॥ श्री: श्रियौ श्रिय: ॥
नदीसंज्ञका:
Neelesh Bodas | neelesh.bodas@gmail.com|27 Feb 2016
अष्टाध्याय्यां प्रथमाध्यायस्य चतुर्थपादे 1|4|3 इत्यत: 1|4|6 इति यावत् चत्वारि सूत्राणि नदीसंज्ञां विदधति । एतेषां अर्थान् प्रयोगांश्च लेखेऽस्मिन् विस्तारेण पश्याम: ।
7|3|107 अम्बार्थनद्योर्ह्रस्व:
केषाञ्चन नदीसंज्ञकविशेषशब्दानां सुबन्तरूपसिद्धय:
ईकारान्तस्त्रीलिङ्ग: श्रीशब्द:
ईकारान्तस्त्रीलिङ्ग: स्त्रीशब्द:
ऊकारान्तस्त्रीलिङ्ग: भ्रूशब्द:
पदच्छेद: - यू {लुप्तविभक्तिक:} स्त्र्याख्यौ {1.2} नदी {1.1}
अधिकार: - आकडारादेका संज्ञा
सूत्रार्थ: - दीर्घईकारान्ता: दीर्घ-ऊकारान्ताश्च नित्यस्त्रीलिङ्गवाचिन: शब्दा: नदीसंज्ञका: स्यु: ।
ज्ञातव्यम् -
पदच्छेद: - न इयङ्-उवङ्-स्थानौ अस्त्री
अनुवृत्ति: - यू नदी
अधिकार: - आकडारादेका संज्ञा
अनुवृत्तिसहितं सूत्रम् - इयङ्-उवङ्स्थानौ {1.2} यू {लुप्तविभक्तिक:} अस्त्री {1.1 } न नदी {1.1}
सूत्रार्थ: - इयङ्-उवङ्स्थानिन: ईकारान्ता: ऊकारान्ता: शब्दा: नदीसंज्ञका: न स्यु: , स्त्रीशब्दं वर्जयित्वा ।
ज्ञातव्यम् -
पदच्छेद: - वा आमि
अनुवृत्ति: - यू स्त्र्याख्यौ नदी इयङुवङस्थानौ अस्त्री
अधिकार: - आकडारादेका संज्ञा
अनुवृत्तिसहितं सूत्रम् - इयङ्-उवङ्स्थानौ {1.2} यू {लुप्तविभक्तिक:} स्त्र्याख्यौ {1.2} अस्त्री {1.1} आमि {7.1} वा नदी {1.1}
सूत्रार्थ: - स्त्रीशब्दं वर्जयित्वा अन्ये इयङ्-उवङ्स्थानिन: दीर्घ-ईकारान्ता: दीर्घ-ऊकारान्ता: च नित्यस्त्रीलिङ्गशब्दा: आम्-प्रत्यये परे विकल्पेन नदीसंज्ञका: स्यु: ।
ज्ञातव्यम् -
पदच्छेद: - ङिति ह्रस्व: च
अनुवृत्ति: - यू स्त्र्याख्यौ नदी इयङुवङस्थानौ अस्त्री वा
अधिकार: - आकडारादेका संज्ञा
अनुवृत्तिसहितं सूत्रम् - इयङ्-उवङ्स्थानौ यू स्त्र्याख्यौ अस्त्री ङिति वा नदी । ह्रस्व: यू स्त्र्याख्यौ ङिति वा नदी ।
सूत्रार्थ: - स्त्रीशब्दं वर्जयित्वा अन्ये इयङ्-उवङ्स्थानिन: दीर्घ-ईकारान्ता: दीर्घ-ऊकारान्ता: च नित्यस्त्रीलिङ्गशब्दा: ङित्-प्रत्यये परे विकल्पेन नदीसंज्ञका: स्यु: । ह्रस्व-इकारान्त-उकारान्तनित्यस्त्रीलिङ्गशब्दा: ङित्-प्रत्यये परे विकल्पेन नदीसंज्ञका: स्यु: ।
ज्ञातव्यम् -
नदीसंज्ञा - संक्षेप: | ||
शब्दस्वरुप: | नदीसंज्ञाया: अवकाश: | उदाहरणम् |
दीर्घ-ईकारान्ता: दीर्घ-ऊकारान्ताश्च नित्यस्त्रीलिङ्गशब्दा: येषां इयङ्-उवङ्-आदेश: न भवति | नदीसंज्ञा नित्यं भवति । | गौरी, नदी, कुमारी |
स्त्रीशब्दं वर्जयित्वा अन्ये दीर्घ-ईकारान्ता: दीर्घ-ऊकारान्ताश्च नित्यस्त्रीलिङ्गशब्दा: , येषां इयङ्-उवङ्-आदेश: भवति | आम्-प्रत्यये परे ङित्-प्रत्यये च परे विकल्पेन नदीसंज्ञा भवति । अन्येषु प्रत्ययेषु परेषु न भवति । | श्री, धी |
स्त्रीशब्द: | नदीसंज्ञा नित्यं भवति । | स्त्री |
ह्रस्व-इकारान्ता: ह्रस्व-उकारान्ताश्च नित्यस्त्रीलिङ्गशब्दा: | ङित्-प्रत्यये परे विकल्पेन नदीसंज्ञा भवति । अन्येषु प्रत्ययेषु परेषु न भवति । | मति, धेनु |
सुबन्तप्रक्रियायां नदीसंज्ञाया: चतुर्षु सूत्रेषु प्रयोजनं दृश्यते । एतानि सूत्राणि विस्तारेण पश्याम: ।
अनुवृत्ति: - ङिति[2] {7.1}
अधिकार: - अङ्गस्य {6.1} [अङ्गात् {5.1} इति विपरिणम्यते]
अनुवृत्तिसहितं सूत्रम् - नद्या: {5.1} अङ्गात् {5.1} ङिति {7.1} आट् {1.1}
सूत्रार्थ: - नदीसंज्ञकात् परस्य ङित्-प्रत्ययस्य आट् आगम: भवति ।
उदाहरणम् -
गौरी + ङे इति स्थिते -
→ गौरी + आट् + ङे [आण्नद्या: इत्यनेन आट्-आगम:]
→ गौरी + ऐ [आटश्च इत्यनेन वृद्धि-एकादेश:]
→ गौर्यै [वृद्धिरेचि]
अनुवृत्ति: - आमि[3] {7.1}
अधिकार: - अङ्गस्य {6.1} [अङ्गात् {5.1} इति विपरिणम्यते]
अनुवृत्तिसहितं सूत्रम् - ह्रस्वनद्याप: {5.1} अङ्गात् {5.1} आमि {7.1} नुट् {1.1}
सूत्रार्थ: - ह्रस्वन्तात्, नदीसंज्ञकशब्दात्, तथा च आबन्तात् परस्य आम्-प्रत्ययस्य नुट् आगम: भवति ।
उदाहरणम् -
गौरी + आम् इति स्थिते -
→ गौरी + नुट् + आम् [ह्रस्वनद्यापो नुट् इति नुडागम:]
→ गौरी + नाम् [नामि इति अङ्गस्य दीर्घ:]
→ गौरीणाम् [णत्वम्]
अधिकार: - अङ्गस्य {6.1} [अङ्गात् {5.1} इति विपरिणम्यते]
अनुवृत्तिसहितं सूत्रम् - नद्याम्नीभ्य: {5.3} अङ्गात् {5.1} ङे: {7.1} आम् {1.1}
सूत्रार्थ: - नदीसंज्ञकात् परस्य, आबन्तात् परस्य, तथा च "नी" यस्य अन्ते अस्ति एतादृशात् ईकारान्तशब्दात् परस्य सप्तम्यैकवचनस्य ङि-प्रत्ययस्य "आम्" आदेश: भवति ।
उदाहरणम् -
गौरी + ङि इति स्थिते -
→ गौरी + आम् [ङि-प्रत्ययस्य आम्-आदेश: । स्थानिवद्भावात् आम् प्रत्ययस्य ङित्वम्, विभक्तित्वम् च ।]
→ गौरी + आट् + आम् [ह्रस्वनद्यापो नुट् इत्यनेन नुडागमे प्राप्ते , विप्रतिषेधेन आण्नद्या: इति ङित्-प्रत्यये परे आडागम: ]
→ गौर्याम् [इत्संज्ञालोप:, आटश्च इति वृद्ध्यैकादेश:, यणादेश:]
अनुवृत्ति: - सम्बुद्धौ[4]
अधिकार: - अङ्गस्य {6.1}
अनुवृत्तिसहितं सूत्रम् - अम्बार्थनद्यो: {6.2} अङ्गस्य ह्रस्व: {1.1} सम्बुद्धौ
सूत्रार्थ: - अम्बा-इत्यस्मिन् अर्थे ये शब्दा: सन्ति तेषां , नदीसंज्ञकशब्दानां च सम्बुद्धिप्रत्यये परे अङ्गस्य ह्रस्व: स्यात् ।
उदाहरणम् -
नदी + सुँ [सम्बोधनैकवचनस्य प्रत्यय:] इति स्थिते -
→ नदि सुँ [अम्बार्थनद्योर्ह्रस्व: इति अङ्गस्य ह्रस्वादेश:]
→ नदि [एङ्ह्रस्वात् सम्बुद्धे: इति ह्रस्वान्तात् परस्य सम्बुद्धे: सुँ-प्रत्ययस्य लोप:]
"श्री" शब्द: धातुज: अस्ति, अत: अचि श्नुधातुभ्रुवाम् य्वो: इयङुवङौ 6|4|77 इत्यनेन अजादिप्रत्यये परे अस्य इयङ्-आदेश: भवति । अनेन कारणेन अयं शब्द: "इयङस्थानी" अस्तीत्युच्यते । अत: सामान्यत: तस्य नदीसंज्ञा न भवति । परन्तु आम्-प्रत्यये परे ङित्-प्रत्यये च परे तस्य विकल्पेन नदीसंज्ञा भवति । एतत् मनसि निधाय श्री-शब्दस्य सर्वाणि रूपाणि पश्याम: -
प्रत्यय: | प्रक्रिया | रूपम् |
श्री + सुँ | “श्री” अयं शब्द: ङ्यन्त: नास्ति, अत: हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6|1|68 इत्यनेन सुँ-प्रत्ययस्य लोप: न भवति । अत: रुत्वे विसर्गे च कृते श्री: इति रूपं सिद्ध्यति । | श्री: |
श्री + औ / श्री + औट् | अचि श्नुधातुभ्रुवाम् य्वो: इयङुवङौ 6|4|77 इत्यनेन श्री-शब्दस्य इयङ् आदेश: । श्रिय् + औ → श्रियौ । | श्रियौ |
श्री + जस् / श्री + शस् | अचि श्नुधातुभ्रुवाम् य्वो: इयङुवङौ 6|4|77 इत्यनेन श्री-शब्दस्य इयङ् आदेश: । श्रिय् + अस् → श्रिय: । | श्रिय: |
श्री + अम् | अचि श्नुधातुभ्रुवाम् य्वो: इयङुवङौ 6|4|77 इत्यनेन श्री-शब्दस्य इयङ् आदेश: । श्रिय् + अम् → श्रियम् । | श्रियम् |
श्री + टा | अचि श्नुधातुभ्रुवाम् य्वो: इयङुवङौ 6|4|77 इत्यनेन श्री-शब्दस्य इयङ् आदेश: । श्रिय् + आ → श्रिया । | श्रिया |
श्री + भ्याम् | - | श्रीभ्याम् |
श्री + भिस् | रुत्वं विसर्गनिर्माणं च । | श्रीभि: |
श्री + ङे | ङिति ह्रस्वश्च 1|4|6 इत्यनेन इयङ्स्थानीशब्दस्य ङित्-प्रत्यये परे विकल्पेन नदीसंज्ञा भवति । नदीसंज्ञायां प्राप्तायाम् "श्री + ङे" इत्यत्र प्रथमं प्राप्तम् इयङ्-आदेशं परत्वात् बाधित्वा आण्नद्या: 7|3|112 इत्यनेन आडागमे कृते, आटश्च 6|1|90 इति वृद्धी-एकादेशे कृते "श्री + ऐ" अस्यामवस्थायाम् अचि श्नुधातुभ्रुवाम् य्वो: इयङुवङौ 6|4|77 इत्यनेन इयङ्-आदेशं कृत्वा श्रियै इति रूपं सिद्ध्यति । नदीसंज्ञाया: अभावे केवलं इयङ् आदेशं कृत्वा श्रिये इति रुपं जायते । | श्रियै, श्रिये |
श्री + भ्यस् | रुत्वं विसर्गनिर्माणं च । | श्रीभ्य: |
श्री + ङसि / श्री +ङस् | ङिति ह्रस्वश्च 1|4|6 इत्यनेन इयङ्स्थानीशब्दस्य ङित्-प्रत्यये परे विकल्पेन नदीसंज्ञा भवति । नदीसंज्ञायां प्राप्तायाम् "श्री + ङसि/ङस्" इत्यत्र प्रथमं प्राप्तम् इयङ्-आदेशं परत्वात् बाधित्वा आण्नद्या: 7|3|112 इत्यनेन आडागमे कृते, आटश्च 6|1|90 इति वृद्धी-एकादेशे कृते "श्री + आस्" अस्यामवस्थायाम् अचि श्नुधातुभ्रुवाम् य्वो: इयङुवङौ 6|4|77 इत्यनेन इयङ्-आदेशं कृत्वा रुत्वे विसर्गनिर्माणे कृते श्रिया: इति रूपं सिद्ध्यति । नदीसंज्ञाया: अभावे केवलं इयङ् आदेशं कृत्वा रुत्वे विसर्गनिर्माणे कृते श्रिय: इति रुपं जायते। | श्रिया:, श्रिय: |
श्री + ओस् | अचि श्नुधातुभ्रुवाम् य्वो: इयङुवङौ 6|4|77 इत्यनेन श्री-शब्दस्य इयङ् आदेश: । रुत्वे विसर्गनिर्माणे च - श्रिय् + ओस् → श्रियो: । | श्रियो: |
श्री + आम् | वाऽऽमि 1|4|5 इत्यनेन इयङ्स्थानीशब्दस्य आम्-प्रत्यये परे विकल्पेन नदीसंज्ञा भवति । नदीसंज्ञायां प्राप्तायाम् "श्री + आम्" इत्यत्र प्रथमं प्राप्तम् इयङ्-आदेशं परत्वात् बाधित्वा ह्रस्वनद्यापो नुट् 7|1|54 इत्यनेन आम्-प्रत्ययस्य नुडागम: भवति । तदनन्तरं "श्री + नाम्" इत्यत्र नामि 6|4|3 इत्यनेन अङ्गस्य दीर्घे कृते अट्कुप्वाङ्नुम्व्यवायेऽपि 8|4|2 इत्यनेन णत्वं कृत्वा श्रीणाम् इति रुपं सिद्ध्यति । नदीसंज्ञाया: अभावे केवलं इयङ् आदेशं कृत्वा श्रियाम् इति रुपं जायते । | श्रीणाम्, श्रियाम् |
श्री + ङि | ङिति ह्रस्वश्च 1|4|6 इत्यनेन इयङ्स्थानीशब्दस्य ङित्-प्रत्यये परे विकल्पेन नदीसंज्ञा भवति । नदीसंज्ञायां प्राप्तायाम् "श्री + ङसि/ङस्" इत्यत्र प्रथमं प्राप्तम् इयङ्-आदेशं परत्वात् बाधित्वा ङेराम्नद्याम्नीभ्य: 7|3|116 इत्यनेन ङि-प्रत्ययसस्य आम्-आदेश: भवति । तदनन्तरं ह्रस्वनद्यापो नुट् 7|1|54 इत्यनेन प्राप्तं नुडागमम् परत्वात् बाधित्वा आण्नद्या: 7|3|112 इत्यनेन आडागमे कृते, आटश्च 6|1|90 इति वृद्ध्यैकादेशे कृते "श्री + आम्" अस्यामवस्थायाम् अचि श्नुधातुभ्रुवाम् य्वो: इयङुवङौ 6|4|77 इत्यनेन इयङ्-आदेशं कृत्वा श्रियाम् इति रूपं सिद्ध्यति । नदीसंज्ञाया: अभावे केवलं इयङ् आदेशं कृत्वा श्रियि इति रुपं जायते । | श्रियाम्, श्रियि |
श्री + सुप् | आदेशप्रत्यययो: इत्यनेन सकारस्य षकार: । | श्रीषु |
सम्बोधनम् | सम्बुद्धौ श्रीशब्दस्य नदीसंज्ञा न भवति । अत: अम्बार्थनद्योर्ह्रस्व: इत्यनेन अङ्गस्य ह्रस्व: न प्राप्नोति । अत: सम्बोधनस्य रूपाणि प्रथमावदेव भवन्ति - हे श्री: , हे श्रियौ, हे श्रिय: । |
ईकारान्तस्त्रीलिङ्ग: स्त्रीशब्द: स्त्रिया: 6|4|79 इत्यनेन इयङ् आदेशं प्राप्नोति । अयमादेश: वाम्शसो: 6|4|80 इत्यनेन अम्-प्रत्यये परे शस्-प्रत्यये वा परे विकल्पेन भवति ।
अनुवृत्ति: - अचि, इयङ्[5]
अधिकार: - अङ्गस्य
सम्पूर्णं सूत्रम् - अचि {7.1} स्त्रिया: {6.1} अङ्गस्य {6.1} इयङ् {1.1}
सूत्रार्थ: - अजादिप्रत्यये परे स्त्रीशब्दस्य इयङ्-आदेश: स्यात् ।
अनुवृत्ति: - अचि इयङ् स्त्रिया:
अधिकार: - अङ्गस्य
सम्पूर्णं सूत्रम् - स्त्रिया: {6.1} अङ्गस्य {6.1} इयङ् {1.1} शम्सो: {7.2} वा
सूत्रार्थ: - अम्-प्रत्यये परे शस्-प्रत्यये वा परे स्त्रीशब्दस्य विकल्पेन इयङ्-आदेश: स्यात् ।
एतयो: सूत्रयो: अयं शब्द: इयङ्-आदेशं प्राप्नोति, अत: अयम् इयङ्-स्थानी अस्ति । नेयङुवङ्स्थानावस्त्री 1|4|4 इत्यनेन इयङ्स्थानिनि सत्यपि अस्य शब्दस्य नित्यं नदीसंज्ञा भवति । वाऽऽमि 1|4|5 अथवा ङिति ह्रस्वश्च 1|4|6 एतयो: अस्य निषेध: विकल्प: वा न भवति । अत: स्त्री शब्दस्य गौरीशब्दवदेव नित्यं नदीसंज्ञा भवति ।
एतत् सर्वम् मनसि निधाय स्त्रीशब्दस्य सर्वाणि रूपाणि पश्याम: -
प्रत्यय: | प्रक्रिया | रूपम् |
स्त्री + सुँ | “स्त्री” अयं शब्द: ङ्यन्त: अस्ति[6], अत: हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6|1|68 इत्यनेन सुँ-प्रत्ययस्य लोप: भवति । | स्त्री |
स्त्री + औ / स्त्री + औट् | स्त्रिया: 6|4|79 इत्यनेन स्त्री-शब्दस्य इयङ् आदेश: । स्त्रिय् + औ = स्त्रियौ । | स्त्रियौ |
स्त्री + जस् | स्त्रिया: 6|4|79 इत्यनेन स्त्री-शब्दस्य इयङ् आदेश: । स्त्रिय् + अस् → स्त्रिय: । | स्त्रिय: |
स्त्री + अम् | वाम्शसो: 6|4|80 इत्यनेन स्त्री-शब्दस्य विकल्पेन इयङ् आदेश: । स्त्रिय् + अम् → स्त्रियम् । इयङ्-आदेशस्य अभावे अमि पूर्व: 6|1|107 इत्यनेन पूर्वरूप-एकादेश: । | स्त्रियम्, स्त्रीम् |
स्त्री + शस् | वाम्शसो: 6|4|80 इत्यनेन स्त्री-शब्दस्य विकल्पेन इयङ् आदेश: । स्त्रिय् + अस् → स्त्रिय:। इयङ्-आदेशस्य अभावे प्रथमयो: पूर्वसवर्ण: 6|1|102 इत्यनेन पूर्वसवर्णदीर्घ:, विसर्गनिर्माणम् च । | स्त्रिय:, स्त्री: |
स्त्री + टा | स्त्रिया: 6|4|79 इत्यनेन स्त्री-शब्दस्य इयङ् आदेश: । | स्त्रिया |
स्त्री + भ्याम् | - | स्त्रीभ्याम् |
स्त्री + भिस् | रुत्वं विसर्गनिर्माणं च । | स्त्रीभि: |
स्त्री + ङे | आण्नद्या: 7|3|112 इत्यनेन आडागमे कृते, आटश्च 6|1|90 इति वृद्ध्यैकादेशे कृते "स्त्री + ऐ" अस्यामवस्थायाम् स्त्रिया: 6|4|79 इत्यनेन इयङ्-आदेशं रूपं सिद्ध्यति । | स्त्रियै |
स्त्री + भ्यस् | रुत्वं विसर्गनिर्माणं च । | श्रीभ्य: |
स्त्री + ङसि / स्त्री +ङस् | आण्नद्या: 7|3|112 इत्यनेन आडागमे कृते, आटश्च 6|1|90 इति वृद्ध्यैकादेशे कृते "स्त्री+ आस्" अस्यामवस्थायाम् स्त्रिया: 6|4|79 इत्यनेन इयङ् आदेशं कृत्वा रूपं सिद्ध्यति । | स्त्रिया: |
स्त्री + ओस् | स्त्रिया: 6|4|79 इत्यनेन स्त्री-शब्दस्य इयङ् आदेश: । रुत्वे विसर्गनिर्माणे च - स्त्रिय् + ओस् → स्त्रियो: । | स्त्रियो: |
स्त्री + आम् | ह्रस्वनद्यापो नुट् 7।1|54 इत्यनेन आम्-प्रत्ययस्यनुडागमे कृते तदनन्तरं इत्यत्र नामि 6|4|3 इत्यनेन अङ्गस्य दीर्घे कृते अट्कुप्वाङ्नुम्व्यवायेऽपि 8|4|2 इत्यनेन णत्वं कृत्वा स्त्रीणाम् इति रुपं सिद्ध्यति । | स्त्रीणाम् |
स्त्री + ङि | ङेराम्नद्याम्नीभ्य: 7|3|116 इत्यनेन ङि-प्रत्ययसस्य आम्-आदेश: भवति । तदनन्तरं ह्रस्वनद्यापो नुट् 7|1|54 इत्यनेन प्राप्तं नुडागमम् परत्वात् बाधित्वा आण्नद्या: 7|3|112 इत्यनेन आडागमे कृते, आटश्च 6|1|90 इति वृद्ध्यैकादेशे कृते "स्त्री + आम्" अस्यामवस्थायाम् स्त्रिया: 6|4|79 इत्यनेन इत्यनेन इयङ् आदेशं कृत्वा स्त्रियाम् इति रूपं सिद्ध्यति । | स्त्रियाम् |
स्त्री + सुप् | आदेशप्रत्यययो: इत्यनेन सकारस्य षकार: । | स्त्रीषु |
सम्बोधनम् | सम्बुद्धिवाचके सुँ-प्रत्यये परे अम्बार्थनद्योर्ह्रस्व: 7|3|107 इत्यनेन अङ्गस्य ह्रस्वे कृते एङ्ह्रस्वात्सम्बुद्धे: 6|1|69 इत्यनेन सुँ-प्रत्यस्य लोप: । द्विवचनबहुवचनयो: रुपाणि प्रथमावदेव भवत: । हे स्त्रि ! हे स्त्रियौ ! हे स्त्रिय: ! |
भ्रू-शब्दस्य अचि श्नुधातुभ्रुवाम् य्वो: इयङुवङौ 6|4|77 इत्यनेन उवङ्-आदेश: भवति । अत: अयं शब्द: उवङ्स्थानी अस्ति । ङित्-प्रत्यये परे आम्-प्रत्यये च परे अस्य विकल्पेन नदीसंज्ञा भवति । अस्य रूपाणि “श्री”शब्दवदेव भवन्ति । संक्षेपेण प्रक्रिया अध: दत्ता अस्ति ।
प्रत्यय: | प्रक्रिया | रूपम् |
भ्रू: | ||
भ्रू + औ / भ्रू + औट् | अचि श्नुधातुभ्रुवाम् य्वो: इयङुवङौ 6|4|77 इत्यनेन भ्रू-शब्दस्य उवङ् आदेश:। | भ्रुवौ |
भ्रू + जस् / भ्रू + शस् | भ्रुव: | |
भ्रू + अम् | भ्रुवम् | |
भ्रू + टा | भ्रुवा | |
भ्रू + भ्याम् | - | भ्रूभ्याम् |
भ्रू + सुँ | रुत्वं विसर्गनिर्माणं च । | भ्रू: |
भ्रू + भिस् | भ्रूभि: | |
भ्रू + भ्यस् | भ्रूभ्य: | |
भ्रू+ ङे | ङिति ह्रस्वश्च 1|4|6 इत्यनेन विकल्पेन नदीसंज्ञा । नदीसंज्ञायां प्राप्तायाम् आण्नद्या: 7|3|112 इत्यनेन आडागमे कृते, आटश्च 6|1|90 इति वृद्ध्यैकादेशे कृते अचि श्नुधातुभ्रुवाम् य्वो: इयङुवङौ 6|4|77 इत्यनेन उवङ्-आदेश: । नदीसंज्ञाया: अभावे केवलं उवङ् आदेश: । | भ्रुवे, भ्रुवै |
भ्रू + ङसि / भ्रू +ङस् | भ्रुवा: भ्रुव: | |
भ्रू + ओस् | अचि श्नुधातुभ्रुवाम् य्वो: इयङुवङौ 6|4|77 इत्यनेन इयङ् आदेश: । रुत्वं विसर्गनिर्माणं च । | भ्रुवो: |
भ्रू + आम् | वाऽऽमि 1|4|5 इत्यनेन विकल्पेन नदीसंज्ञा । नदीसंज्ञायां प्राप्तायाम् ह्रस्वनद्यापो नुट् 7।1|54 इत्यनेन नुडागम: , नामि 6|4|3 इत्यनेन अङ्गस्य दीर्घ: , अट्कुप्वाङ्नुम्व्यवायेऽपि 8|4|2 इत्यनेन णत्वम् । नदीसंज्ञाया: अभावे केवलं उवङ्-आदेश: । | भ्रूणाम्, भ्रुवाम् |
भ्रू + ङि | ङिति ह्रस्वश्च 1|4|6 इत्यनेन विकल्पेन नदीसंज्ञा । नदीसंज्ञायां प्राप्तायाम् ङेराम्नद्याम्नीभ्य: 7|3|116 इत्यनेन आम्-आदेशे कृते, आण्नद्या: 7|3|112 इत्यनेन आडागमे कृते, आटश्च 6|1|90 इति वृद्ध्यैकादेशे कृते अचि श्नुधातुभ्रुवाम् य्वो: इयङुवङौ 6|4|77 इत्यनेन उवङ्-आदेश: | रुत्वं विसर्गनिर्माणं च । नदीसंज्ञाया: अभावे केवलं उवङ् आदेश: । | भ्रुवाम्, भ्रुवि |
भ्रू + सुप् | आदेशप्रत्यययो: इत्यनेन सकारस्य षकार: । | भ्रूषु |
सम्बोधनम् | सम्बुद्धौ भ्रूशब्दस्य नदीसंज्ञा न भवति । अत: सम्बोधनस्य रूपाणि प्रथमावदेव भवन्ति - हे भ्रू: , हे भ्रुवौ, हे भ्रुव: । |
[2] घेर्ङिति 7|3|111
[3] आमि सर्वनाम्न: सुट् 7|1|52
[4] सम्बुद्धौ च 7।3।106
[5] अचि श्नुधातुभ्रुवाम् य्वो: इयङुवङौ 6|4|77
[6] स्त्र + ङीप् = स्त्री