1 of 9

�श्रीः योगिनां केन्बरासंस्कृतवर्गः�२५.०८.२०२२�आश्वलायनगृह्यसूत्रम्॥१.१०.१२॥ॐ अयन्त इध्म आत्मा जातवेदस्तेनेध्यस्व वर्धस्व चेद्ध वर्धय चास्मान् प्रजया पशुभिर्ब्रह्मवर्चसेनान्नाद्येन समेधय स्वाहा॥ इदमग्नये जातवेदसे इदं न मम ॥आ॰ १.१०.१२॥

1

2 of 9

आश्वलायनगृह्यसूत्रम्॥१.१०.१२॥

ॐ अयन्त इध्म आत्मा जातवेदस्तेनेध्यस्व वर्धस्व चेद्ध वर्धय चास्मान् प्रजया पशुभिर्ब्रह्मवर्चसेनान्नाद्येन समेधय स्वाहा॥ इदमग्नये जातवेदसे इदं न मम ॥आ॰ १.१०.१२॥

अयं मम यजमानस्य वा जातवेदः आत्मा ते तव इध्मः इन्धनम् अस्ति तेन त्वम् इध्यस्व इन्ध् ञिइन्धीँ दीप्तौ (कर्मणि लोटलकारः म॰ एक॰) वर्धस्व वृध् वृद्धौ (कर्तरि लोटलकारः म॰ एक॰) च। हे इद्ध (इन्ध् + क्त) अस्मान् च वर्धय। अस्मान् प्रजया पशुभिः ब्रह्मवर्चसेन वर्च् दीप्तौ अन्नाद्येन अद् भक्षणे समेधय एध् वृद्धौ। स्वाहा। इदं अग्नये जातवेदसे अग्नेः कृते जातवेदस्य कृते च इदं न मम।

2

3 of 9

१८.०८.२०२२�यजुर्वेदः अध्यायः १५ मन्त्राः ५४ उद्बु॑ध्यस्वाग्ने॒ प्रति॑ जागृहि॒ त्वमि॑ष्टापू॒र्त्ते स सृ॑जेथाम॒यं च॑। अ॒स्मिन्त्स॒धस्थे॒ऽअध्युत्त॑रस्मि॒न् विश्वे॑ देवा॒ यज॑मानश्च सीदत॥१५.५४

3

4 of 9

उद् बु॑ध्यस्वाग्ने॒ प्रति॑ जागृहि॒ त्वमि॑ष्टापू॒र्त्ते स सृ॑जेथाम॒यं च॑। अ॒स्मिन्त्स॒धस्थे॒ऽअध्युत्त॑रस्मि॒न् विश्वे॑ देवा॒ यज॑मानश्च सीदत॥१५.५४

स्वर सहित पद पाठ

उत्। बु॒ध्य॒स्व॒। अ॒ग्ने॒। प्रति॑। जा॒गृ॒हि॒। त्वम्। इ॒ष्टा॒पू॒र्त्ते इती॑ष्टाऽपू॒र्त्ते। सम्। सृ॒जे॒था॒म्। अ॒यम्। च॒। अ॒स्मिन्। स॒ध॒स्थ॒ इति॑ स॒धऽस्थे॑। अधि॑। उत्त॑रस्मि॒न्नित्युत्ऽत॑रस्मिन्। विश्वे॑। दे॒वाः॒। यज॑मानः। च॒। सी॒द॒त॒॥

अन्वयः - हे अग्ने! त्वमुद्बुध्यस्व, सर्वान् प्रति जागृहि, त्वमयं चास्मिन् सधस्थे उत्तरस्मिँश्च सदेष्टापूर्त्ते संसृजेथाम्। विश्वे देवा यजमानश्चैतस्मिन्नधि सीदत॥१५.५४॥

4

5 of 9

उद् बु॑ध्यस्वाग्ने॒ प्रति॑ जागृहि॒ त्वमि॑ष्टापू॒र्त्ते स सृ॑जेथाम॒यं च॑। अ॒स्मिन्त्स॒धस्थे॒ऽअध्युत्त॑रस्मि॒न् विश्वे॑ देवा॒ यज॑मानश्च सीदत॥१५.५४

अर्थः – पुरोहितः यज्ञकर्ता वदति - हे अग्ने उत् बुध्यस्व (बुध् बुधिँर् बोधने) साक्षातः भव, उत्थानं कुरु, जानीहि, प्रति जागृहि (जागृ निद्राक्षये) यजमानं प्रति अवधानं देहि, इष्टापूर्त्ते (इषुँ इच्छायाम्, पॄ पालनपूरणयोः) तस्य इच्छाः पूर्णं करणाय। सृजेथाम् (सृजँ विसर्गे, म॰ द्वि॰ लोट्, इच्छार्थेषु लिङ्लोटौ (३.३.१५७) ) त्वम् अयम् यजमानः च सं जायेथाम् आविर्भवतम् अस्मिन् सधस्थे (स्था गतिनिवृत्तौ) सहस्थाने अधि उपरि उत्तरस्मिन् सर्वोत्कृष्टे आदित्यलोके विश्वे सर्वे देवाः यजमानः च सीदत (सद् षदॢँ विशरणगत्यवसादनेषु ) अवस्थिता भवत॥१५.५४॥

5

6 of 9

उद् बु॑ध्यस्वाग्ने॒ प्रति॑ जागृहि॒ त्वमि॑ष्टापू॒र्त्ते स सृ॑जेथाम॒यं च॑। अ॒स्मिन्त्स॒धस्थे॒ऽअध्युत्त॑रस्मि॒न् विश्वे॑ देवा॒ यज॑मानश्च सीदत॥१५.५४

पदार्थः - (उत्) उत्कृष्टरीत्या (बुध्यस्व) जानीहि (अग्ने) विद्यया सुप्रकाशिते स्त्रि पुरुष वा (प्रति) (जागृहि, जागृ निद्राक्षये) अविद्यानिद्रां त्यक्त्वा विद्यया चेत (त्वम्) स्त्री (इष्टापूर्त्ते) इष्टं सुखं विद्वत्सत्करणमीश्वराराधनं सत्सङ्गतिकरणं सत्यविद्यादिदानं च पूर्त्तं पूर्णं बलं ब्रह्मचर्य्यं विद्यालङ्करणं पूर्णं यौवनं पूर्णं साधनोपसाधनं च ते (सम्) सम्यक् (सृजेथाम्) निष्पादयेतम्। अत्र व्यत्ययेनात्मनेपदम् (अयम्) पुरुषः (च (अस्मिन्) वर्त्तमाने (सधस्थे) सहस्थाने (अधि) उपरि (उत्तरस्मिन्) आगामिनि (विश्वे) सर्वे (देवाः) विद्वांसः (यजमानः) पुरुषः (च) स्त्री (सीदत) अवस्थिता भवत॥१५.५४॥

6

7 of 9

उद् बु॑ध्यस्वाग्ने॒ प्रति॑ जागृहि॒ त्वमि॑ष्टापू॒र्त्ते स सृ॑जेथाम॒यं च॑। अ॒स्मिन्त्स॒धस्थे॒ऽअध्युत्त॑रस्मि॒न् विश्वे॑ देवा॒ यज॑मानश्च सीदत॥१५.५४

उवटः - उद्बुध्यस्व प्रतिबुद्धो भव । हे अग्ने, प्रतिजागृहि च त्वम् । ततः इष्टापूर्ते च संसृजेथाम् त्वत्प्रसादाद्यजमानेन सह । अयं च यजमानः इष्टापूर्ताभ्यां संसृष्टोभवतु । ततः संसृष्टेष्टापूर्तो व्यपगतकल्मषः सन् । अस्मिन्सधस्थे सहस्थाने देवैः । पुनरपि विशिनष्टि । अध्युत्तरस्मिन् सर्वोत्कृष्टे आदित्यलोके । विश्वेदेवा यजमानश्च सीदतु । विश्वैर्देवैर्यजमानस्य समानलोकता प्रार्थ्यते ॥१५.५४॥

7

8 of 9

उद् बु॑ध्यस्वाग्ने॒ प्रति॑ जागृहि॒ त्वमि॑ष्टापू॒र्त्ते स सृ॑जेथाम॒यं च॑। अ॒स्मिन्त्स॒धस्थे॒ऽअध्युत्त॑रस्मि॒न् विश्वे॑ देवा॒ यज॑मानश्च सीदत॥१५.५४

महिधरः - हे अग्ने, त्वमुद्बुध्यस्व उद्बुद्धो भव सावधानो भव । एनं यजमानं प्रतिजागृहि प्रतिदिनं यजमानं जागरूकं सावधानं कुरु । तत इष्टापूर्ते श्रौतस्मार्ते कर्मणी संसृजेथां यजमानेन सह संसृष्टे भवताम् । त्वत्प्रसादात् अयं च यजमान इष्टापूर्ताभ्यां संसृज्यताम् । पुरुषव्यत्ययः । किंच हे विश्वेदेवाः, यूयं कृतेष्टपूर्तो निष्पापो यजमानश्च सधस्थे देवैः सह स्थितियोग्ये अस्मिन्नुत्तरस्मिन् सर्वोत्कृष्टे रविलोके द्युलोके सीदत तिष्ठत अधि अधिकम् । चिरं तिष्ठतेत्यर्थः । 'द्यौर्वा उत्तरसधस्थम्' ( ८ । ६ । ३ । २३) इति श्रुतेः । विश्वैर्देवैः सालोक्यं यजमानस्य प्रार्थ्यत इति भावः ॥ १५.५४

8

9 of 9

कारकप्रकरणम्।

(१.४.३२) कर्मणा यमभिप्रैति स सम्प्रदानम् (२.३.१३) चतुर्थी सम्प्रदाने चतुर्थीविधाने तादर्थ्य उपसङ्ख्यानम्। यूपाय दारु। कुण्डलाय हिरण्यम्।

(१.४.४२) साधकतमं करणम् (२.३.१८) कर्तृकरणयोस्तृतीया

(१.४.४९) कर्तुरीप्सिततमं कर्म (२.३.२) कर्मणि द्वितीया १.४.४५) आधारोऽधिकरणम् २.३.३६) सप्तम्यधिकरणे च

����

9