प्रथमः सर्गः

सामोददामोदरः

मेघैर्मेदुरमम्बरं वनभुवः श्यामास्तमालद्रुमैर्

नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय ।

इत्थं नन्दनिदेशतश्चलितयोः प्रत्यध्वकुञ्जद्रुमं

राधामाधवयोर्जयन्ति यमुनाकूले रहःकेलयः  ॥ १.१ ॥

वाग्देवताचरितचित्रितचित्तसद्मा

पद्मावतीचरणचारणचक्रवर्ती ।

श्रीवासुदेवरतिकेलिकथासमेतं

एतं करोति जयदेवकविः प्रबन्धं  ॥ १.२ ॥

यदि हरिस्मरणे सरसं मनो

यदि विलासकलासु कुतूहलम् ।

मधुरकोमलकान्तपदावलीं

शृणु तदा जयदेवसरस्वतीम्  ॥ १.३ ॥

वचः पल्लवयत्युमापतिधरः सन्दर्भशुद्धिं गिरां

जानीतेजयदेव एव शरणः श्लाघ्यो दुरूहद्रुतेः ।

शृङ्गारोत्तरसत्प्रमेयरचनैराचार्यगोवर्धन

स्पर्धी कोऽपि न विश्रुतः स्रुतिधरो धोयी कविक्ष्मापतिः  ॥ १.४ ॥

***** प्रबन्धः १  *****

मालवगौडरागेण रूपकतलेन गियते । अष्टापदी ।

प्रलयपयोधिजले धृतवानसि वेदं

विहितवहित्रचरित्रमखेदम् ।

केशव धृतमीनशरीर

जय जगदीश हरे [ध्रुवपदम्]  ॥ १.५ ॥

क्षितिरतिविपुलतरे तव तिष्ठति पृष्ठे

धरणीधरणकिनचक्रगरिष्ठे ।

केशव धृतकच्चपरूप

जय जगदीश हरे  ॥ १.६ ॥

वसति दशनशिखरे धरणी तव लग्ना

शशिनि कलङ्ककलेव निमग्ना ।

केशव धृतसूकररूप

जय जगदीश हरे  ॥ १.७ ॥

तव करकमलवरे नखमद्भुतशृङ्गं

दलितहिरण्यकशिपुतनुभृङ्गम् ।

केशव धृतनरहरिरूप

जय जगदीश हरे  ॥ १.८ ॥

छलयसि विक्रमणे बलिमद्भुतवामन

पदनखनीरजनितजनपावन ।

केशव धृतवामनरुप

जय जगदीश हरे  ॥ १.९ ॥

क्षत्रीयरुधिरमये जगदपगतपापं

स्नपयसि पयसि शमितभवतापम् ।

केशव धृतभृगुपतिरूप

जय जगदीश हरे  ॥ १.१० ॥

वितरसि दिक्षु रणे दिक्पतिकमनीयं

दशमुखमौलिबलि रमणीयम् ।

केशव धृतरामशरीर

जय जगदीश हरे  ॥ १.११ ॥

वहसि वपुषि विषदे वसनं जलदाभं

हलहतिभीतिमिलितयमुनाभम् ।

केशव धृतहलधररूप

जय जगदीश हरे  ॥ १.१२ ॥

निन्दसि यज्ञविधेरहह श्रुतिजातम्

सदयहृदय दर्शितपशुघातम् ।

केशव धृतबुद्धशरीर

जय जगदीश हरे  ॥ १.१३ ॥

म्लेच्छनिवहनिधने कलयसि करवालं

धूमकेतुमिव किमपि करालम् ।

केशव धृतकल्किशरीर

जय जगदीश हरे  ॥ १.१४ ॥

श्रिजयदेवकवेरिदमुदितमुदारं

शृणु सुखदं शुभदं भवसारम् ।

केशव धृतदशविधरूप

जय जगदीश हरे  ॥ १.१५ ॥

* * * * *

वेदानुद्धरते जगन्ति वहते भूगोलमुद्बिभ्रते

दैत्यं दारयते बलिं छलयते क्षत्रक्षयं कुर्वते ।

पौलस्त्यं जयते हलं कलयते कारुण्यमातन्वते

म्लेच्छान्मूर्च्छयते दशाकृतिकृते कृष्णाय तुभ्यं नमः  ॥ १.१६ ॥

***** प्रबन्धः २  *****

गुर्जरीरागनिःसारता१आभ्यां गीयते ।

श्रितकमलाकुचमण्डल धृतकुण्डल ए

कलितललितवनमाल

जय जय देव हरे  ॥ १.१७ ॥

[ध्रुवपदम्]

दिनमणिमण्डलमण्डन

भवखण्डन ए

मुनिजनमानसहंस ज्

अय जय देव हरे  ॥ १.१८ ॥

कालियविषधरगञ्जन

जनरञ्जन ए

यदुकुलनलिनदिनेश

जय जय देव हरे  ॥ १.१९ ॥

मधुमुरनरकविनाशन

गरुडासन ए ।

सुरकुलकेलिनिदान

जय जय देव हरे  ॥ १.२० ॥

अमलकमलदललोचन

भवमोचन ए

त्रिभुवनभुवननिधान

जय जय देव हरे  ॥ १.२१ ॥

जनकसुताकृतभूषण

जितदूषण ए

समरशमितदशकण्ठ

जय जय देव हरे  ॥ १.२२ ॥

अभिनवजलधरसुन्दर

धृतमन्दर ए

श्रीमुखचन्द्रचकोर

जय जय देव हरे  ॥ १.२३ ॥

तव चरणं प्रणता वयम्

इति भावय ए

कुरु कुशलं प्रणतेषु

जय जय देव हरे  ॥ १.२४ ॥

श्रीजयदेवकवेरिदं

कुरुते मुदमे

मङ्गलमुज्ज्वलगीतं

जय जय देव हरे  ॥ १.२५ ॥

* * * * *

पद्मापयोधरतटीपरिरम्भलग्न

कश्मीरमुद्रितमुरो मधुसूदनस्य ।

व्यक्तानुरागमिव खेलदनङ्गखेद

स्वेदाम्बुपूरमनुपूरयतु प्रियं वः  ॥ १.२६ ॥

वसन्ते वसन्तीकुसुमसुकुमारैरवयवैर्

भ्रमन्तीं कान्तारे बहुविहितकृष्णानुसरणाम् ।

अमन्दं कन्दर्पज्वरजनितचिन्ताकुलतया

वलद्बाढं राधां सरसमिदमूचे सहचरी  ॥ १.२७ ॥

***** प्रबन्धः ३  *****

वसन्तरागयतितालाभ्यां गीयते ।

ललितलवङ्गलतापरिशीलनकोमलमलयसमीरे ।

मधुकरनिकरकरम्बितकोकिलकूजितकुञ्जकुटीरे  ॥ १.२८ ॥

विहरति हरिरिह सरसवसन्ते

नृत्यति युवतीजनेन समं सखि विरहिजनस्य दुरन्ते  ** ध्रुवपदम् **

उन्मदमदनमनोरथपथिकवधूजनजनितविलापे ।

अलिकुलसङ्कुलकुसुमसमूहनिराकुलबकुलकलापे  ॥ १.२९ ॥

मृगमदसौरभरभसवशंवदनवदलमालतमाले ।

युवजनहृदयविदारण मनसिजनखरुचिकिंशुकजाले  ॥ १.३० ॥

मदनमहीपतिकनकदण्डरुचिकेशरकुसुमविकाशे ।

मिलितशिलिमुखपाटलपटलकृतस्मरतूणविलासे  ॥ १.३१ ॥

विगलितलज्जितजगदवलोकनतरुणकरुणकृतहासे ।

विरहिनिकृन्तनकुन्तमुखाकृतिकेतकदन्तुरिताशे  ॥ १.३२ ॥

माधविकपरिमलललिते नवमालतिजातिसुगन्धौ ।

मुनिमनसामपि मोहनकारीणि तरुणकरणबन्धौ  ॥ १.३३ ॥

स्फुरदतिमुक्तलतापरिरम्भनमुकु१ तपुलकितचूते ।

वृन्दावनवीपिने परीसरपरिगतयमुनाजलपूते  ॥ १.३४ ॥

श्रीजयदेवभणितमिदमुदयति हरिचरणस्मृतिसारम् ।

सरसवसन्तसमयवनवर्णनमनुगतमदनविकारम्  ॥ १.३५ ॥

* * * * *

दरविदलितमल्लीवल्लिचञ्चत्पराग

प्रकटितपटवासैर्वासयन् काननानि ।

इह हि दहति चेतः केतकीगन्धबन्धुः

प्रसरदसमबाणप्राणवद्गन्धवाहः  ॥ १.३६ ॥

उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुर

क्रीडत्कोकिलकाकलीकलकलैरुद्गीर्णकर्णज्वरः ।

नीयन्ते पथिकैः कथं कथमपि ध्यानावधानक्षण

प्राप्तप्राणसमागमरसोल्लासैरमी वासराः  ॥ १.३७ ॥

अनेकनारीपरिरम्भसम्भ्रम

स्फुरण्मनोहारिविलासलालसम् ।

मुरारिमारादुपदर्शयन्त्यसौ

सखी समक्षं पुनराह राधिकाम्  ॥ १.३८ ॥

***** प्रबन्धः ४  *****

रामकरीरागयतितालाभ्यां गीयते ।

चन्दनचर्चितनीलकलेवरपीतवसनवनमाली ।

केलिचलन्मणिकुण्डलमण्डितगण्डयुगस्मितशाली  ॥ १.३९ ॥

हरिरिह मुग्धवधूनिकरे विलासिनि विलासति केलीपरे  ** ध्रुवपदम् **

पीनपयोधरभारभरेण हरिं परिरभ्य सरागम् ।

गोपवधूरनुगायति काचिदुदञ्चितपरमरागम्  ॥ १.४० ॥

कापि विलासविलोलविलोचनखेलनजनितमनोजम् ।

ध्यायति मुग्धवधूरधिकं मधुसूदनवदनसरोजम्  ॥ १.४१ ॥

कपि कपोलतले मिलिता लपितुं किमपि श्रुतिमूले ।

चारु चुचुम्ब नितम्बवती दयितं पुलकैरनुकूले  ॥ १.४२ ॥

केलिकलाकुतुकेन च काचिदमुं यमुनाजलकूले ।

मञ्जुलवञ्जुलकुञ्जगतं विचकर्ष करेण दुकूले  ॥ १.४३ ॥

करतलतालतरलवलयावलिकलितकलस्वनवंशे ।

रासरसे सहनृत्यपरा हरिणयुवतीप्रशशंसे  ॥ १.४४ ॥

श्लिष्यति कामपि चुम्बति कामपि कामपि रमयति रामाम् ।

पश्यति सस्मितचारुतरामपरामनुगच्छति वामाम्  ॥ १.४५ ॥

श्रीजयदेवभणितमिदमद्भुतकेशवकेलिरहस्यम् ।

वृन्दावनविपिने ललितं वितनोतु शुभानि यशस्यम्  ॥ १.४६ ॥

* * * * *

विश्वेषामनुरञ्जनेन जनयन्नानन्दमिन्दीवर

श्रेणीश्यामलकोमलैरुपनयन्नङ्गैरनङ्गोत्सवम् ।

स्वच्छन्दं व्रजसुन्दरीभिरभितः प्रत्यङ्गमालिङ्गितः

शृङ्गारः सखि मूर्तिमानिव मधौ मुग्धो हरिः क्रीडति  ॥ १.४७ ॥

निजोत्सङ्गवसद्भुजङ्गकवलक्लेशादिवेशाचलं

प्रालेयप्लवनेच्छयानुसरति श्रीखण्डशैलानिलः ।

किं च स्निग्धरसालमौलिमुकुलान्यालोक्य हर्षोदयाद्

उन्मीलन्ति कुहूः कुहूरिति कलोत्तालाः पिकानां गिरः  ॥ १.४८ ॥

रासोल्लासभरेण विभ्रमभृतामाभीरवामभ्रुवाम्

अभ्यर्णं परिरभ्य निर्भरमुरः प्रेमान्धया राधया ।

साधु त्वद्वदनं सुधामयमिति व्याहृत्य गीतस्तुति

व्याजादुद्भटचुम्बितः स्मृतमनोहारि हरिः पातु वः  ॥ १.४९ ॥

द्वितीयः सर्गः

अक्लेशकेशवः

विहरति वने राधा साधारणप्रणये हरौ

विगलितनिजोत्कर्षादीर्ष्यावशेन गताऽन्यतः ।

क्वचिदपि लताकुञ्जे गुञ्जन्मधुव्रतमण्डली

मुखरशिखरे लीन दीनाप्युवाच रहः सखीम्  ॥ २.१ ॥

***** प्रबन्धः ५  *****

गुर्जरीरागेण यतितालेन गीयते ।

सञ्चरदधरसुधामधुरध्वनिमुखरितमोहनवंशम् ।

चलितधृगञ्चलचञ्चलमौलिकपोलविलोलवतंसम् ।

रासे हरिमिह विहितविलास्ं

स्मरति मनो मम कृतपरिहासम्  [ध्रुवपदम्]  ॥ २.२ ॥

चन्द्रकचारुमयूरशिखण्डकमण्डलवलयितकेशम् ।

प्रचुरपुरन्दरधनुरनुरञ्जितमेदुरमुदिरसुवेशम्  ॥ २.३ ॥

गोपकदम्बनितम्बवतीमुखचुम्बनलम्भितलोभम् ।

बन्धुजीवमधुराधरपल्लवमुल्लसितस्मितशोभम्  ॥ २.४ ॥

विपुलपुलकभुजपल्लववलयितबल्लवयुवतिसहस्रम् ।

करचरणोरसि मणिगणभूषणकिरणविभिन्नतमिस्रम्  ॥ २.५ ॥

जलदपटलचलदिन्दुविनिन्दकचन्दनतिलकललाटम् ।

पीनपयोधरपरिसरमर्दननिर्दयहृदयकपाटम्  ॥ २.६ ॥

मणिमयमकरमनोहरकुण्डलमण्डितगण्डमुदारम् ।

पीतवसनमनुगतमुनिमनुजसुरासुरवरपरिवारम्  ॥ २.७ ॥

विशदकदम्बतले मिलितं कलिकलुषभयं शमयन्तम् ।

मामपि किमपि तरलतरङ्गदनङ्गदृशा मनसा रमयन्तम्  ॥ २.८ ॥

श्रीजयदेवभणितमतिसुन्दरमोहनमधुरिपुरूपम् ।

हरिचरणस्मरणं प्रति सम्प्रति पुण्यवतामनुरूपम्  ॥ २.९ ॥

* * * * *

गणयति गुणग्रामं भ्रामं भ्रामादपि नेहते

वहति च परितोषं दोषं विमुञ्चति दूरतः ।

युवतिषु वलत्तृष्णे कृष्णे विहरति मां विना

पुनरपि मनो वामं कामं करोति करोमि किम्  ॥ २.१० ॥

***** प्रबन्धः ६  *****

मालवगौडरागेन एकतालीतालेन च गीयते ।

निभृतनिकुञ्जगृहं गतया निशि रहसि निलीय वसन्तम् ।

चकीतविलोकितसकलदिशा रतिरभसभरेण हसन्तम्  ॥ २.११ ॥

सखि हे केशीमथनमुदारम्

रमय मया सह मदनमनोरथभावितया सविकारम्  ** ध्रुवपदम् **

प्रथमसमागमलज्जितया पटुचाटुशतैरनुकूलम् ।

मृदुमधुरस्मितभाषितया शिथिलीकृतजघनदुकूलम्  ॥ २.१२ ॥

कीसलशयननिवेशितया चिरमुरसि ममैव शयानम् ।

कृतपरिरम्भणचुम्बनया परिरभ्य कृताधरपानम्  ॥ २.१३ ॥

अलसनिमीलितलोचनया पुलकावलिललितकपोलम् ।

श्रमजलसकलकलेवरया वरमदनमदादतिलोलम्  ॥ २.१४ ॥

कोकिलकलरवकूजितया जितमनसिजतन्त्रविचारम् ।

श्लथकुसुमाकुलकुन्तलया नकहलिखितघनस्तनभारम्  ॥ २.१५ ॥

चरणरणितमणिनूपुरया परिपूरितसुरतवितानम् ।

मुखरविशृङ्खलमेखलया सकचग्रहचुम्बनदानम्  ॥ २.१६ ॥

रतिसुखसमयरसालसया दरमुकुलितनयनसरोजम् ।

निःसहनिपतिततनुलतया मधुसूदनमुदितमनोजम्  ॥ २.१७ ॥

श्रिजयदेवभणितमिदमतिशयमधुरिपुनिधुवनशीलम् ।

सुखमुत्कण्ठितगोपवधूकथितं वितनोतु सलिलं  ॥ २.१८ ॥

* * * * *

हस्तस्रस्तविलासवंशमनृजुभ्रूवल्लिमद्बल्लवी

वृन्दोत्सारिदृगन्तवीक्षितमतिस्वेदार्द्रगण्डस्थलम् ।

मामुद्वीक्ष्य विलज्जितं स्मृतसुधामुग्धाननकानने

गोविन्दं व्रजसुन्दरीगणवृतं पश्यामि हृष्यामि च  ॥ २.१९ ॥

दुरालोकस्तोकस्तवकनवकशोकलतिका

विकासः कासारोपवनपवनोऽपि व्यथयति ।

अपि भ्राम्यद्भृङ्गीरणितरमनीया न मुकुल

प्रसूतिश्चूतानां सखि शिखरिणीयं सुखयति  ॥ २.२० ॥

सकूतस्मितमकुलाकुलगलद्धम्मिल्लमुल्लासित

भ्रूवल्लीकमलीकदर्शितभुजामूलोर्ध्वहस्तस्तनम् ।

गोपीनां निभृतं निरीक्ष्य गमिताकाङ्क्षश्चिरं चिन्तयन्न्

अन्तर्मुग्धमनोहरं हरतु वः क्लेशं नवः केशवः  ॥ २.२१ ॥

तृतीयः सर्गः

मुग्धमधुसूदनः

कंसारिरपि संसारवासनाबद्धशृङ्खलाम् ।

राधामाधाय हृदये तत्याज व्रजसुन्दरीः  ॥ ३.१ ॥

इतस्ततस्तामनुसृत्य राधिकाम्

अनङ्गबाणव्रणखिन्नमानसः ।

कृतानुतापः स कलिन्दनन्दिनी

तटान्तकुञ्जे विषसाद माधवः  ॥ ३.२ ॥

***** प्रबन्धः ७  *****

गुर्जरीरागयतितालाभ्यां गीयते ।

मामियं चलिता विलोक्य वृतं वधूनिचयेन ।

सापराधतया मयापि न वारिताऽतिभयेन  ॥ ३.३ ॥

हरि हरि हतादरतया गता सा कुपितेव  ** ध्रुवपदम् **

किं करिष्यति किं वदिष्यति सा चिरं विरहेण ।

किं धनेन जनेन किं मम जीवितेन गृहेण  ॥ ३.४ ॥

चिन्तयामि तदाननं कुटिलभ्रू कोपभरेण ।

शोनपद्ममिवोपरिभ्रमताकुलं भ्रमरेण  ॥ ३.५ ॥

तामहं हृदि सङ्गतामनीशं भृशं रमयामि ।

किं वनेऽनुसरामि तामिह किं वृथा विलपामि  ॥ ३.६ ॥

तन्वि खिन्नमसूयया हृदयं तवाकलयामि ।

तन्न वेद्मि कुतो गतासि न तेन तेऽनुनयामि  ॥ ३.७ ॥

दृश्यसे पुरतो गतागतमेव मे विदधासि ।

किं पुरेव ससम्भ्रमं परिरम्भणं न ददासि  ॥ ३.८ ॥

क्षम्यतामपरं कदापि तवेदृशं न करोमि ।

देहि सुन्दरि दर्शनं मम मन्मथेन दुनोमि  ॥ ३.९ ॥

वर्णितं जयदेवकेन हरेरिदं प्रवणेन ।

किन्दुबिल्वसमुद्रसम्भवरोहिणीरमणेन  ॥ ३.१० ॥

* * * * *

हृदि बिसलताहरो नायं भुजङ्गमनायकह्

कुवलयदलश्रेणी कण्ठे न सा गरलद्युतिः ।

मलयजरजो नेदं भस्म प्रियरहिते मयि

प्रहर न हरभ्रान्त्याऽनङ्ग क्रुधा किमु धावसि  ॥ ३.११ ॥

पाणौ मा कुरु चूतसायकममुं मा चापमारोपय

कृईडानिर्जितवीश्व मूर्च्छितजनाघातेन किं पौरुषम् ।

तस्या एव मृगीदृशो मनसिज प्रेण्खत्कताक्षाशुग

श्रेणीजर्जरितं मनागपि मनो नाद्यापि सन्धुक्षते  ॥ ३.१२ ॥

भ्रूपल्लवं धनुरपाङ्गतरण्गितानि

बाणा गुणः श्रवणपालिरिति स्मरेण ।

तस्यामनङ्गजयजङ्गमदेवतायाम्

अस्त्राअणि निर्जितजगन्ति किमर्पितानि  ॥ ३.१३ ॥

भ्रूचापे निहितः कटाक्षविशिखो निर्मातु मर्मव्यथां

श्यामात्मा कुटिलः करोतु कबरीभारोऽपि मारोद्यमम् ।

मोहं तावदयं च तन्वि तनुतां बिम्बधरो रागवान्

सद्वृत्तः स्तनमण्डलस्तव कथं प्राणैर्मम क्रीडति  ॥ ३.१४ ॥

तानि स्पर्शसुखानि ते च तरलः स्निग्धा दृशोर्विभ्रमास्

तद्वक्त्राम्बुजसौरभं स च सुधास्यन्दि गिरा वक्रिमा ।

स बिम्बाधरमाधुरीति विषयासङ्गेऽपि चेन्मानसं

तस्यां लग्नसमाधि हन्त विरहव्याधिः कथं वर्धते  ॥ ३.१५ ॥

तिर्यक्कण्ठविलोलमौलितरलोत्तंसस्य वम्शोच्चरद्

गीतस्थानकृतावधानललनालक्षैर्न सम्लक्षिताः ।

सम्मुग्धे मधुसूदनस्य मधुरे राधामुखेन्दौ सुधा

सारे कन्दलिताश्चिरं ददतु वः क्षेमं कटाक्षोर्मयः  ॥ ३.१६ ॥

चतुर्थः सर्गः

स्निग्धमधुसूदनः

यमुनातीरवानीरनिकुञ्जे मन्दमास्थितम् ।

प्राहप्रेमभरोद्भ्रान्तं माधवं राधिकासखी  ॥ ४.१ ॥

***** प्रबन्धः ८  *****

कर्णाटरागैकतालीतालाभ्यां गीयते ।

निन्दति चन्दनमिन्दुकिरणमनु विन्दति खेदमधीरम् ।

व्यालनिलयमिलनेन गरलमिव कलयति मलयसमीरम्  ॥ ४.२ ॥

माधव मनसिजविशिखभयादिव भवदवनया त्वयि लीना ।

सा विरहे तव दीना  ** ध्रुवपदम् **

अविरलनिपतितमदनशरादिव भवदवनाय वीशालम् ।

स्वहृदयमर्मणि वर्म करोति सजलनलिनीदलजालम्  ॥ ४.३ ॥

कुसुमविशिखशरतल्पमनल्पविलासकलाकमणीयम् ।

व्रतमिव तव परिरम्भसुखाय करोति कुसुमशयनीयम्  ॥ ४.४ ॥

वहति च चलितवि१ चनजलभरमाननकमतमुदारम् ।

विधुमिव विकटविधुन्तुददन्तदलनगलितामृतधारम्  ॥ ४.५ ॥

विलिखति रहसि कुरङ्गमदेन भवन्तमसमशरभूतम् ।

प्रणमति मकरमधो विनिधाय करे च शरं नवचूतम्  ॥ ४.६ ॥

ध्यानलयेन पुरः परिकल्प्य भवन्तमतीव दुरापम् ।

विलपति हसति विषीदति रोदिति चञ्चति मुञ्चति तापम्  ॥ ४.७ ॥

प्रतिपदमिदमपि निगदति माधव तव चरणे पतिताहम् ।

त्वयि विमुखे मयि सपदि सुधानिधिरपि तनुते तनुदाहम्  ॥ ४.८ ॥

श्रीजयदेवभणितमिदमधिकं यदि मनसा नटणीयम् ।

हरिविरहकुलबल्लवयुवतिसखीवचनं पठनीयम्  ॥ ४.९ ॥

* * * * *

आवासो विपिनायते प्रियसखीमलापि जालायते

तापोऽपि श्वसितेन दावदहनज्वालकलापायते ।

सापि त्वद्विरहेण हन्त हरिणीरूपायते हा कथं

कन्दर्पोऽपि यमायते विरचयन् शार्दूलविक्रीडितम्  ॥ ४.१० ॥

***** प्रबन्धः ९  *****

देशाखरागैकतालीतालाभ्यां गीयते ।

स्तनविनिःितमपि हारमुदारम् ।

स मनुते कृशातनुरिव भारम्  ॥ ४.११ ॥

राधिका तव विरहे केशव  ** ध्रुवपदम् **

सरसमसृणमपि मलयजपङ्कम् ।

पश्याति विषमिव वपुषि सशङ्कम्  ॥ ४.१२ ॥

श्वसितपवनमनुपमपरिणाहम् ।

मदनदहनमिव वहति सदाहम्  ॥ ४.१३ ॥

दिशि दिशि किरति सजलकणजालम् ।

नयननलिनमिव विगलितनालम्  ॥ ४.१४ ॥

त्यजति न पानितलेन कपोलम् ।

बालशशिनमिव सायमलोलम्  ॥ ४.१५ ॥

नयनविषयमपि किसलयतल्पम् ।

कलयति विहितहुताशविकल्पम्  ॥ ४.१६ ॥

हरिरिति हरिरिति जपति सकर्णम् ।

विरहविहितमरणेव निकामं  ॥ ४.१७ ॥

स्रिजयदेवभणितमिति गीतम् ।

सुखयतु केशवपदमुपनीतम्  ॥ ४.।१८ ॥

* * * * *

स रोमाञ्चति सीत्करोति विलपत्युत्कम्पते ताम्यति

ध्यायत्युद्भ्रमति प्रमीलति पतत्युद्यति मूर्च्छत्यपि ।

एतावत्यतनुज्वरे वरतनुर्जीवेन्न किं ते रसात्

स्वर्वैद्यप्रतिमा प्रसीदसि यदि त्यक्तोऽन्यथा हस्तकः  ॥ ४.१९ ॥

स्मरातुरं दैवतवैद्यहृद्य

त्वदङ्गसङ्गामृतमात्रसाध्यम् ।

निवृत्तबाधां कुरुषे न राधाम्

उपेन्द्र वज्रादपि दारुणोऽसि  ॥ ४.२० ॥

कन्दर्पज्वरसंज्वरातुरतनोरश्चर्यमस्याश्चिरं

चेतश्चन्दनचन्द्रमःकमलिनीचिन्तासु सन्ताम्यति ।

किन्तु क्लान्तिवशेन शीतलतनुं त्वामेकमेव प्रियं

ध्यायन्ती रहसि स्थिता कथमपि क्षीणा क्षणं प्राणिति  ॥ ४.२१ ॥

क्षणमपि विरहः पुरा न सेहे

नयननिमीलनखिन्नया यया ते ।

श्वसिति कथमसौ रसालशाखां

चिरविरहेण विलोक्य पुष्पिताग्रम्  ॥ ४.२२ ॥

वृष्टिव्याकुलगोकुलवनरसादुद्धृत्य गोवर्धनं

बिभ्रद्बल्लववल्लभाभिरधिकानन्दाच्चिरं चुम्बितः ।

दर्पेणेव तदर्पिताधरतटीसिन्दूरमुद्राङ्कितो

बाहुर्गोपतनोस्तनोतु भवतां श्रेयांसि कंसद्विषः  ॥ ४.२३ ॥

पञ्चमः सर्गः

साकाङ्क्षपुण्डरीकाक्षः

अहमिह निवसामि याहि राधाम्

अनुनय मद्वचनेन चानयेथाः ।

इति मधुरीपुणा सखी नियुक्ता

स्वयमिदमेत्य पुनर्जगाद राधाम्  ॥ ५.१ ॥

***** प्रबन्धः १०  *****

देशीवराडिरागेण रूपकतालेन गीयते ।

वहति मलयसमीरे मदनमुपनिधाय ।

स्फुटति कुसुमनिकरे विरहिहृदयदलनाय  ॥ ५.२ ॥

तव विरहे वनमाली सखि सीदति  ** ध्रुवपदम् **

दहति शिशिरमयूखे मरणमनुकरोति ।

पतति मदनविशिखे विलपति विकलतरोऽति  ॥ ५.३ ॥

ध्वनति मधुपसमूहे श्रवणमपिदधाति ।

मनसि कलितविरहे निशि निसि रुजमुपयाति  ॥ ५.४ ॥

वसति विपिनविताने त्यजति ललितधाम ।

लुठति धरणिशयने बहु विलपति तव नाम  ॥ ५.५ ॥

भणति कविजयदेवे विरहविलसितेन ।

मनसि रभसविभवे हरिरुदयतु सुकृतेन  ॥ ५.६ ॥

* * * * *

पूर्वं यत्र समं त्वया रतिपतेरासादिताः सिद्धयस्

तस्मिन्नेव निकुञ्जमन्मथमहातीर्थे पुनर्माधवः ।

ध्यायंस्त्वामनिशं जपन्नपि तवैवालापमन्त्रावलिं

भूयस्त्वत्कुचकुम्भनिर्भरपरीरम्भामृतं वाञ्छति  ॥ ५.७ ॥

***** प्रबन्धः ११  *****

गुर्जरीरागेण एकतालितालेन गीयते ।

रतिसुखसारे गतमभिसारे मदनमनोहरवेशम् ।

न कुरु नितम्बिनि गमनविलम्बनमनुसर तं हृदयेशम्  ॥

धीरसमीरे यमुनातीरे वसति वने वनमलि  [ध्रुवपदम्]  ॥ ५.८ ॥

नामसमेतं कृतसङ्केतं वादयते मृदुवेणुम् ।

बहु मनुतेऽतनु ते तनुसङ्गतपवनचलितमपि रेणुम्  ॥ ५.९ ॥

पतति पतत्रे विचलति पत्रे शङ्कितभवदुपयानम् ।

रचयति शयनं सचकितनयनं पश्यति तव पन्थानम्  ॥ ५.१० ॥

मुखरमधीरं त्यज मञ्जीरं रिपुमिव केलिसुलोलम् ।

चल सखि कुञ्जं सतिमिरपुञ्जं शीलय नीलनिचोलम्  ॥ ५.११ ॥

उरसि मुरारेरुपहितहारे घन इव तरलबलाके ।

तडिदिव पीते रतिविपरीते राजसि सुकृतविपाके  ॥ ५.१२ ॥

विगलितवसनं परिहृतरशनं घटय जघनमपिदानम् ।

किसलयशयने पङ्कजनयने निधिमिव हर्षनिधानम्  ॥ ५.१३ ॥

हरिरभिमाणी रजनिरिदानीमियमपि याति विरामम् ।

कुरु मम वचनं सत्वररचनं पूरय मधुरिपुकामम्  ॥ ५.१४ ॥

श्रीजयदेवे कृतहरिसेवे भणति परमरमणीयम् ।

प्रमुदितहृदयं हरिमतिसदयं नमत सुकृतकमनीयं  ॥ ५.१५ ॥

* * * * *

विकिरति मुहुः श्वासानाशाः पुरो मुहुरीक्षते

प्रविशति मुहुः कुञ्जं गूञ्जन्मुहुर्बहु ताम्यति ।

रचयति मुहुः शय्यां पर्याकुलं मुहुरीक्षते

मदनकदनक्लान्तः कान्ते प्रियस्तव वर्तते  ॥ ५.१६ ॥

त्वद्वाम्येन समं समग्रमधुना तिग्मांशुरस्तं गतो

गोविन्दस्य मनोरथेन च समं प्राप्तं तमः सान्द्रताम् ।

कोकानां करुणस्वनेन सदृशी दीर्घमदभ्यर्थना

तन्मुग्धे विफलं विलम्बनमसौ रम्योऽभिसारक्षणः  ॥ ५.१७ ॥

आश्लेषादनु चुम्बनादनु नखोलेखादनु स्वान्तज

प्रोद्बोधादनु सम्भ्रमादनु रतारम्भादनु प्रीतयोः ।

अन्यार्थं गतयोर्भ्रमान्मिलितयोः सम्भाषणैर्जानतोर्

दम्पत्योरिह को न को न तमसि व्रीडाविमिश्रो रसः  ॥ ५.१८ ॥

सभयचकितं विन्यस्यन्तीं दृशं तिमिरे पथि

प्रतितरु मुहुः स्थित्वा मन्दं पदानि वितन्वतीम् ।

कथमपि रहः प्राप्तामङ्गैरनङ्गतरण्गिभिः

सुमुखि सुभगः पश्यन् स त्वामुपैतु कृतार्थताम्  ॥ ५.१९ ॥

राधामुग्धमुखारविन्दमधुपस्त्रैलोक्यमौलिस्थली

नेपथ्योचितनीलरत्नमवनीभारावतारान्तकः ।

स्वच्छन्दं व्रजसुन्दरीजनमनस्तोषप्रदोषोदयः

कंसध्वंसनधूमकेतुरवतु त्वां देवकीनन्दनः  ॥ ५.२० ॥

षष्ठः सर्गः

सोत्कण्ठवैकुण्ठः

अथ तां गन्तुमशक्तां चिरमनुरक्तां लतागृहे दृष्ट्वा ।

तच्चरितं गोविन्दे मनसिजमन्दे सखी प्राह  ॥ ६.१ ॥

***** प्रबन्धः १२  *****

गुणकरीरागेन रूपकतालेन गीयते ।

पश्यति दिशि दिशि रहसि भवन्तम् ।

तदधरमधुरमधूनि पिबन्तम्  ॥ ६.२ ॥

नाथ हरे सीदति राधाऽवासगृहे  ** ध्रुवपदम् **

त्वदभिसरणरभसेन वलन्ती ।

पतति पदानि कियन्ती चलन्ती  ॥ ६.३ ॥

विहितविशदबिसकिसलयवलया ।

जीवति परमिह तव रतिकलया  ॥ ६.४ ॥

मुहुरवलोकितमण्डनलीला ।

मधुरिपुरहमिति भावनशीला  ॥ ६.५ ॥

त्वरितमुपैति न कथमभिसारम् ।

हरिरिति वदति सखीमनुवारम्  ॥ ६.६ ॥

श्लिष्यति चुम्बति जलधरकल्पम् ।

हरिरुपगत इति तिमिरमनल्पम्  ॥ ६.७ ॥

भवति विलम्बिनि विगलितलज्जा ।

विलपति रोदिति वासकसज्जा  ॥ ६.८ ॥

श्रीजयदेवकवेरिदमुदितम् ।

रसिकजनं तनुतामतिमुदितम्  ॥ ६.९ ॥

* * * * *

विपुलपुलकपालिः स्फीतसीत्कारमन्तर्

जनितजडिमम्काकुव्याकुलं व्याहरन्ती ।

तव कितव विधायामन्दकन्दर्पचिन्तां

रसजलनिधिमग्ना ध्यानलग्ना मृगक्षी  ॥ ६.१० ॥

अङ्गेष्वाभरणं करोति बहुशः पत्रेऽपि सञ्चारिणी

प्राप्तं त्वां परिशङ्कते वितनुते शय्यां चिरं ध्यायति ।

इत्याकल्पविकल्पतल्परचनासङ्कल्पलीलाशत

व्यासक्तापि विना त्वया वरतनुर्नैषा निशां नेष्यति  ॥ ६.११ ॥

किं विश्राम्यसि कृष्णभोगिभवने भाण्डीरभूमीरुहि

भ्रातर्यासि न दृष्टिगोचरमितः सानन्दनन्दास्पदम् ।

राधाया वचनं तदध्वगमुखान्नन्दान्तिके गोपतो

गोविन्दस्य जयन्ति सायमतिथिप्राशस्त्यगर्भा गिरः  ॥ ६.१२ ॥

सप्तमः सर्गः

नागरनारायणः

अत्रान्तरे च कुलटाकुलवर्त्मघाट

सञ्जातपातक इव स्फुटलाञ्छनश्रीः ।

वृन्दावनान्तरमदीपयदंशुजालैर्

दिक्सुन्दरीवदनचन्दनबिन्दुरिन्दुः  ॥ ७.१ ॥

प्रसरति शशधरबिम्बे विहितविलम्बे च माधवे विधुरा ।

विरचितविविधविलापं सपरितापं चकारोच्चैः  ॥ ७.२ ॥

***** प्रबन्धः १३  *****

मालवरागयतितालाभ्यां गीयते ।

कथितसमयेऽपि हरिरहह न ययौ वनम् ।

मम विफलमिदममलरूपमपि यौवनम्  ॥ ७.३ ॥

यामि हे कमिह शरणं सखीजनवचनवञ्चिता  ** ध्रुवपदम् **

यदनुगमनाय निशि गहनमपि शिलितम् ।

तेन मम हृदयमिदमसमशरकीलितम्  ॥ ७.४ ॥

मम मरणमेव वरमिति वितथकेतना ।

किमिह विषहामि विरहानलमचेतना  ॥ ७.५ ॥

मामहह विधुरयति मधुरमधुयामिनी ।

कापि हरिमनुभवति कृतसुकृतकामिनी  ॥ ७.६ ॥

अहह कलयामि वलयादिमणिभूषणम् ।

हरिविरहदहनवहनेन बहुदूषणम्  ॥ ७.७ ॥

कुसुमसुकुमारतनुमतनुशरलीलया ।

स्रगपि हृदि हन्ति मामतिविषमशिलया  ॥ ७.८ ॥

अहमिह निवसामि नगणितवनवेतसा ।

स्मरति मधुसूदनो मामपि न चेतसा  ॥ ७.९ ॥

हरिचरणशरणजयदेवकविभारती ।

वसतु हृदि युवतिरिव कोमलकलावती  ॥ ७.१० ॥

* * * * *

तत्किं कामपि कामिनीमभिसृतः किं वा कलाकेलिभिर्

बद्धो बन्धुभिरन्धकारिणि वनाभ्यर्णे किमुद्भ्राम्यति ।

कान्तः क्लान्तमना मनागपि पथि प्रस्थातुमेवाक्षमः

सङ्केतीकृतमञ्जुवाञ्जुललताकुञ्जेऽपि यन्नागतः   ॥ ७.११ ॥

अथागता माधवमन्तरेण

सखीमियं वीक्ष्य विषादमूकाम् ।

विशङ्कमाना रमितं कयापि

जनार्दनं दृष्टवदेतदाह  ॥ ७.१२ ॥

***** प्रबन्धः १४  *****

वसन्तरागयतितालाभ्यां गीयते ।

स्मरसमरोचितविरचितवेशा ।

गलितकुसुमदरविलुलितकेशा  ॥ ७.१३ ॥

कापि मधुरिपुणा विलसति युवतिरधिकगुणा  ** ध्रुवपदम् **

हरिपरिरम्भनचलितविकारा ।

कुचकलशोपरि तरलितहारा  ॥ ७.१४ ॥

विचलदलकललिताननचन्द्रा ।

तदधरपानरभसकृततन्द्रा  ॥ ७.१५ ॥

चञ्चलकुण्डलदलितकपोला ।

मुखरितरशनजघनगतिलोला  ॥ ७.१६ ॥

दयितविलोकितलज्जितहसिता ।

बहुविधकूजितरतिरसरसिता  ॥ ७.१७ ॥

विपुलपुलकपृथुवेपथुभङ्गा ।

श्वसितनिमीलितवकसदनङ्गा  ॥ ७.१८ ॥

श्रमजलकणभरसुभगशरीरा ।

परिपतितोरसि रतिरणधीरा  ॥ ७.१९ ॥

श्रीजयदेवभणितहरिरमितम् ।

कलिकलुषं जनयतु परिशमितम्  ॥ ७.२० ॥

* * * * *

विरहपाण्डुमुरारिमुखाम्बुज

द्युतिरयं तिरयन्नपि वेदनाम् ।

विधुरतीव तनोति मनोभुवः

सुहृदये हृदये मदनव्यथाम्  ॥ ७.२१ ॥

***** प्रबन्धः १५  *****

गुर्जरीरागैकतालितालेन गीयते ।

समुदितमदने रमणीवदने चुम्बनवलिताधरे ।

मृगमदतिलकं लिखति सपुलकं मृगमिव रजनीकरे  ॥ ७.२२ ॥

रमते यमुनापुलिनवने विजयी मुरारिरधुना  ** ध्रुवपदम् **

घनचयरुचिरे रचयति चिकुरे तरलिततरुणानने ।

कुरुबककुसुर्नं चपला सुषमं रतिपतिमृगकानने  ॥ ७.२३ ॥

घटयति सुघने कुचयुगगगणे मृगमदरुचिरूषिते ।

मणिसरमर्नलं तारकपटलं नखपदशशिभूषिते  ॥ ७.२४ ॥

जितबिसशकले मृदुभुजयुगले करतलनलिनीदले ।

मरकतवलयं मधुकरनिचयं वितरति हिमशितले  ॥ ७.२५ ॥

रतिगृहजघने विपुलापघने मनस्त्जकनकासने ।

मणिमयतशनं तोरणहसनं विकिरति क्त्तवसने  ॥ ७.२६ ॥

चरणकिसलये कमलनिलये नखमणिगणपूजिते ।

बहिरपवरणं यवकभरणं जनयति हृदियोजिते  ॥ ७.२७ ॥

रमयति सुभृशं कमपि सुदृशं खलहलधरसोदरे ।

किमफलमवसं चिरमिह विरसं वद सखि विटपोदरे  ॥ ७.२८ ॥

इह रसभणने कृतहरिगुणने मधुरिपुपदसेवके ।

कलियुगरचितं न वसतु दुरितं कविनृपजयदेवके  ॥ ७.२९ ॥

* * * * *

नयतः सखि निर्दयो यदि शठस्त्वं दूति किं दूयसे

स्वच्छन्दं बहुवल्लभः स रमते किं तत्र ते दूषणम् ।

पश्याद्य्प्रियसङ्गमाय दयितस्याकृष्यमाणं गुणैर्

उत्कण्ठार्तिभरादिव स्फुटदिदं चेतः स्वयं यास्यति  ॥ ७.३० ॥

***** प्रबन्धः १६  *****

देशवराडिरागेण रूपकतालेन गीयते ।

अनिलतरलकुवलयनयनेन ।

तपति न सा किसलयशयनेन  ॥ ७.३१ ॥

सखि या रमिता वनमालिना  ** ध्रुवपदम् **

विकसितसरसिजललितमुखेन ।

स्फुटति न स मनसिजविशिखेन  ॥ ७.३२ ॥

अमृतमधुरमृदुतरवचनेन ।

ज्वलति न स मलयजपवनेन  ॥ ७.३३ ॥

स्थलजलरुहरुचिकरचरणेन ।

लुठति न सा हिमकरकिरणेन  ॥ ७.३४ ॥

सजलजलदसमुदयरुचिरेण ।

दलति न सा हृदि चिरविरहेण  ॥ ७.३५ ॥

कनकनिकषरुचिशुचिवसनेन ।

श्वसिति न सा परिजनहसनेन  ॥ ७.३६ ॥

सकलभुवनजनवरतरुणेन ।

वहति न सा रुजमतिकरुणेन  ॥ ७.३७ ॥

श्रीजयदेवभणितवचनेन ।

प्रविशतु हरिरपि हृदयमनेन  ॥ ७.३८ ॥

* * * * *

मनोभवानन्दनचन्दनानिल

प्रसीद रे दक्षिण मुञ्च वामताम् ।

क्षणं जगत्प्राण निदाय माधवं

पुरो मम प्राणहरो भविष्यसि  ॥ ७.३९ ॥

रिपुरिव सखिसंवासोऽयं शिखीव हिमानिलो

विषमिव सुधारश्मिर्यस्मिन् दुनोति मनोगते ।

हृदयमदये तस्मिन्नैवं पुनर्वलते बलात्

कुवलयदृशां वामः कामो निकामनिरण्कुशः  ॥ ७.४० ॥

बाधां विधेहि मलयानिल पञ्चबाण

प्राणान् गृहाण न गृहं पुनराश्रयिष्ये ।

किं ते कृतान्तभगिनि क्षमया तरङ्गैर्

अङ्गानि सिञ्च मम शाम्यतु देहदाहः  ॥ ७.४१ ॥

प्रातर्नीलनिचोलमच्युतमुरः संवीतपीतांशुकं

राधायाश्चकितं विलोक्य हसति स्वैरं सखिमण्डले ।

व्रीडाचञ्चलमञ्चलं नयनयोराधाय राधानने

स्वादुस्मेरमुखोऽयमस्तु जगदानन्दाय नन्दात्मजः  ॥ ७.४२ ॥

अष्टमः सर्गः

विलक्ष्यलक्ष्मीपतिः

अथ कथमपि यामिनीं विनीय

स्मरशरजर्जरितापि सा प्रभाते ।

अनुनयवचनं वदन्तमग्रे

प्रणतमपि प्रियमाह साभ्यसूयम्  ॥ ८.१ ॥

***** प्रबन्धः १७  *****

भैरविरागयतितालाभ्यां गीयते ।

रजनिजनितगुरुजागररागकषायितमलसनिवेशम् ।

वहति नयनमनुरागमिव स्फूमुदितरसभिनिवेशम्  ॥ ८.२ ॥

हन् हरि याहि माधव याहि केशव मा वद कैतववादम् ।

तमनुसर सरसीरुहलोचन या तव हरति विषादम्  ** ध्रुवपदम् **

कज्जलमलिनविलोचनचुम्बनविरचितनीलिमरूपम्  ।

दशनवसनमरुणं तव क्र्स्ण तनोति तनोरनुरूपं  ॥ ८.३ ॥

वपुरनुहरति तव स्मरसङ्गरखरनखरक्षतरेखम् ।

मरकतशकलकलितकलधौतलिपेरिव रतिजयलेखम्  ॥ ८.४ ॥

चरणकमलगलदलक्तकसिक्तमिदं तव हृदयमुदारम् ।

दर्सयतीव बहिर्मदनद्रुर्ननवकिसलयपरिवारम्  ॥ ८.५ ॥

दशनपदं भवदधरगतं मम जनयति चेतसि खेदम् ।

कथयति कथमधुनापि मया सह तव वपुरेतदभेदम्  ॥ ८.६ ॥

बहिरिव मलिनतरं तव कृष्ण मनोऽपि भविष्यति नूनम् ।

कथमथ वञ्चयसे जनमनुगतमसमशरज्वरदूनम्  ॥ ८.७ ॥

भ्रमति भवानबलाकवलाय वनेषु किमत्र विचित्रम् ।

प्रथयति पूतनिकैव वधूवधनिर्दयबालचरित्रम्  ॥ ८.८ ॥

श्रीजयदेवभणितरतिवञ्चितखण्डितयुवतिविलापम् ।

शृणुत सुधामधुरं विबुधा विबुधालयतोऽपि दुरापम्  ॥ ८.९ ॥

* * * * *

तवेदं पश्यन्त्याः प्रसरदनुरागं बहिरिव

प्रियपादालक्तच्छुरितमरुणद्योति हृदयम् ।

ममाद्य प्रख्यातप्रणयभरभङ्गेन कितव

त्वदालोकः शोकादपि किमपि लज्जां जनयति  ॥ ८.१० ॥

अन्तर्मोहनमौलिघूर्णनचलन्मन्दारविभ्रंशन

स्तम्भाकर्षणदृप्तिहर्षणमहामन्त्रः कुरङ्गीदृशाम् ।

दृप्यद्दानवदूयमानदिविषद्दुर्वारदुःखपदां

भ्रंशः कंसरिपोर्व्यपोहयतु वः श्रेयांसि वंशीरवः  ॥ ८.११ ॥

नवमः सर्गः

मुग्धमुकुन्दः

तमथ मन्मथखिन्नां रतिरभसभिन्नां विषादसम्पन्नामनुचिन्तितहरिचरितां कलहान्तरितमुवाच रहसि सखी  ॥ ९.१ ॥

***** प्रबन्धः १८  *****

गुर्जरीरागयतितालाभ्यां गीयते ।

हरिरभिसरति वहति मधुपवने ।

किमपरमधिकसुखं सखि भवने  ॥ ९.२ ॥

माधवे मा कुरु मानिनि मानमये  ** ध्रुवपदम् **

तालफलादपि गुरुमतिसरसम् ।

किं विफलीकुरुषे कुचकलशम्  ॥ ९.३ ॥

कति न कथितमिदमनुपदमचिरम् ।

मा परिहर हरिमतीशयरुचिरम्  ॥ ९.४ ॥

किमिति विषीदसि रोदिषि विकला ।

विहसति युवतीसभा तव सकला  ॥ ९.५ ॥

सजलनलिनीदलशीतलशयने ।

हरिमवलोकय सफलय नयने  ॥ ९.६ ॥

जनयसि मनसि किमिति गुरुखेदम् ।

शृणु मम वचनमनीहितभेदम्  ॥ ९.७ ॥

हरिरुपयातु वदतु बहुमधुरम् ।

किमिति करोषि हृदयमतिविधुरम्  ॥ ९.८ ॥

श्रीजयदेवभणितमतिललितम् ।

सुखयतु रसिकजनं हरिचरितं  ॥ ९.९ ॥

* * * * *

स्निग्धे यत्परुषासि प्रणमति स्तब्धासि यद्रागिणि

द्वेषस्थासि यदुन्मुखे विमुखतां यातासि तस्मिन् प्रिये ।

तद्युक्तं विपरीतकारिणि तव श्रीखण्डचर्चा विषं

शीतांशुस्तपनो हिमं हुतवहः क्रीडामुदो यातनाः  ॥ ९.१० ॥

सान्द्रानन्दपुरंदरादिदिविषद्वृन्दैरमन्दादराद्

आनम्रैर्मुकुटेन्द्रनीलमणिभिः सन्दर्शितेन्दिवरम् ।

स्वच्छन्दं मकरन्दसुन्दरगलन्मन्दाकिनीमेदुरं

श्रीगोविन्दपदारविन्दमशुभस्कन्दाय वन्दामहे  ॥ ९.११ ॥

दशमः सर्गः

चतुरचतुर्भुजः

अत्रान्तरेऽमसृणरोषवशामपार

निःश्वासनिःसहमुखीं सुमुखीमुपेत्य ।

सव्रीडमीक्षितसखीवदनां दिनान्ते

सानन्दगद्गदपदं हरिरित्युवच  ॥ १०.१ ॥

***** प्रबन्धः १९  *****

देशवराडिरागाष्टातालीतालाभ्यां गीयते ।

वदसि यदि किञ्चिदपि दन्तरुचिकौमुदी

हरति दरतिमिरमतिघोरम् ।

स्फुरदधरसीधवे तव वदनचन्द्रमा

रोचयतु लोचनचकोरं  ॥ १०.२ ॥

प्रिये चारुशीले मुञ्च मयि मानमनिदानम् ।

सपदि मदनानलो दहति मम मानसम्

देहि मुखकमलमधुपानं  ** ध्रुवपदम् **

सत्यमेवासि यदि सुदति मयि कोपिनी

देहि खरनखरशरघातम् ।

घटय भुजबन्धनं जनय रदखण्डनं

येन वा भवति सुखजातं  ॥ १०.३ ॥

त्वमसि मम भूषणं त्वमसि मम जीवनं

त्वमसि मम भवजलधिरत्नम् ।

भवतु भवतीह मयि सततमनुरोधिनी

तत्र मम हृदयमतियत्नं  ॥ १०.४ ॥

नीलनलिनाभमपि तन्वि तव लोचनं

धारयति कोकनदरूपम् ।

कुसुमशरबाणभावेन यदि रञ्जयसि

कृष्णमिदमेतदनुरूपम्  ॥ १०.५ ॥

स्फुरतु कुचकुम्भयोरुपरि मणिमञ्जरी

रञ्जयतु तव हृदयदेशम् ।

रसतु रशनापि तव घनजघनमण्डले

घोषयतु मन्मथनिदेशम्  ॥ १०.६ ॥

स्थलकमलगञ्जनं मम हृदयरञ्जनं

जनितरतिरङ्गपरभागम् ।

भण मसृणवाणि करवाणि चरणद्वयं

सरसलसदलक्तकरागम्  ॥ १०.७ ॥

स्मरगरलखण्डनं मम शिरसि मण्डनं

देहि पदपल्लवमुदारम् ।

ज्वलति मयि दारुणो मदनकदनारुणो

हरतु तदुपाहितविकारम्  ॥ १०.८ ॥

इति चटुलचाटुपटुचारु मुरवैरिणो

राधिकामधि वचनजातम् ।

जयतु जयदेवकविभारतीभूषितं

मानिनीजनजनितशातम्  ॥ १०.९ ॥

* * * * *

परिहर कृतातङ्के शङ्कां त्वया सततं घन

स्तनजघनयाक्रान्ते स्वान्ते परानवकाशिनी ।

विशति वितनोरन्यो धन्यो न कोऽपि ममान्तरं

प्रणयिनि परीरम्भारम्भे विधेहि विधेयताम्  ॥ १०.१० ॥

मुग्धे विधेहि मयि निर्दयदन्तदंश

दोर्वल्लिबन्धनिविडस्तनपीडनानि ।

चण्डि त्वमेव मुदमुद्वह पञ्चबाण

चाण्डालकाण्डदलनादसवः प्रयान्ति  ॥ १०.११ ॥

शशिमुखि तव भाति भङ्गुरभ्रूर्

युवजनमोहकरालकालसर्पी ।

तदुदितभयभञ्जनाय यूनां

त्वदधरसीधुसुधैव सिद्धमन्त्रः  ॥ १०.१२ ॥

व्यथयति वृथा मौनं तन्वि प्रपञ्चय पञ्चमं

तरुणि मधुरालापैस्तापं विनोदय दृष्टिभिः ।

सुमुखि विमुखीभावं तावद्विमुञ्च न मुञ्च मां

स्वयमतिशयस्निग्धो मुग्धे प्रियोऽयमुपस्थितः  ॥ १०.१३ ॥

बन्धूकद्युतिबान्धवोऽयमधरः स्निग्धो मधूकच्छविर्

गण्डश्चण्डि चकास्ति नीलनलिनश्रीमोचनं लोचनम् ।

नासाभ्येति तिलप्रसूनपदवीं कुन्दाभदन्ति प्रिये

प्रायस्त्वन्मुखसेवया विजयते विश्वं स पुष्पायुधः  ॥ १०.१४ ॥

दृशौ तव मदालसे वदनमिन्दुसन्दीपनं

गतिर्जनमनोरमा विजितारम्भमूरुद्वयम् ।

रतिस्तव कलावती रुचिरचित्रलेखे भ्रुवाव्

अहो विबुधयौवतं वहसि तन्वि पृथ्वीगता  ॥ १०.१५ ॥

स प्रीतिं तनुतां हरिः कुवलयापीडेन सार्धं रणे

राधापीनपयोधरस्मरणकृत्कुम्भेन सम्भेदवान् ।

यत्र स्विद्यति मीलति क्षणमपि क्षिप्रं तदालोकन

व्यामोहेन जितं जितं जितमभूत्कंसस्य कोलाहलः  ॥ १०.१६ ॥

एकादशः सर्गः

सानन्ददामोदरः

सुचिरमनुनयेन प्रीणयित्वा मृगाक्षीं

गतवति कृतवेशे केशवे कुञ्जशय्याम् ।

रचितरुचिरभूषां दृष्टिमोषे प्रदोषे

स्फुरति निरवसादं कापि राधां जगाद  ॥ ११.१ ॥

***** प्रबन्धः २०  *****

वसन्तरागयतितालाभ्यां गीयते ।

विरचितचाटुवचनरचनं चरणे रचितप्रणिपातम् ।

सम्प्रति मञ्जुलवञ्जुलसीमनि केलिशयनमनुयातं  ॥ ११.२ ॥

मुग्धे मधुमथनमनुगतमनुसर राधिके  ** ध्रुवपदम् **

घनजघनस्तनभारभरे दरमन्थरचरणविहारम् ।

मुखरितमणिमञ्जीरमुपैहि विधेहि मरालविकारम्  ॥ ११.३ ॥

शृणु रमणीयतरं तरुणीजनमोहनमधुपविरावम् ।

कुसुमशरासनशासनबन्दिनि पिकनिकरे भज भावम्  ॥ ११.४ ॥

अनिलतरलकिसलयनिकरेण करेण लतानिकुरम्बम् ।

प्रेरणमिव करभोरु करोति गतिं प्रति मुन्च विलम्बम्  ॥ ११.५ ॥

स्फुरितमनङ्गतरङ्गवशादिव सूचितहरिपरिरम्भम् ।

पृच्छ मनोहरहारविमलजलधारममुं कुचकुम्भम्  ॥ ११.६ ॥

अधिगतमखिलसखीभिरिदं तव वपुरपि रतिरणसज्जम् ।

चण्डि रसितरशनारवडिण्डिममभिसर सरसमलज्जम्  ॥ ११.७ ॥

स्मरशरसुभगनखेन सखीमवलम्ब्य करेण सलीलम् ।

चल वलयक्वणितैरवबोधय हरिमपि निजगतिशीलं  ॥ ११.८ ॥

श्रीजयदेवभणितमधरीकृतहारमुदासितवामम् ।

हरिविनिःितमनसामधितिष्ठतु कण्ठतटीमविरामम्  ॥ ११.९ ॥

* * * * *

सा मां द्रक्ष्यति वक्ष्यति स्मरकथां प्रत्यङ्गमालिङ्गनैः

प्रीतिं यास्यति रंस्यते सखि समागत्येति चिन्ताकुलः ।

स त्वां पश्याति वेपते पुलकयत्यानन्दति स्विद्यति

प्रत्युद्गच्छति मूर्च्छति स्थिरतमह्पुञ्जे निकुञ्जे प्रीयः  ॥ ११.१० ॥

अक्ष्णोर्निक्षिपदञ्जनं श्रवणयोस्तापिच्छगुच्छावलिं

मूर्ध्नि श्यामसरोजदाम कुचयोः कस्तूरिकापत्रकम् ।

धूर्तानामभिसरसम्भ्रमजूषां विष्वङ्निकुञ्जे सखि

ध्वान्तं नीलनिचोलचारु सुदृशां प्रत्यङ्गमलिङ्गति  ॥ ११.११ ॥

काश्मीरगौरवपुषमभिसारिकानां

आबद्धरेखमभितो रुचि मञ्जरीभिः ।

एतत्तमालदलनीलतमं तमिस्रं

तत्प्रेमहेमनिकषोपलतां तनोति  ॥ ११.१२ ॥

हारावलीतरलकाञ्चनकाञ्चिदाम

केयूरकङ्कणमणिद्युतिदीपितस्य ।

द्वारे निकुञ्जनिलयस्य हरिं निरीक्ष्य

ब्रीडावतिमथ सखीमीयमित्युवच  ॥ ११.१३ ॥

***** प्रबन्धः २१ *****

वराडिरागरूपकतालाभ्यां गीयते ।

मञ्जुतरकुञ्जतलकेलिसदने ।

विलस रतिरभसहसितवदने  ॥ ११.१४ ॥

प्रविश राधे माधवसमीपमिह  ** ध्रुवपदम् **

नवलसदशोकदलशयनसारे ।

विलस कुचकलशतरलहारे  ॥ ११.१५ ॥

कुसुमचयरचितशुचिवासगेहे ।

विलस कुसुमसुकुमारदेहे  ॥ ११.१६ ॥

मृदुचलमलयपवनसुरभिशीते ।

विलस मदनशरनिकरभीते  ॥ ११.१७ ॥

विततबहुवल्लिनवपल्लवघने ।

विलस चिरमलसपीनजघने  ॥ ११.१८ ॥

मधुमुदितमधुपकुलकलितरावे ।

विलस मदनरससरसभावे  ॥ ११.१९ ॥

मधुरतरपीकनिकरनिनदमुखरे ।

विलस दशनरुचिरुचिरशिखरे  ॥ ११.२० ॥

विहितपद्मावतिसुखसमाजे ।

कुरु मुरारे मङ्गलशतानि ।

भणति जयदेवकविराजराजे  ॥ ११.२१ ॥

* * * * *

त्वं चित्तेन चिरं वहन्नयमतिश्रान्तो भृशं तापितः

कन्दर्पेण च पातुमिच्छति सुधासम्बाधबिम्बाधरम् ।

अस्याङ्कं तदलङ्कुरु क्षणमिह भ्रूक्षेपलक्ष्मीलव

क्रीते दास इवोपसेवितपदाम्भोजे कुतः सम्भ्रमः  ॥ ११.२२ ॥

स ससाध्वससानन्दं गोविन्दे लोललोचना ।

सिञ्जानमञ्जुमञ्जीरं प्रविवेशाभिवेशनम्  ॥ ११.२३ ॥

***** प्रबन्धः २२  *****

वराडिरागयतितालाभ्यां गीयते ।

राधावदनविलोकनविकसितविविधविकारविभङ्गम् ।

जलनिधिमिव विधुमण्डलदर्शनतरलिततुङ्गतरङ्गम्  ॥ ११.२४ ॥

हरिमेकरसं चिरमभिलषितविलासम् ।

सा ददर्श गुरुहर्षवशंवदवदनमनङ्गनिवासं  ** ध्रुवपदम् **

हारममलतरतारमुरसि दधतं परिलम्ब्य विदूरम् ।

स्फुटतरफेनकदम्बकरम्बितमिव यमुनाजलपूरम्  ॥ ११.२५ ॥

श्यामलमृदुलकलेवरमण्डलमधिगतगौरदुकूलम् ।

नीलनलिनमिव पितपरागपटलभरवलयितमूलम्  ॥ ११.२६ ॥

तरलदृगञ्चलचलनमनोहरवदनजनितरतिरागम् ।

स्फुटकमलोदरखेलितखञ्जनयुगमिव शरदि तडागम्  ॥ ११.२७ ॥

वदनकमलपरिशीलनमिलितमिहिरसमकुण्डलशोभम् ।

स्मितरुचिरुचिरसमुल्लसिताधरपल्लवकृतरतिलोभम्  ॥ ११.२८ ॥

शशिकिरणच्छुरितोदरजलधरसुन्दरसकुसुमकेशम् ।

तिमिरोदितविधुमण्डलनिर्मलमलयजतिलकनिवेशम्  ॥ ११.२९ ॥

वीपुलपुलकभरदन्तुरितं रतिकेलिकलाभिरधीरम् ।

मणिगणकिरणसमूहसमुज्ज्वलभूषणसुभगशरीरम्  ॥ ११.३० ॥

श्रीजयदेवभणितविभवद्विगुणीकृतभूषणभारम् ।

प्रणमत हृदि विनिधाय हरिं सुचिरं सुकृतोदयसारम्  ॥ ११.३१ ॥

* * * * *

अतिक्रम्यापाङ्गं श्रवणपथपर्यन्तगमन

प्रयासेनेवाक्ष्णोस्तरलतरतारं गमितयोः ।

इदानीं राधायाः प्रियतमसमालोकसमये

पपात स्वेदाम्बुप्रसर इव हर्षाश्रुनिकरः  ॥ ११.३२ ॥

भजन्त्यास्तल्पान्तं कृतकपटकण्टूतिपिहित

स्मितं याते गेहाद्बहिरवहितालीपरिजने ।

प्रियास्यं पश्यन्त्याः स्मरपरवशाकूतसुभगं

सलज्जालज्जापि व्यगमदिव दूरं मृगदृशः  ॥ ११.३३ ॥

सानन्दं नन्दसूनुर्दिशतु मितपरं संमदं मन्दमन्दं

राधामाधाय बाह्वोर्विवरमनु द्र्ढं पीडयन् प्रीतियोगात् ।

तुङ्गौ तस्या उरोजावतनुवरतनोर्निर्गतौ मा स्म भूतां

पृष्ठं निर्भिद्य तस्माद्बहिरिति वलितग्रीवमालोकयन् वः  ॥ ११.३४ ॥

जयश्रीविन्यस्तैर्महित इव मन्दारकुसुमैः

स्वयं सिन्दूरेण द्विपरणमुदा मुद्रित इव ।

भुजापीडक्रीडाहतकुवलयापीडकरिणः

प्रकीर्णासृग्बिन्दुर्जयति भुजदण्डो मुरजितः  ॥ ११.३५ ॥

सौन्दर्यैकनिधेरनङ्गललनालावण्यलीलाजुषो

राधाया हृदि पल्वले मनसिजक्रीडैकरङ्गस्थले ।

रम्योरोजसरोजखेलनरसित्वादात्मनः ख्यापयन्

ध्यातुर्मानसराजहंसनिभतां देयान्मुकुन्दो मुदम्  ॥ ११.३६ ॥

द्वादशः सर्गः

सुप्रीतपीताम्बरः

गतवति सखीवृन्देऽमन्दत्रपाभरनिर्भर

स्मरपरवशाकूतस्फीतस्मितस्नपिताधरम् ।

सरसमानसं दृष्ट्वा राधां मुहुर्नवपल्लव

प्रसवशयने निक्षिप्ताक्षीमुवाच हरिः प्रियाम्  ॥ १२.१ ॥

***** प्रबन्धः २३  *****

विभासरागैकतालिता१आभ्यां गीयते ।

किसलयशयनतले कुरु कामिनि चरणनलिनविनिवेशम् ।

तव पदपल्लववैरिपराभवमिदमनुभवतु सुवेशं  ॥ १२.२ ॥

क्षणमधुना नारायणमनुगतमनुसर राधिके  ** ध्रुवपदम् **

करकमलेन करोमि चरणमहमागमितासि विदूरम् ।

क्षणमुपकुरु शयनोपरि मामिव नूपुरमनुगतिशूरम्  ॥ १२.३ ॥

वदनसुधानिधिगलितममृतमिव रचय वचनमनुकूलम् ।

विरहमिवापनयामि पयोधररोधकमुरसि दुकूलं  ॥ १२.४ ॥

प्रियपरिरम्भणरभसवलितमिव पुलकितमतिदुरवापम् ।

मदुरसि कुचकलशं विनिवेशय शोषय मनसिजतापम्  ॥ १२.५ ॥

अधरसुधारसमुपनय भामिनि जीवय मृतमिव दासम् ।

त्वयि विनिहितमनसं विरहानलदग्धवपुषमविलासम्  ॥ १२.६ ॥

शशिमुखि मुखरय मणिरशनागुणमनुगुणकण्ठनिनादम् ।

श्रुतियुगले पिकरुतविकले मम शमय चिरादवसादम्  ॥ १२.७ ॥

मामतिविफलरुषा विकलीकृतमवलोकितुमधुनेदम् ।

लज्जितमिव नयनं तव विरमति विसृज वृथा रतिखेदम्  ॥ १२.८ ॥

श्रीजयदेवभणितमिदमनुपदनिगदितमधुरिपुमोदम् ।

जनयतु रसिकजनेषु मनोरमरतिरसभावविनोदम्  ॥ १२.९ ॥

* * * * *

प्रत्यूहपुलकाङ्कुरेण निविडलेशनिमेषेण च

क्रीडाकूतविलोकितेऽधरसुधापाने कथाकेलिभिः ।

आनन्दाधिगमेन मन्मथकलायुद्धेऽपि यस्मिन्नभुद्

उद्भूतः स तयोर्बभूव सुरतारम्भः प्रियम्भावुकः  ॥ १२.१० ॥

दोर्भ्यां संयमितः पयोधरभरेणापीडितः पाणिजैर्

आविद्धो दशनैः क्षताधरपुटः श्रोणीतटेनाहतः ।

हस्तेनानमितः कचेऽधरमधुस्यन्देन संमोहितः

कान्तः कामपि तृप्तिमाप तदहो कामस्य वामा गतिः  ॥ १२.११ ॥

माराङ्के रतिकेलिसङ्कुलरणारम्भे तया साहस

प्रायं कान्तजयाय किंचिदुपरि प्रारम्भि यत्सम्भ्रमात् ।

निष्पन्दा जघनस्थली शिथिलिता दोर्वल्लिरुत्कम्पितं

वक्षो मिलितमक्षि पौरुषरसः स्त्रीणां कुतः सिध्यति  ॥ १२.१२ ॥

तस्याः पाटलपाणिजाङ्कितमुरो निद्राकाषाये दृशौ

निर्धौताधरशोनिमा विलुलितस्रस्तस्रजो मूर्धजः ।

काञ्चीदाम दरश्लथाञ्चलमिति प्रातर्निखातैर्दृशोर्

एभिः कामशरैस्तदद्भुतमभूत्पत्युर्मनः कीलितं  ॥ १२.१३ ॥

व्यालोलः केशपाशस्तरलितमलकैः स्वेदमोक्षौ कपोलौ

क्लिष्टा बिम्बाधरश्रीः कुचकलशरुचा हारिता हारयष्टिः ।

काञ्चीकान्तिर्हताशा स्तनजघनपदं पाणिनाच्छद्य सद्यः

पश्यन्ती सत्रपा सा तदपि विलुलिता मुग्धकन्तिर्धिनोति  ॥ १२.१४ ॥

ईषन्मीलितदृष्टि मुग्धविलसत्शीत्कारधारावशाद्

अव्यक्ताकुलकेलिकाकुविकसद्दन्तांशुधौताधरम् ।

शान्तस्तब्धपयोधरं भृशपरिष्वङ्गात्कुरङ्गीदृशो

हर्षोत्कर्षविमुक्तनिःसहतनोर्धन्यो धयत्याननं  ॥ १२.१५ ॥

अथ सहसा सुप्रीतं सुरतान्ते सा नितान्तखिन्नाङ्गि ।

राधा जगाद सादरमिदमानन्देन गोविन्दम्  ॥ १२.१६ ॥

***** प्रबन्धः २४  *****

रामकरिरागयतितालाभ्यां गीयते ।

कुरु यदुनन्दन चन्दनशिशिरतरेण करेण पयोधरे ।

मृगमदपत्रकमत्र मनोभवमङ्गलकलशसहोदरे  ॥ १२.१७ ॥

निजगाद सा यदुनन्दने क्रीडति हृदयनन्दने  ** ध्रुवपदम् **

अलिकुलगञ्जनमञ्जनकं रतिनायकसायकमोचने ।

त्वदधरचुम्बनलम्बितकज्जल उज्ज्वलय प्न्य लोचने  ॥ १२.१८ ॥

नयनकुरङ्गतरङ्गविकसनिरासकरे श्रुतिमण्डले ।

मनसिजपाशविलासधरे शुभवेश निवेशय कुण्डले  ॥ १२.१९ ॥

भ्रमरचयं रचयन्तमुपरि रुचिरं सुचिरं मम सम्मुखे ।

जितकमले विमले परिकर्मय नर्मजनकमलकं मुखे  ॥ १२.२० ॥

मृगमदरसवलितं ललितं कुरु तिलकमलिकरजनिकरे ।

विहितकलङ्ककलं कमलानन विश्रमितश्रमसीकरे  ॥ १२.२१ ॥

मम रुचिरे चिकुरे कुरु मानद मनसिजध्वजचामरे ।

रतिगलिते ललिते कुसुमानि शिखण्डिशिखण्डकडामरे  ॥ १२.२२ ॥

सरसघने जघने मम शम्बरदारणवारणकन्दरे ।

मणिरशनावसनाभरणानि शुभाशय वासय सुन्दरे  ॥ १२.२३ ॥

श्रीजयदेववचसि रुचिरे सदयं हृदयं कुरु मण्डने ।

हरिचरणस्मरणामृतनिर्मितकलिकलुषज्वरखण्डने  ॥ १२.२४ ॥

* * * * *

रचय कुचयोश्चित्रं पत्रं कुरुष्व कपोलयोर्

घटय जघने काञ्चीं मुग्धस्रजा कबरिभरम् ।

कलय वलयश्रेणीं पाणौ पदे मणिनूपुराव्

इति निगदितः प्रीतः पिताम्बरोऽपि तथाकरोत् ॥ १२.२५ ॥

पर्यङ्कीकृतनागनायकफणाश्रेणीमणीनां गणे

सङ्क्रान्तप्रतिबिम्बसम्वलनया बिभ्रद्विभुप्रक्रियाम् ।

पादाम्भोरुहधारिवारिधिसुतामक्ष्णां दिदृक्षुः शतैः

कायव्यूहमिवचरन्नपचितौ भूयो हरिः पातु वः  ॥ १२.२६ ॥

त्वामप्राप्य मयि स्वयंवरपरां क्षीरोदतीरोदरे

शङ्के सुन्दरि कालकूटमपिबन्मूढो मृदानीपतिः ।

इत्थं पूर्वकथाभिरन्यमनसा विक्षिप्य वक्षोऽञ्चलं

राधायाः स्तनकोरकोपरिमिलन्नेत्रो हरिः पातु वः  ॥ १२.२७ ॥

यद्गान्धर्वकलासु कौशलमनुध्यानं च यद्वैष्णवं

यच्छृङ्गारविवेकतत्त्वरचनाकाव्येषु लीलायितम् ।

तत्सर्वं जयदेवपण्डितकवेः कृष्णैकतानात्मनः

सानन्दाः परिशोधयन्तु सुधियः श्रिगीतगोविन्दतः  ॥ १२.२८ ॥

साधूनां स्वत एव संमतिरिह स्यादेव भक्त्यार्थिनाम्

आलोच्य ग्रथनश्रमं च विदुसामस्मिन् भवेदादरः ।

ये केचित्परकृत्युपश्रुतिपरास्तानर्थये मत्कृतिं

भूयो वीक्ष्य वदन्तो अवद्यमिह चेत्सा वासना स्थास्यति  ॥ १२.२९ ॥

श्रीभोजदेवप्रभवस्य रामादेवीसुतश्रीजयदेवकस्य ।

पराशरादिप्न्यवर्गकण्ठे श्रीगीतगोविन्दकवित्वमस्तु  ॥ १२.३० ॥

साध्वी माध्वीक चिन्ता न भवति भवतः शर्करे कर्कशासि

द्राक्षे द्रक्ष्यन्ति के त्वाममृत मृतमसि क्षीर नीरं रसस्ते ।

माकन्द क्रन्द कान्ताधर धर न तुलां गच्छ यच्छन्ति भावं

यावच्छृङ्गारसारं शुभमिव जयदेवस्य वैदग्ध्यवाचः  ॥ १२.३१ ॥

इत्थं केलिततिर्विहृत्य यमुनाकूले समं राधया

तद्रोमावलिमौक्तिकावलियुगे वेणीभ्रमं बिभ्रति ।

तत्राह्लादिकुचप्रयागफलयोर्लिप्सावतोर्हस्तयोर्

व्यापाराअ पुरुषोत्तमस्य ददतु स्फीतां मुदं सम्पदं  ॥ १२.३२ ॥