प्राग्दीव्यतीय-अर्थः 10 - 4|2|37 तस्य समूहः
Neelesh Bodas | neelesh.bodas@gmail.com | 25 March 2017
4|2|37 तस्य समूहःतस्य समूहः अस्मिन् अर्थे षष्ठीसमर्थात् प्रातिपदिकात् यथाविहितः प्रत्ययः भवति । |
औत्सर्गिक-अण्-प्रत्ययस्य अपवादाः एते -
4|2|39 गोत्र-उक्षन्-उष्ट्र-उरभ्र-राजन्-राजन्य-राजपुत्र-वत्स-मनुष्य-अजात् वुञ्गोत्रवाची-शब्दाः - औपगवानां समूहः औपगवकम् । कापटवानां समूहः कापटवकम् । उक्ष्णां (वृषभानाम्) समूहः = उक्षन् + वुञ् → औक्षकम् । उष्ट्राणां समूहः औष्ट्रकम् । उरभ्राणां (मेषानाम्) समूहः औरभ्रकम् । राज्ञां समूहः राजकम् । राजन्यानाम् समूहः राजन्यकम् । राजपुत्राणां समूहः राजपुत्रकम् । वत्सानां समूहः वात्सकम् । अजानां समूहः आजकम् । (वार्त्तिकम्) वृद्धात् च इति वक्तव्यम्वृद्धानाम् समूहः वार्द्धकम् । |
4.2.40 केदारात् यञ् चकेदाराणां समूहः = केदार + यञ् / वुञ् → कैदार्य / कैदारक । (वार्त्तिकम्) गणिकायाः यञ् इति वक्तव्यम्गणिकानां समूहः = गणिका + यञ् → गाणिक्यम् । 4.2.41 ठञ् कवचिनश्चकवचिनाम् समूहः = कवचिन् + ठञ् → कावचिकम् । केदाराणाम् समूहः = केदार + ठञ् → कैदारिकम् । |
4.2.42 ब्राह्मण-माणव-वाडवात् यन्ब्राह्मणानां समूहः = ब्राह्मण + यन् → ब्राह्मण्यम् । माणवानां समूहः = माणव + यन् → माणव्यम् । वाडवानां समूहः = वाडव + यन् → वाडव्यम् । (वार्त्तिकम्) पृष्ठात् उपसंख्यानम्पृष्ठानां समूहः = पृष्ठ + यन् → पृष्ठ्यम् । (वार्त्तिकम्) पर्श्वा णस् वक्तव्यःपर्शूनां समूहः = पर्शु + णस् → पार्श्वम् । प्रक्रिया इयम् - पर्शु + णस् → पर्शु + अ [इत्संज्ञा, लोपः] → पार्शु + अ [आदिवृद्धिः] → पार्श्व [अत्र प्रत्ययः "सित्" अस्ति, अतः अङ्गस्य 1|4|16 सिति च इति पदसंज्ञा भवति । अतः 6|4|146 ओर्गुणः इत्यनेन गुणादेशः न विधीयते, अपितु 6|1|77 इको यणचि इति यणादेशं कृत्वा रूपं सिद्ध्यति ] (वार्त्तिकम्) वातात् ऊलःवातानां समूहः = वात + ऊल → वातूलम् । |
4.2.43 ग्राम-जन-बन्धु-सहायेभ्यः तल्लिङ्गानुशासनम् (17) -"तलन्तः" - इत्यनेन तलन्तशब्दाः स्त्रीलिङ्गे भवन्ति । ग्रामाणां समूहः ग्रामता । जनानां समूहः जनता । बन्धूनां समूहः बन्धुता । सहायानां समूहः सहायता । (वार्त्तिकम्) गजात् च इति वक्तव्यम्गजानां समूहः गजता । |
4.2.45 खण्डिकादिभ्यश्चखण्डिकादिगणस्य शब्देभ्यः "तस्य समूहः" अस्मिन् अर्थे अञ् प्रत्ययः भवति । खण्डिकादिगणः खण्डिका, वडवा, क्षुद्रक-मालवात् सेना-संज्ञायाम् (गणसूत्रम्), भिक्षुक, शुक, उलूक, श्वन् , अहन्, युग, वरत्रा, हलबन्ध । खण्डिकानाम् समूहः = खण्डिका + अञ् → खाण्डिकम् । वडवानाम् समूहः = वडवा + अञ् → वाडवम् । क्षुद्रक-मालवस्य सेना = क्षुद्रकमालव + अञ् → क्षौद्रकमालवी सेना । अन्यत्र तु (गोत्रत्वात्) वुञ् (क्षौद्रकमालवकम्) । भिक्षुकानां समूहः भैक्षुकम् । शुकानां समूहः शौकम् । उलूकानां समूहः औलुकम् । श्वनाम् समूहः शौवम् । अत्र प्रक्रिया इयम् - श्वन् + अञ् → शौवन् + अ [द्वारादीनां च 7।3।4 इत्यनेन द्वारादिगणे विद्यमानस्य श्वन्-शब्दस्य वकारात् पूर्वम् औकारागमः भवति ] → शौव् + अ [नस्तद्धिते 6।4।144 इत्यनेन टिलोपः] → शौव अह्नाम् समूहः आहम् । युगानां समूहः यौगम् । वरत्राणाम् समूहः वारत्रम् । हलबन्धानाम् समूहः हालबन्धम् । |
4.2.48 केश-अश्वाभ्याम् यत्-छ-अन्यतरस्याम्(अत्र प्रत्ययविधानम् यथासंख्यं भवति) केशानां समूहः = केश + यत् → केश्यम् । ( पक्षे 4.2.47 अचित्त... इति ठक् ) केश + ठक् → कैशिकम् । अश्वानां समूहः = अश्व + छ → आश्वीय । ( पक्षे औत्सर्गिकः अण् ) अश्व + अण् → आश्वम् । 4.2.49 पाशादिभ्यः यःपाशादिगणस्य शब्देभ्यः "तस्य समूहः" अस्मिन् अर्थे "य" प्रत्ययः भवति । पाशादिगणः पाश, तृण, धूम, वात, अङ्गार, पोत, बालक, पिटक, पिटाक, शकट, हल, नड, वन । एते य-प्रत्ययान्तशब्दाः स्त्रीलिङ्गे भवन्ति । पाशानां समूहः पाश्या । तृणानां समूहः तृण्या । धूमानां समूहः धूम्या । वातानां समूहः वात्या । अङ्गाराणां समूहः अङ्गार्या । पोतानां समूहः पोत्या । बालकानां समूहः बालक्या । पिटकानां समूहः पिटक्या । पिटाकानां समूहः पिटाक्या । शकटानां समूहः शकट्या । हलानां समूहः हल्या । नडानां समूहः नड्या । वनानां समूहः वन्या ।
4.2.50 खल-गो-रथात्खलानां समूहः खल्या । गवां समूहः गव्या । रथानां समूहः रथ्या ।
4.2.51 इनि-त्र-कट्यचः च"खल-गो-रथ" एतेभ्यः यथासङ्ख्यम् इनि-त्र-कट्यच् प्रत्ययाः भवन्ति । खलानां समूहः = खल + इनि → खलिनी । गवानां समूहः = गो + त्र → गोत्रा । रथानां समूहः = रथ + कट्यच् → रथकट्य ।
(वार्त्तिकम्) खलादिभ्यः इनिः वक्तव्यःखलादिगणे पाठितानां शब्दानां समूहार्थे "इनि" प्रत्ययः भवति । खलादिगणः खल, डाक, कुटुम्ब, शाक, कुण्डल । खलानां समूहः खलिनी । डाकानां समूहः डाकिनी । कुटुम्बानां समूहः कुटुम्बिनी । शाकानां समूहः शाकिनी । कुण्डलानां समूहः कुण्डलिनी । |
(वार्त्तिकम्) कमलादिभ्यः खण्डच् प्रत्ययः भवति ।कमलादिगणः (आकृतिगणः) । कमल, अम्भोज , पद्मिनी, कुमुद, सरोज, पद्म, नलिनी, कैरविणी । कमलानां समूहः कमलखण्डम् । अम्भोजानां समूहः अम्भोजखण्डम् । पद्मिनीनां समूहः पद्मिनीखण्डम् सरोजानां समूहः सरोजखण्डम् । पद्मानां समहः पद्मखण्डम् । नलिनीनां समूहः नलिनीखण्डम् । कैरविणीनां समूहः कैरविणीखञ्डम् । |
(वार्त्तिकम्) नर-करि-तुरङ्गाणाम् स्कन्धच् प्रत्ययः भवति ।नराणां समूहः नरस्कन्धः । करिणां समूहः करिस्कन्धः । तुरङ्गानां समूहः तुरङ्गस्कन्धः । |
(वार्त्तिकम्) पूर्वादिभ्यः काण्डच् प्रत्ययः भवति ।पूर्वादिगणः पूर्व, तृण, कर्म । पूर्वाणां समूहः पूर्वकाण्डम् । तृणानां समूहः तृणकाण्डम् । कर्मणां समूहः कर्मकाण्डम् । |
एतान् सर्वान् अपवादान् बाधित्वा भिक्षादिगणस्य शब्देभ्यः अण्-प्रत्ययस्य पुनर्विधानम् भवति -
4|2|38 भिक्षादिभ्यः अण्भिक्षादिगणः भिक्षा, गर्भिणी, क्षेत्र, करीष, अङ्गार, चर्मिन्, धर्मिन्, सहस्र, युवति, पदाति, पद्धति, अथर्वन्, दक्षिणा, भूत । भिक्षाणां समूहः = भिक्षा + अण् → भैक्षम् । गर्भिणीनां समूहः गार्भिणम् । क्षेत्राणां समूहः क्षैत्रम् । अङ्गाराणां समूहः आङ्गारम् । चर्मिणाम् समूहः चार्मिणम् । धर्मिणां समूहः धार्मिणम् । युवतीनां समूहः यौवतम् । पदातीनां समूहः पादातम् । पद्धतीनां समूहः पाद्धतम् । अथर्वणां समूहः आर्थवम् । दक्षिणानां समूहः दाक्षिणम् । भूतानां समूहः भौतम् । |