॥श्री:॥�केन्बरासंस्कृतवर्गः�२९.०६.२०२२�॥महाकविभासप्रणीतं स्वप्नवासवदत्तम्॥
1
॥ स्वप्नवासवदत्तम् हम् इति॥
वसवदत्ता – (आत्मगतम्) हम्। इह मां निक्षेप्तुकाम आर्य यौगन्धरायणः। भवतु, अविचार्य कर्म न करिष्यति।
काञ्चुकीयः – भवति ! महती खल्वस्य व्यपाश्रयणा। कथं प्रतिजानीमः? कुतः -
सुखमर्थो भवेद् दातुं सुखं प्राणाः सुखं तपः।
सुखमन्यद् भवेद् सर्वं दुःखं न्यासस्य रक्षणम्॥१०॥
पद्मावती – आर्य ! प्रथमुद्घोष्य कः किमिच्छन्तीत्ययुक्तमिदानीं विचारयितुम्। यदेष भणति तदनुतिष्ठत्वार्यः।
॥ स्वप्नवासवदत्तम् हम् इति॥
॥ स्वप्नवासवदत्तम् हम् इति॥
॥ स्वप्नवासवदत्तम् अनुरूपम् इति॥
काञ्चुकीयः – अनुरूपमेतद्भवत्याभिहितम्।
चेटी – चिरं जीवतु भतृदारिकैवं सत्यवादिनी।
तापसी – चिरं जीवतु भद्रे।
काञ्चुकीयः – भवति तथा। (उपगम्य) भोः ! अभुपगतमत्रभवतो भगिन्याः परिपालनमत्रभवत्या।
यौगन्धरायणः – अनुगृहीतोऽस्म्यत्रभवत्या। वत्से ! उपसर्पात्रभवतीम्।
वासवदत्त – (आत्मगतम्) का गतिः ? एषा गच्छामि मन्दभागा।
॥ स्वप्नवासवदत्तम् भवतु इति॥
पद्मावती – भवतु भवतु। आर्यात्मीयेदानीं संवृत्ता।
तापसी – यदीदृश्यस्या आकृतिरियमपि राजदारिकेति तर्कयामि।
चेटी – सुष्ठु आर्या भणति। अहमप्यनुभूतसुखेति पश्यामि।
यौगन्धरायणः – (आत्मगतम्) हन्त भोः ! अर्धमवसितं भारस्य। यथा मन्त्रिभिः सह समर्थितं तथा परिणमति। ततः प्रतिष्ठिते स्वामिनि तत्र भवतीमुपनयतो मे इहात्रभवती मगधराजपुत्री विश्वासस्थानं भविष्यति। कुतः –
यदीदृशी अस्याः आकृतिः इयम् अपि राजदारिआ इति त्रकयामि।
॥ स्वप्नवासवदत्तम् पद्मावती इति॥
पद्मावती नरपतेर्महिषी भवित्री
दृष्टा विपत्तिरथ यैः प्रथमं प्रदिष्टा।
तत्प्रत्ययात् कृतमिदं न हि सिद्धवाक्या-
न्युत्क्रम्य गच्छति विधिः सुपरीक्षितानि॥११॥
(ततः प्रविशति ब्रह्मचारी।)
ब्रह्मचारी – (ऊर्ध्वमवलोक्य) स्थितो मध्याह्नः। दृढमस्मि परिश्रान्तः। अथ कस्मिन् प्रदेशे विश्रमयिष्ये? (परिक्रम्य) भवतु दृष्टम्। अभितस्तपोवनेनानेन भवितव्यम्।
॥ स्वप्नवासवदत्तम् अनुरूपम् इति॥
॥ स्वप्नवासवदत्तम् पद्मावती इति॥
॥ स्वप्नवासवदत्तम् स्थितो इति॥
॥गृहकार्यम् ०४-०५-२०२२॥
अधो लिखितः प्रत्येकं धातुः अद्यतनस्य पाठस्य केषु केषु शब्देषु अस्ति इति लिखतु।
टुनदिँ समृद्धौ, विश् प्रवेशने, डुधाञ् धारणपोषणयोः, उत् इण् गतौ, षुञ् अभिषवे, बलँ प्राणने, तॄ प्लवनतरणयोः, पूरीँ आप्यायने, कमुँ कान्तौ, भुजोँ कौटिल्ये, पा रक्षणे, ज्ञा अवबोधने, श्रु श्रवणे, सृ गतौ, डुभृञ् धारणपोषणयोः, ष्णिहँ प्रीतौ, धृषँ प्रसहने, धृष् ञिधृषाँ प्रागल्भ्ये स्वादिः, गमॢँ गतौ, तपँ सन्तापे, जनीँ प्रादुर्भावे।
॥११-०५-२०२२॥
व्रजँ गतौ, विषॢँ व्याप्तौ, धृञ् धारणे, डुदाञ् दाने, धीङ् आधारे आदाने अनादरे च, श्रमुँ तपसि खेदे च, श्रिञ् सेवायाम्, वसँ निवासे, तुषँ प्रीतौ, वनँ सम्भक्तौ, फलँ निष्पत्तौ, मा माने, मनुँ अवबोधने, अर्हँ पूजायाम्, जनीँ प्रादुर्भावे, वलँ संवरणे सञ्चरणे च, त्रसीँ उद्वेगे, पदँ गतौ, षिचँ क्षरणे, णीञ् प्रापणे, इण् गतौ, भजँ सेवायाम् भ्वादिः, भजँ विश्राणने चुरादिः, चलँ कम्पने, ष्मिङ् ईषद्धसने, भृ डुभृञ् धारणपोषणयोः।
॥१८-०५-२०२२॥
ब्रूञ् व्यक्तायां वाचि + तुमुन् + (कम् कमुँ कान्तौ) कामा = वक्तुकामा। भुजँ पालनाभ्यवहारयोः, उज्झँ उत्सर्गे, धूञ् कम्पने, भू सत्तायाम्, चिन्त् चितिँ स्मृत्याम् चुरादिः , धृञ् धारणे भ्वादिः, खिदँ दैन्ये दिवादिः, सि षिञ् बन्धने क्र्यादिः, दिव् दिवुँ क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्न-कान्तिगतिषुदिवादिः, मन् मनँ ज्ञाने दिवादिः, श्लाघृँ कत्थने भ्वादिः, जि जये भ्वादिः, क्रमुँ पादविक्षेपे भ्वादिः, वृतुँ वर्तने भ्वादिः, भजँ विश्राणने चुरादिः, दृशिँर् प्रेक्षणे भ्वादिः।
॥२५-०५-२०२२॥
॥०१-०६-२०२२॥
॥१५-०६-२०२२॥
॥२२-०६-२०२२॥
क्षिपँ प्रेरणे तुदादिः, उभयपदी, सकर्मकः, अनिट्
चरँ संशये चुरादिः, उभयपदी, सकर्मकः, सेट्
विचार्य - निष्ठायां सेटि (६.४.५२)।
ज्ञा अवबोधने क्र्यादिः, परस्मैपदी, सकर्मकः, अनिट्
अस् क्षेपणे, रक्ष् पालने, घुष् विशब्दने, इष् इच्छायाम्, भण् शब्दे, स्था गतिनिवृत्तौ।
॥२९-०६-२०२२॥
रूप रूपक्रियायाम् चुरादिः, उभयपदी, सकर्मकः, सेट्
मन्द् मदिँ स्तुतिमोदमदस्वप्नकान्तिगतिषु भ्वादिः, आत्मनेपदी, सकर्मकः, सेट्
तर्कँ भाषायाम् चुरादिः, उभयपदी, सकर्मकः, सेट्
भण् शब्दे सो अन्तकर्मणि मन्त्र् गुप्तपरिभाषणे श्वस् प्राणने दिश् अतिसर्जने सिध् संराद्धौ श्रमुँ तपसि खेदे च