॥श्री:॥

वर्णज्ञानम्

नीलेश बोडस  / neelesh.bodas@gmail.com  / 10 Jan 2016


वर्णज्ञानम् इत्युक्ते वर्णानां सम्यक् रूपेण सम्पूर्णं ज्ञानम् । प्रथमाध्यायस्य प्रथमपादे वर्णज्ञानं कारयितुं अनेकानि सू्त्राणि दत्तानि पाणिनिमहर्षिना । एतेषां सूत्राणां परस्परसम्बन्धेन प्रयोग: कथं करणीय: अस्य विषये महाभाष्ये महती चर्चा विद्यते। लेखेऽस्मिन् अस्मिन् विषये अधिकं जानीम: ।                                        

व्याकरणे सम्पूर्णं वर्णज्ञानं कथं भवति अस्य विषये भाष्यकारेण पतञ्जलिना 1|1|69 अणुदित्सवर्णस्य चाप्रत्यय: अस्य सूत्रस्य व्याख्याने  इदमुक्तम् -

वर्णानाम् उपदेश: तावत्, उपदेशोत्तरकाला इत्संज्ञा, इत्संज्ञोत्तरकाल: आदिरन्त्येन सहेता इति प्रत्याहार:, प्रत्याहारोत्तरकाला सवर्णसंज्ञा, सवर्णसंज्ञोत्तरकालम् अणुदित्सवर्णस्य चाप्रत्यय: इति सवर्णग्रहणम् ।

             

अस्मिन् वर्णके वर्णज्ञानस्य सवर्णग्रहणस्य च क्रम: स्पष्टरूपेण उक्त: अस्ति । वाक्यस्य प्रत्येकम् अंशं क्रमेण पश्याम: -          

1) वर्णानाम् उपदेश: तावत्

सर्वप्रथमम् "अइउण्" आदिभि: माहेश्वरसूत्रै: वर्णानाम् उपदेश: भवति । चतुर्दशसूत्रेषु आहत्य नव-स्वरा: त्रयस्त्रिंशत्-व्यञ्जनानि च उक्तानि सन्ति ।  

         

2) उपदेशोत्तरकाला इत्संज्ञा -

वर्णोपदेशात् अनन्तरम् सर्वेषां सूत्राणां य: अन्तिमवर्ण:, तस्य 1|3|3 हलन्त्यम् इत्यनेन इत्संज्ञा भवति । रकारोत्तवर्ती-अकारस्य 1|3|2 उपदेशेऽजनुनासिक इत् इत्यनेन इत्संज्ञा भवति ।

3) इत्संज्ञोत्तरकाल: "आदिरन्त्येन सहेता" इति प्रत्याहार:

यथा हि इत्संज्ञा भवति, तथा 1|1|71 आदिरन्त्येन सहेता अनेन सू्त्रेण प्रत्याहारनिर्माणं भवति । प्रत्याहारेषु अन्त्येन इत्-वर्णेन सह निर्देशित: आदिवर्ण: मध्यगानां स्वस्य च ग्रहणं करोति ।

उदाहरणम् - "अक्" प्रत्याहार: "अ, इ, उ, ऋ, ऌ" एतेषां पञ्च स्वराणां ग्रहणं करोति ।

विशेष: - एतावत्पर्यन्तं सवर्णसंज्ञाया: निर्माणं न कृतमस्ति  । इत्युक्ते, “ह्रस्व-दीर्घ-प्लुतादय: अन्ये सप्तदश भेदा: अकारस्य सवर्णा: भवितुमर्हन्ति” अस्य ज्ञानं अत्र नास्ति। अत: प्रत्याहारग्रहणे सवर्णग्रहणं न भवति । इत्युक्ते, अक्-प्रत्याहारेण केवलं “अ, इ, उ, ऋ, ऌ” एतेषां अननुनासिक-उदात्त-ह्रस्व-वर्णानामेव ग्रहणं भवति, तेषां सवर्णानां न ।

4) प्रत्याहारोत्तरकाला सवर्णसंज्ञा  -

अनन्तरं प्रथमं प्रत्येकस्वरस्य यथायोग्यं ह्रस्व-दीर्घ-प्लुत-उदात्त-अनुदात्त-स्वरित-अनुनासिक-अननुनासिकादिभेदा: जायन्ते । तदनन्तरम् 1|1|9 तुल्यास्यप्रयत्नं सवर्णम् , 1|1|10 नाज्झलौ आभ्यां सूत्राभ्याम् ययो: वर्णयो: आभ्यन्तरप्रयत्नौ मुखस्थित-उच्चारणस्थाने च समाने भवत:, तयो: वर्णयो: सवर्णसंज्ञा भवति ।

वर्णानां उच्चारणस्थानम् आभ्यन्तरप्रयत्ना: एतादृशा: -

वर्ण:

उच्चारणस्थानम्

आभ्यन्तरप्रयत्न:

अ (अष्टादशभेदा:) , ह्

कण्ठ:

विवृत:

इ (अष्टादशभेदा:) , श्

तालु

विवृत:

उ (अष्टादशभेदा:)

ओष्ठौ

विवृत:

ऋ (अष्टादशभेदा:) , ष्

मूर्धा

विवृत:

ऌ (अष्टादशभेदा:) , स्

दन्ता:

विवृत:

ए , ऐ

कण्ठतालु

विवृत:

ओ , औ

कण्ठोष्ठम्

विवृत:

क् , ख् , ग् , घ् , ङ्

कण्ठ:

स्पृष्ट:

च् , छ् , ज् , झ् , ञ्

तालु

स्पृष्ट:

ट् , ठ् , ड् , ढ् , ण्

मूर्धा

स्पृष्ट:

त् , थ् , द् , ध् , न्

दन्ता:

स्पृष्ट:

प् , फ् , ब् , भ् , म्

ओष्ठौ

स्पृष्ट:

य्

तालु

ईषत्स्पृष्ट:

र्

मूर्धा

ईषत्स्पृष्ट:

ल्

दन्ता:

ईषत्स्पृष्ट:

व्

दन्तोष्ठम्

ईषत्स्पृष्ट:

   

अत्र किं भवति विस्तारेण पश्याम: -

अत: एतत् सर्वदा स्मर्तव्यम् यत् पाणिनीयमतेन आकारहकारौ, ईकारशकारौ, ॠकारषकारौ सवर्णौ स्त: ।

5) सवर्णसंज्ञोत्तरकालम् “अणुदित्सवर्णस्य चाप्रत्यय:” इति सवर्णग्रहणम्

अग्रे 1|1|69 अणुदित्-सवर्णस्य चाप्रत्यय: अनेन सूत्रेण सवर्णग्रहणम् भवति ।  किं नाम सवर्णग्रहणम्? यदि एकस्यैव वर्णस्य निर्देशेन तस्य वर्णस्य सर्वेषां सवर्णानां ज्ञानं भवति, तर्हि “स: वर्ण: सर्वेषां सवर्णानां ग्रहणं करोति” इत्युच्यते । एतादृशं सवर्णग्रहणम् 1|1|69 अणुदित्-सवर्णस्य चाप्रत्यय: अनेन सूत्रेण भवति ।

क: अस्य सू्त्रस्य अर्थ:? “अण्-प्रत्याहारे उपस्थिता: वर्णा:, उदितवर्णाश्च सवर्णग्रहणं कुर्वन्ति” इत्यर्थ: । इत्युक्ते, अण्-प्रत्याहारे उपस्थितस्य कस्यापि वर्णस्य यदि कस्मिन्नपि सूत्रे निर्देश: क्रियते, तर्हि तेन वर्णेन सर्वेषां सवर्णानां निर्देश: भवति इत्यर्थ: ।

अण्-प्रत्याहारे के के वर्णा: सन्ति?  अ, इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ, ह् , य् , व्, र्, ल् । एते सर्वे सवर्णग्रहणं कुर्वन्ति । अत: "अ" इति वदामश्चेत् अकारस्य सर्वे सवर्णा:  गृह्यन्ते ।  तथैव ह् वदामश्चेदपि हकारस्य सर्वेषां सर्वणानाम् उल्लेख: कृत: अस्ति इति ज्ञायते ।

उदाहरणं पश्यामश्चेत् प्राय: स्पष्टं भवेत् । 6|1|77 इको यणचि इत्यत्र इक्-प्रत्याहार: प्रयुक्त: अस्ति । प्रत्याहारेऽस्मिन् इ-वर्ण: समाविष्ट: अस्ति | 1|1|69 अणुदित्-सवर्णस्य चाप्रत्यय: अनेन सूत्रेण इकार: तस्य सर्वेषां सवर्णानाम् अपि ग्रहणं करोति । अत: "मति + अत्र" अत्रापि यणादेश: भवति,  तथा च "नदी + अत्र"  अत्रापि यणादेश: भवति ।

अत्र एक: महत्वपूर्ण: बिन्दु: ज्ञातव्य: । सवर्णग्रहणम् “इ” अनेन वर्णेन भवति, न हि “इक्” अनेन प्रत्याहारेण । इत्युक्ते, इक्-प्रत्याहारे केवलम् अननुनासिक-उदात्त-ह्रस्व-इकारस्य समावेश: अस्ति, तस्य अन्येषां भेदानां न । परन्तु स:  अननुनासिक-उदात्त-ह्रस्व-इकार: स्वयं सवर्णग्रहणं करोति, अत: यत्र इक्-प्रत्याहारस्य निर्देशेन इकारस्य कार्यं दर्शितमस्ति, तत्र सर्वेषां सवर्णानां तदेव कार्यं भवति ।

अस्मिन् स्थाने एतत् स्मर्तव्यम्, यत् यद्यपि अकारस्य मूलत: अष्टादश भेदा: सन्ति, तथापि केवलं अननुनासिक-उदात्त-ह्रस्व-अकार: एव सवर्णग्रहणं करोति, यत: केवलं एतादृश: अकार: एव अण्-प्रत्याहारे समाविष्ट: अस्ति । (संशय: अस्ति चेत् उपरिनिर्दिष्ट: तृतीय: बिन्दु: पुन: एकवारं दृश्यताम् ) । अकारस्य अन्ये सप्तदशभेदा: सवर्णग्रहणं न कुर्वन्ति । विशेषेण  आकार: सवर्णग्रहणं न करोति, यत: अण्-प्रत्याहारे आकारस्य उपस्थितिरेव नास्ति । तथैव केवलं इकारस्य उकारस्य ऋकारस्य च अननुनासिक-उदात्त-ह्रस्वभेद: एव सवर्णग्रहणं करोति, अन्ये भेदा: न ।  

क: अस्य अर्थ:? कस्मिन्नपि सूत्रे "अ" वदामश्चेत् अकारस्य सर्वेषां सवर्णानां ग्रहणं भवति, परन्तु "आ" वदामश्चेत् केवलं अननुनासिक-उदात्त-दीर्घ-अाकारस्यैव ग्रहणं भवति, अन्येषां सवर्णानां ग्रहणं न भवति । तथैव ई-वदामश्चेत् केवलं अननुनासिक-उदात्त-दीर्घ-ईकारस्यैव ग्रहणं भवति, अन्येषां सवर्णानां न ।

अत्र कश्चन विशेष: ज्ञातव्य: । अण्-प्रत्याहारे कानिचन व्यञ्जनानि अपि समाविष्टानि सन्ति । विशेषरूपेण हकार: अण्-प्रत्याहारे समाविष्ट: अस्ति । अत: हकारस्य निर्देश: अपि तस्य सर्वेषां सवर्णानां ग्रहणं करोति इति अर्थ: निष्पद्यते । अस्माभि: उपरि दृष्टम् अस्ति यत् आकार-हकारयो: सावर्ण्यम् अस्ति, इति । अत: हकारस्य निर्देश: आकारस्यापि ग्रहणं करोति इति अस्य अर्थ: भवति । एष: निष्कर्ष: क्लेशाय, यत: अनेन निष्कर्षेण प्रक्रियायां दोषा: उद्भवन्ति  ।

उदाहरणमेकं पश्याम:। 8|2|31 हो ढ: अनेन सू्त्रेण “हकारस्य झलि परतः ढकारदेशो भवति” इति ज्ञायते । अत्र हकारेण सवर्णग्रहणं भवति, अत: हकारस्य सवर्ण: य: आकार:, तस्य अपि झलि परत: ढकारादेश: भवितुमर्हति । इदानीं  “विश्वपा” अनेन आकारान्तपुँल्लिङ्गशब्देन सह तृतीयाबहुवचनस्य भिस्-प्रत्ययस्य यदा योजनं कुर्म: तदा “विश्वपा + भिस्” अस्यामवस्थायां भकारस्य झल्-प्रत्याहारे समाविष्टे सति  8|2|31 हो ढ: अनेन सू्त्रेण विश्वपा-शब्दस्य आकारस्य ढकार: भवितुमर्हति । एतत् कुर्मश्चेत् "विश्वप् ढ् भिस्" इति दोषपूर्णा रचना उत्पद्यते ।  अत: हकारेण आकारस्य ग्रहणं न भवितुमर्हति । इत्युक्ते, हकार-आकारौ सवर्णौ न भवितुमर्हत: ।

                           

तर्हि हकार-आकारयो: सावर्ण्यं कथं निवारणीयम् ? सिद्धान्तकौमुद्यां दीक्षित: एकां युक्तिं वदति । स: वदति - 1|1|10 नाज्झलौ अस्य सूत्रस्य विग्रह: “न + अच् + हलौ” इति मा भूत्, अपितु “न +  + अच् + हलौ” इति भवेत् । इत्युक्ते, एक: आकार: अपि तत्र उपस्थित: अस्ति इति चिन्त्येत । एवं कुर्मश्चेत् “आकारस्य अच्-प्रत्याहारस्य च हल्-वर्णै: सह सावर्ण्यं न भवति” इति अर्थनिष्पत्ति: भवति । अनया रीत्या आकारहकारयो: सावर्ण्यं निवार्यते ।

एषा पद्धति, यत्र व्याकरणनियमान् अनुसृत्यैव सू्त्रस्य भिन्नरीत्या पदच्छेदं कृत्वा सूत्रस्य नूतन-अर्थनिष्पत्ति: क्रियते, सा "प्रश्लेष:" नाम्ना ज्ञायते । अत: कौमुद्यां दीक्षित: वदति -

नाज्झलौ इति सावर्ण्यनिषेध: यद्यपि अक्षरसमाम्नायिकानामेव, तथापि हकारस्य आकार: न सवर्ण: । तत्र आकारस्यापि प्रश्लिष्टत्वात् । तेन विश्वपाभि: इत्यत्र हो ढ: इति ढत्वं  न भवति

एतादृशा: समस्या: निराकर्तुं दीक्षित: सिद्धान्तकौमुद्यां अन्यत्रापि प्रश्लेषस्य साहाय्यं स्वीकरोति ।

अस्मिन् स्थले द्वौ प्रश्नौ प्राय: उपस्थाप्येते -

1) अनेन प्रश्लेषेन आकारहकारयो: सावर्ण्यम् अवश्यं निवार्यते, परन्तु दीर्घ-ईकार-शकारयो:, उत दीर्घ-ॠकारषकारयो: सावर्ण्यं तु न निवार्यते । अत: तेषां सावर्ण्यं कथं निवार्यते?

उत्तरम् -   दीर्घ-ईकार-शकारयो:, उत दीर्घ-ॠकारषकारयो: सावर्ण्यं केनापि सूत्रेण  न निवार्यते । तस्य आवश्यकता अपि नास्ति । हकार-आकारयो: विषये समस्या केवलं अस्मात् कारणात् सञ्जाता, यत् हकार: सवर्णग्रहणं कर्तुमर्हति । अत:  8|2|31 हो ढ: अस्मिन् सूत्रे आकारस्य ग्रहणस्य दोष: जात: । ईकार-शकारयो: विषये एतादृशी समस्या नास्ति, यत: ईकार: सवर्णग्रहणं न करोति, शकार: चापि सवर्णग्रहणं न करोति । (स्मर्यताम् - अण्-प्रत्याहारे ईकार: अपि नास्ति, शकार: अपि नास्ति ।)  अत: यद्यपि ईकारशकारौ सवर्णौ भवेताम्, तथापि तौ परस्परयो: ग्रहणं न कुरुत: । अत: तेषां सर्वणे जाते कोऽपि दोष: न उत्पद्यते । तथैव दीर्घ-ॠकार-षकारविषयेऽपि वक्तुं शक्यते ।

2) परन्तु 6|1|101 अक: सवर्णे दीर्घ: अस्मिन् सू्त्रे “अक्-वर्णस्य सवर्णे परे दीर्घ: भवति” इति उक्तमस्ति । इदानीम्  “नदी शेते” इत्यत्र शकार: ईकारस्य सवर्ण: अस्ति, अत: अक: सवर्णे दीर्घ: अस्य सू्त्रस्य प्रयोगेन अत्रापि सवर्णदीर्घ: भवेत्।

उत्तरम् -  अस्मिन् सूत्रे “अचि” अस्य अनुवृत्ति: अस्ति । अत: अनुवृत्ति-अधिकारसहितम् एतत् सूत्रम् भवति - “अक: सवर्णे अचि [ परे ] पूर्वपरयो: एक: दीर्घ: [ स्यात् ]” ।  अत्र “सवर्णे अचि” इति स्पष्टमुक्तमस्ति । “नदी शेते” इत्यत्र यद्यपि शकार: ईकारस्य सवर्ण: अस्ति, तथापि शकार: अच्-प्रत्याहारे समाविष्ट: नास्ति, अत: अस्य सूत्रस्य अत्र प्रसक्तिर्नास्ति ।

अन्ते, एक: महत्वपूर्ण: विषय: वक्तव्य: । महर्षि: पतञ्जलि: महाभाष्ये 1|1|10 नाज्झलौ अस्य सूत्रस्य व्याख्यायां वदति -

स्पृष्टं स्पर्शानां करणम् । ईषत्स्पृष्टम् अन्त:स्थानाम् । विवृतम् उष्मणाम् ईषत्-इत्येव अनुवर्तते । स्वराणां विवृतमं ईषदिति निवृतम् ।

इत्युक्ते, पतञ्जलिमहर्षि: शकार-षकार-सकार-हकाराणां आभ्यन्तरप्रयत्न: ईषद्विवृत: अस्ति (विवृत: नास्ति) इति वदति । एवमस्ति  चेत् इकारशकारयो: आभ्यन्तरप्रयत्नाै भिन्नौ भवत:, अत: तयो: सावर्ण्यं कदापि न भवति । तथैव ऋकारषकारयो: ऌकारसकारयो: अपि सावर्ण्यं न भवति । एतादृशं कुर्मश्चेत् उपरिनिर्दिष्टा: केऽपि दोषा: न जायन्ते । अत: नाज्झलौ इत्यत्र प्रश्लेषस्यापि आवश्यकता नास्ति । एवमेव 6|1|101 अक: सवर्णे दीर्घ: इत्यत्र अचि-पदस्य अनुवृत्ते: अपि आवश्यकता नास्ति ।

संक्षेप:

  1. आदौ माहेश्वरसूत्रै: वर्णानां उपदेश: भवति । अत्र स्वराणां केवलं अननुनासिक-उदात्त-ह्रस्व-भेदस्यैव उपदेश: भवति । तदनन्तरम् माहेश्वरसू्त्राणां अन्तिमवर्णस्य इत्संज्ञा भवति ।

  1. तत: 1।1।71 आदिरन्त्येन सहेता अनेन प्रत्याहारनिर्माणं भवति । प्रत्याहारेषु अपि सवर्णानां ग्रहणं न भवति । उदाहरणम् - अक्-प्रत्याहारेण केवलं "अ, इ, उ, ऋ, ऌ" एतेषां पञ्च-वर्णानां ग्रहणं भवति, तेषां सवर्णानां न ।

  1. तदनन्तरम् प्रत्येकस्वरस्य यथायोग्यं ह्रस्वदीर्घादिभेदा: भवन्ति ।

  1. अनन्तरम् 1|1|9 तुल्यास्यप्रयत्नं सवर्णम् अनेन सूत्रेण ययो: वर्णयो: आभ्यन्तरप्रयत्नौ मुखस्थित-उच्चारणस्थाने च समाने भवत:, तयो: वर्णयो: सवर्णसंज्ञा भवति । अनेन सूत्रेण अकारहकारौ, आकारहकारौ, इकारशकारौ, ईकारशकारौ आदय: परस्पराणां सवर्णा: भवन्ति ।  

  1. तस्मिन्नेव समये 1।1।10 नाज्झलौ अनेन अच्-वर्णानां हल्-वर्णै: सह सावर्ण्यं निषिध्यते । प्रश्लेषेन आकारस्यापि हल्-वर्णै: सह सावर्ण्यं निषिध्यते । अत: अकारहकारयो:, आकारहकारयो:, इकारशकारयो: , ऋकारषकारयो: च सावर्ण्यं निवार्यते, परन्तु दीर्घ-ईकारशकारयो: दीर्घ-ॠकारषकारयो: च सावर्ण्यं न निवार्यते।

         

  1. अन्ते 1|1|69 अणुदित्-सवर्णस्य चाप्रत्यय: अनेन सू्त्रेण एतत् स्पष्टं भवति यत् अण्-प्रत्याहारस्थिता: वर्णा: सवर्णग्रहणं कुर्वन्ति । उदाहरणम् - अननुनासिक-उदात्त-ह्रस्व-अकार: सवर्णग्रहणं करोति, यत: एतादृश: अकार: अण्-प्रत्याहारे समाविष्ट: अस्ति । परन्तु अकारस्य अन्ये सप्तदशभेदा: सवर्णग्रहणं न कुर्वन्ति । अन्यदुदाहरणम् - यद्यपि ईकारशकारौ सवर्णौ स्त:, परन्तु तौ परस्परयो: ग्रहणं न कुर्वन्ति, यत: उभौ अपि अण्-प्रत्याहारे न समाविष्टौ ।

  1. महर्षिपतञ्जलिना उष्मणां स्वराणां च आभ्यन्तरप्रयत्नौ भिन्नौ कल्पितौ, अत: पतञ्जलिमतेन इकारस्य (कस्यापि भेदस्य)  शकारेण सह सावर्ण्यं नास्ति । तथैव ऋकारस्य षकारेण सह, ऌकारस्य वा सकारेण सह सावर्ण्यं न जायते ।