॥श्री:॥�केन्बरासंस्कृतवर्गः�११.०५.२०२२�॥महाकविभासप्रणीतं स्वप्नवासवदत्तम्॥
1
॥गृहकार्यम् ११-०५-२०२२॥
अधो लिखितः प्रत्येकं धातुः अद्यतनस्य पाठस्य केषु केषु शब्देषु अस्ति इति लिखतु।
टुनदिँ समृद्धौ, विश् प्रवेशने, डुधाञ् धारणपोषणयोः, उत् इण् गतौ, षुञ् अभिषवे, बलँ प्राणने, तॄ प्लवनतरणयोः, पूरीँ आप्यायने, कमुँ कान्तौ, भुजोँ कौटिल्ये, पा रक्षणे, ज्ञा अवबोधने, श्रु श्रवणे, सृ गतौ, डुभृञ् धारणपोषणयोः, ष्णिहँ प्रीतौ, धृषँ प्रसहने, गमॢँ गतौ, तपँ सन्तापे, जनीँ प्रादुर्भावे।
॥स्वप्नवासवदत्तम् नान्द्यन्ते इति॥
(नान्द्यन्ते ततः प्रविशति सूत्रधारः।)
सूत्रधारः – उदयनवेन्दुसवर्णावासवदत्ताबलौ बलस्य त्वाम्। पद्मावतीर्णपूर्णौ वसन्तकम्रौ भुजौ पाताम्॥१.१॥
उदय-नव-इन्दु-सवर्णौ आसव-दत्त-आबलौ बलस्य त्वाम्।
पद्मा-अवतीर्ण-पूर्णौ वसन्त-कम्रौ भुजौ पाताम्॥
मुख्यवाक्यः – बलस्य भुजौ त्वाम् पाताम्। पा रक्षणे।
कमनः, कमिता, कामनः, अनुकः, अभिकः, कम्रः, कामयिता, अभीकः, कामुकः।
॥स्वप्नवासवदत्तम् नान्द्यन्ते इति॥
वाहिताग्न्यादिषु (२.३.३७) नपुंसके भावे क्तः (३.३.११४)
यस्याः पादे प्रथमे द्वादश मात्रास्तथा तृतीयेऽपि।
अष्टादश द्वितीये चतुर्थके पञ्चदश सार्या॥(काले १३-१४ पृ॰ २५)
॥ स्वप्नवासवदत्तम् एवमार्यमिश्रान् इति ॥
एवमार्यमिश्रान् विज्ञापयामि। अये ! किं नु खलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते? अङ्ग ! पश्यामि।
(नेपथ्ये)
उत्सरतोत्सरतार्याः ! उत्सरत।
सूत्रधारः – भवतु विज्ञातम्।
भृत्यैर्मगधराजस्य स्निग्धैः कन्यानुगामिभिः।
धृष्टमुत्सार्यते सर्वस्तपोवनगतो जनः॥१.२॥
(निष्क्रान्ताः।) स्थापना।
॥ स्वप्नवासवदत्तम् एवमार्यमिश्रान् इति ॥
॥ स्वप्नवासवदत्तम् अथ प्रथमोऽङ्कः॥
(प्रविश्य) भटौ – उत्सरतोत्सरतार्याः ! उत्सरत। (ततः प्रविशति परिव्राजकवेषो यौगन्धरायण आवन्तिकावेषघारिणी वासवदत्ता च।)
यौगन्धरायणः – (कर्णं दत्वा) उत्सरतोत्सरतार्याः कथमिहाप्युत्सार्यते। कुतः –
धीरस्याश्रमसंश्रितस्य वसतस्तुष्टस्य वन्यैः फलै-
र्मानार्हस्य जनस्य वल्कलवतस्त्रासः समुत्पाद्यते।
उत्सिक्तो विनयादपेतपुरुषो भाग्यैश्चलैर्विस्मितः
कोऽयं भो ! निभृतं तपोवनमिदं ग्रामीकरोत्याज्ञया॥१.३॥
॥ स्वप्नवासवदत्तम् अथ प्रथमोऽङ्कः ॥
अर्हँ पूजायाम्। अर्हः योग्यत्वे पूजने, अर्हति विप्रो वेदं पठितुम्।
॥११-०५-२०२२॥
व्रजँ गतौ, विषॢँ व्याप्तौ, धृञ् धारणे, डुदाञ् दाने, धीङ् आधारे आदाने अनादरे च, श्रमुँ तपसि खेदे च, श्रिञ् सेवायाम्, वसँ निवासे, तुषँ प्रीतौ, वनँ सम्भक्तौ, फलँ निष्पत्तौ, मा माने, मनुँ अवबोधने, अर्हँ पूजायाम्, जनीँ प्रादुर्भावे, वलँ संवरणे सञ्चरणे च, त्रसीँ उद्वेगे, पदँ गतौ, षिचँ क्षरणे, णीञ् प्रापणे, इण् गतौ, भजँ सेवायाम् भ्वादिः, भजँ विश्राणने चुरादिः, चलँ कम्पने, ष्मिङ् ईषद्धसने, भृ डुभृञ् धारणपोषणयोः।