम् च यत्। असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह॥गीता १७.२८॥
| एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमा | लता | लते | लताः |
द्वितीया | लताम् | लते | लताः |
तृतीया | लतया | लताभ्याम् | लताभिः |
चतुर्थी | लतायै | लताभ्याम् | लताभ्यः |
पञ्चमी | लतायाः | लताभ्याम् | लताभ्यः |
षष्ठी | लतायाः | लतयोः | लतानाम् |
सप्तमी | लतायाम् | लतयोः | लतासु |
सम्बोधनम् | हे लते | हे लते | हे लताः |
गृहकार्यम् – ०३.०२.२०२२
इमं श्लोकं स्मृतिं करोतु –
यत्र राजा स्वयं चौरः सामात्यः सपुरोहितः।
तत्राहं किं करिष्यामि यथा राजा तथा प्रजा॥
21